"राबर्ट् कोख्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:RobertKoch cropped.jpg|thumb|right|200px]]
[[चित्रम्:DPAG-2005-RobertKoch.jpg|thumb|left|200px|जर्मन्-देशस्य मूल्याङ्के राबर्ट् कोखस्य चित्रम्]]
[[चित्रम्:5 Mark DDR 1968 - 125. Geburtstag von Robert Koch -.JPG|thumb|200px|left|जर्मन्-देशस्य नाणके राबर्ट् कोखस्य चित्रम्]]
(कालः – ११. १२ .१८४३ तः २७. ०५ .१९१०)
 
अयं राबर्ट् कोख् (Robert koch) ब्याक्टीरियाविज्ञानस्य पितामहः । अयं राबर्ट् कोख् [[जर्मन् ]]-देशस्य हानोवर् हानोवर्इति प्रदेशे १८४३ तमे वर्षे डिसेमबरमासस्यडिसेम्बरमासस्य ११ दिनाङ्के जन्म प्राप्नोत् । अस्य पितुः १३ पुत्रेषु अयम् अपि अन्यतमः आसीत् । अस्य पिता खनितन्त्रज्ञः आसीत् । एषः राबर्ट् कोख् बाल्यादारभ्य अपि प्रकृतिविषये आसक्तः आसीत् । १८६६ तमे वर्षे वैद्यपदवीं प्राप्नोत् । अनन्तरं ५ वर्षाणि यावत् वैद्यालये कार्यम् अकरोत् । सः यदा वोल्स्टीन् प्रदेशस्य वैद्याधिकारी आसीत् तदा तत्रत्यानां [[मनुष्यः|मनुष्याणां]] रोगाणां निवारणेन सह पशुपक्षिणां रोगाणां निवारणस्य दायित्वम् अपि तस्यैव आसीत् । सः राबर्ट् कोख् तत् दायित्वद्वयम् अपि आसक्त्या श्रद्धया च निरवहत् । अग्रिमाणि दश वर्षाणि यावत् पुनः लघु लघु प्रदेशेषु कार्यं निरवहत् । किन्तु तस्य मनः प्रायोगशालायां कार्यं कर्तुम् इच्छति स्म ।
 
कदाचित् तस्य राबर्ट् कोखस्य जन्मदिने तस्य पत्नी तस्मै एकं सूक्ष्मदर्शकयन्त्रम् उपायनरूपेण अयच्छत् । तदेव तस्य रबर्ट् कोखस्य अमूल्यम् उपकरणम् अभवत् । सः प्रथमं तेन यन्त्रेण मृतायाः कस्याश्चित् [[धेनुः|धेनोः]] [[रक्तम्|रक्तस्य]] परीक्षाम् अकरोत् । तदवसरे तेन अरोगवतां प्राणिनां [[शरीरम्|शरीरे]] अविद्यमानं किञ्चित् वस्तु तस्मिन् रक्ते दृष्टम् । सः राबर्ट् कोख् १८९७ तमे वर्षे धेनूनां “प्लेग्”रोगस्य तथा मलेरियारोगस्य च विषये संशोधनम् अकरोत् । तेन प्रयोगेण सूक्ष्मजीविनः एव तेषां रोगाणां कारणाम् इति ज्ञातम् । [[मेषः|मेषाणां]] विचित्ररोगस्य “अन्थ्राक्स्” इत्यस्य शलाकाकारकाः ब्याक्टीरीयाः (ब्यासिल्लै) एव कारणम् इत्यपि संशोधनम् अकरोत् । तस्य कार्यं तदा सुलभं न आसीत् । तस्य प्रयोगार्थं स्थलम् एव नासीत् । अतः सः स्वस्य गृहस्य उपवेशनाङ्गणम् एव प्रयोगशालारूपेण परिवर्तितवान् आसीत् । तत्र सर्वत्र तेन उपयुज्यमानानि उपकरणानि पतितानि भवन्ति स्म । सर्वत्र गृहे रासायनिकानां वस्तूनां कटुगन्धः , [[शशः|शश]]मूषकाणां मलमूत्रादीनां गन्धः वा प्रसृतः भवति स्म । तस्य सम्पूर्णं लक्ष्यं संशोधनदिशि एव आसीत् इति कारणतः सदा प्रयोगनिरतः भवति स्म । तेन धनस्य सम्पादनं न्यूनं जातम् । तदवसरे गृहस्य निर्वहणम् एव कर्तुं न शक्यते स्म । अयं राबर्ट् कोख् तादृश्यां परिस्थितौ अपि धैर्यहीनः न जातः । स्वीयं संशोधनकार्यम् अनुवर्तितवान् । किञ्चित् कालानन्तरं विभिन्नानां सङ्घ-संस्थानां द्वारा गौरवसमर्पम् आरब्धम् । नूतनानाम् उद्योगानाम् आह्वानानि अपि आगतानि । जर्मन्-सर्वकारः एव तं राबर्ट् कोखं [[बर्लिन्]]-नगरे स्थितम् इम्पीरियल् हेल्त् इन्स्टिट्यूट् प्रति प्रेषयित्वा संशोधनार्थम् आवश्यकानि आनुकूल्यानि अकल्पयत् । लण्डन्-नगरे प्रवृत्ते विश्ववैद्यसम्मेलने तेन राबर्ट् कोखेन प्रस्तुतः अन्थ्राक्स्-सम्बद्धः प्रबन्धः सर्वेषां प्रशंसां प्राप्नोत् । तत्र प्राप्तेन प्रोत्साहेन राबर्ट् कोख् मारकरोगस्य क्षयस्य कारणं संशोधयितुम् उद्युक्तः अभवत् । वर्षद्वये एव सः तस्मिन् कार्ये सफलः अभवत् अपि । तथैव जिलेटिन् मध्ये विभिन्नाः ब्याक्टीरियाः वर्धयितुं शक्यन्ते इत्यपि संशोधितवान् । जर्मन्-सर्वकारः तं राबर्ट् कोखं भारतं तथा [[ईजिप्त्|ईजिप्तं]] प्रति कालरारोगिणां परीक्षणार्थं प्रेषितवान् । तदा अपि राबर्ट् कोख् कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् । तथैव तेषां ब्याक्टीयाणां वर्धनस्य नियन्त्रणं कथं करणीयम् इत्यपि अदर्शयत् । तस्य राबर्ट् कोखस्य एतादृशस्य महाकार्यस्य निमित्तं सः १९०५ तमे वर्षे “नोबेल्”पुरस्कारेण सम्मानितः अपि । अयं राबर्ट् कोख् ६७ वर्षाणि यावत् अजीवत् । १९१० तमे वर्षे मेमासस्य २७ तमे दिनाङ्के इहलोकम् अत्यजत् ।
 
 
[[वर्गः:वैज्ञानिकाः]]
 
[[af:Robert Koch]]
[[ar:روبرت كوخ]]
[[ay:Robert Koch]]
[[az:Robert Kox]]
[[bn:রবার্ট কখ]]
[[be:Роберт Кох]]
[[be-x-old:Робэрт Кох]]
[[bs:Robert Koch]]
[[br:Robert Koch]]
[[bg:Роберт Кох]]
[[ca:Robert Koch]]
[[cs:Robert Koch]]
[[da:Robert Koch]]
[[de:Robert Koch]]
[[en:Robert Koch]]
[[et:Robert Koch]]
[[el:Ρόμπερτ Κοχ]]
[[es:Robert Koch]]
[[eo:Robert Koch]]
[[eu:Robert Koch]]
[[fa:روبرت کخ]]
[[fr:Robert Koch]]
[[fy:Robert Koch]]
[[ga:Robert Koch]]
[[gd:Robert Koch]]
[[gl:Robert Koch]]
[[ko:로베르트 코흐]]
[[hy:Ռոբերտ Կոխ]]
[[hi:रॉबर्ट कोच]]
[[hr:Robert Koch]]
[[io:Robert Koch]]
[[id:Robert Koch]]
[[is:Robert Koch]]
[[it:Robert Koch]]
[[he:רוברט קוך]]
[[jv:Robert Koch]]
[[ka:რობერტ კოხი]]
[[sw:Robert Koch]]
[[ku:Robert Koch]]
[[la:Robertus Koch]]
[[lv:Roberts Kohs]]
[[lb:Robert Koch]]
[[hu:Robert Koch]]
[[mk:Роберт Кох]]
[[ml:റോബർട്ട്‌ കോഖ്]]
[[mr:रॉबर्ट कॉख]]
[[arz:روبيرت كوخ]]
[[ms:Robert Koch]]
[[nl:Robert Koch]]
[[ne:रोबर्ट कोच]]
[[ja:ロベルト・コッホ]]
[[no:Robert Koch]]
[[nn:Robert Koch]]
[[oc:Robert Koch]]
[[pnb:رابرٹ کوخ]]
[[pl:Robert Koch]]
[[pt:Robert Koch]]
[[ro:Robert Koch]]
[[qu:Robert Koch]]
[[ru:Кох, Роберт]]
[[sah:Роберт Кох]]
[[simple:Robert Koch]]
[[sk:Robert Koch]]
[[sl:Robert Koch]]
[[sr:Роберт Кох]]
[[sh:Robert Koch]]
[[fi:Robert Koch]]
[[sv:Robert Koch]]
[[tl:Robert Koch]]
[[ta:ராபர்ட் கோக்]]
[[te:రాబర్ట్ కోచ్]]
[[th:โรเบิร์ต คอค]]
[[tr:Robert Koch]]
[[uk:Роберт Кох]]
[[vi:Robert Koch]]
[[yo:Robert Koch]]
[[zh:罗伯特·科赫]]
"https://sa.wikipedia.org/wiki/राबर्ट्_कोख्" इत्यस्माद् प्रतिप्राप्तम्