"अजन्तागुहाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Ajanta (63).jpg|250px|thumb|right|[[अजन्तगुहाहाःअजन्तगुहाः]]]]
 
जगत्प्रसिद्धाः अजन्तागुहाः [[महाराष्ट्रम्|महाराष्ट्रस्य]] [[औरङ्गाबाद्]]नगरतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षुणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः [[गौतमबुद्धः|बुद्ध]]स्य पूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म ।
पङ्क्तिः ५:
 
सर्वासु अपि कलाकृतिषु धार्मिकच्छाया परिद्दश्यते स्म् । भिक्षुभिः उपयुक्तानां वर्णादीनाम् उत्कृष्टताया: कारणतः शताधिकानां वर्षाणाम् अनन्तरम् अपि तत्रत्याः कलाकृतयः नावीन्ययुक्ताः इत्येव भान्ति । वर्णाः नशयमानाः सन्ति इति यदा लक्षितं तदा प्राचीनकलाकृतयः रक्षणीयाः एव इति महान् प्रयासः आचरितः । ब्रिटीश-आखेटकैः एताः गुहाः १८१९ तमे वर्षे अभिज्ञाताः । ईस्ट्-इण्डियाकम्पनीजनैः एतासां कलाकृतीनां प्रतिकृतिप्राप्तये प्रयासः कृते । अत्र ३० गुहाः सन्ति । तासु ५ गुहाः ‘चैत्यगृहणि’ इति निर्दिश्यन्ते । अवशिष्टाः ‘विहाराः’ ‘आश्रमाः’ इति वा निर्दिश्यन्ते । घनशिलाभ्यः एताः गुहाः उत्खाताः स्युः इति भाव्यते । प्रवेशद्वाराणि तु उत्कृष्टाभिः कलाकृतिभः विशेषतः अलङ्कृतानि द्दश्यन्ते ।
[[File:Ajanta cave no. 9 2010.jpg|thumb|200px|नवमानवमी गुहा]]
 
‘एताः अजन्तागुहाः [[बौद्धदर्शनम्|बौद्ध]]मतीयायाः कलायाः अत्युत्कृष्टाश्रयभूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विवरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।
"https://sa.wikipedia.org/wiki/अजन्तागुहाः" इत्यस्माद् प्रतिप्राप्तम्