"महाभारतम्" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding as:মহাভাৰত
No edit summary
पङ्क्तिः ५:
'''महाभारतम्'''(आङ्ग्लभाषा [[Mahabharat]]) महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।
 
==महाभारतस्य नामकरणम्==
== नामधेयम् ==
इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिध्दम् । नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥’ इति पद्यं महाभारतस्य जयशब्दव्यवहार्यतामाह । मौलिकं जयनाम्ना व्यवहृतञ्च । महाभारतमल्पपरिमाणं स्वरुपत ऎतिहासिककथाप्रधानञ्चावर्त्तत नोपदेशप्रधानम् । जय इति नामैव तस्य ग्रन्थस्य पाण्डवविजयमात्रबोधनाय निर्मितत्वमाह । अमुमेव जयनामानं ग्रन्थं व्यासो निजशिष्यं वैशम्पायनमध्यापयामासेति सा प्रथमावस्था महाभारतस्य ।
वैशम्पायनश्च गुरोर्व्यासादधीते जये स्वरचितसंवादादि योजयित्वा नागयज्ञावसरे जनमेजयं श्रावयामासेति तस्यामवस्थायां चतुर्विशतिसाहस्त्रीपरिमाणो भारतग्रन्थः शौनकाय सौतिना श्रावणकाले तत्पृष्टप्रतिवचनैः समुपबृहितो भूत्वा लक्षश्लोकपरिमाणो महाभारतसंज्ञया प्रथितोऽभवत् । सेयं तृतीया पूर्णतावस्था । तृतीयावस्थायां मनुनाम्नाऽपि व्यवहारविषयतां गतोऽयं ग्रन्थे महाभारतमिति तस्य संज्ञा सौतिकृता ।
 
पूर्वे अस्य नाम जयसंहिता आसीत्। यथा प्रसिद्धः श्लोकः प्रत्येकस्य अध्यायस्य आदौ प्राप्यते-
 
Line १७ ⟶ २१:
अस्य ग्रन्थस्य नूतनतमस्य रूपस्य नाम शतसाहस्री संहिता अपि अस्ति।
[[File:Krishna as Envoy.jpg|thumb|'''श्रीकृष्णदौत्यम्''']]
 
==महाभारतं कस्मिन् शास्त्रेऽन्तर्भवति==
प्रथमं महाभातमितिहासः पुराणमाख्यानकञ्चेति नामभिराख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम धर्मार्थकाममोक्षाख्यचतुर्वर्गसाधनम् चामनन्ति । भारतं पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वत्रास्मिन् ग्रन्थे वैष्ण्वसिध्दान्तानां प्रमुखत्वेन प्रतिपादनान् महाभारतं वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य असीतिप्रतिशतभागोऽनेकविधोपदेशमयः, विंशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता ।
 
==महाभारतस्य रचनाकालः==
सम्प्रत्युपलभ्यमानं महाभारतं मूलमहाभारतात् परतो बहुषु शतकेषु व्यतीतेष्वेव निर्मितं स्यादतो मूलमहाभारतस्य जयाभिधानस्य वर्तमानमहाभारतात् पूर्वकालिकत्वं निश्चितम् । अत्र वर्तमानमहाभारतस्य रचनाकालसम्बन्धे विचारणीयमस्ति, तत्र –
१. ख्रीष्टैकादशशतके जातेन क्षेमेन्द्रेणा कृतो भारतमञ्जरीनामा ग्रन्थः कथायां वर्तमानमहाभारतमनुहरतीति वर्तमानमहाभारतस्य एकादशशतकपूर्वकालिकत्वं सर्वथा सिध्दम् ।
२. अष्टमशतकोत्तरार्धे जाता आद्यशङ्कराचार्या महाभारतं स्त्रीभिर्धर्मज्ञानायाध्येयत्वेनादिशन्ति, तेन महाभारतस्य ततः पूर्वकालिकत्वं सिध्दम् ।
३. अष्टमशतकोत्पन्नाः कुमारिलभट्टाः महाभारतस्य बहूनि पर्वाणि स्मरन्ति ।
४. सप्तमशतकोप्तन्ना बाणसुबन्धुप्रभृतयः कवयो महाभारतस्याष्टादशापि पर्वाणि हरिवंशं च स्मरन्ति ।
५. कम्बोडियानामके भारतस्य प्राचीनोपनिवेशे षष्ठशतकसमीपे उत्कीर्णात् शिलालेखात् ज्ञायते यत् तत्रत्याय कस्मैचिन्मन्दिराय रामायणमहाभारतग्रन्थौ भारतेन प्रहितौ । तत्कथाप्रबन्धोऽपि भारतेन कृतः ।
६. यवबालिप्रभृतिषु द्वीपेषु षष्ठशतके महाभारतमवर्त्तत, ततोऽपि पूर्वं तिब्बतभाषायां महाभारतस्यानुवादो जातः ।
७. चतुर्थपञ्चमशतकलिखितेषु दानपत्रकेषु स्मृतिरुपेण महाभारतवचनानि निर्दिष्टानि दृष्टानि ।
८. ४६२ स्त्रीष्टोत्की- एकत्र शिलालेखे पाराशर्यव्यासस्य लक्षश्लोकात्मक महाभारतप्रणेतृत्वमुल्लिख्यते ।
९. सीरियादेशभाषायाम् उपलभ्यमानस्य शान्तिपर्वाध्यायत्रयस्य साक्ष्येण हर्टलमहोदयः प्रमाणयति यत् प्रचलितं महाभारतम् ई.पू. पञ्चमशतकनिबध्दात् महाभारतात् न भिद्यते ।
१०. डयोन क्राइसोस्तोम (Dion Chyrsostom) महोदयस्य साक्ष्येण प्रतीयते यत् ५० ख्रीष्टाब्दकाले लक्षपद्यात्मकं महाभारतं दक्षिणपथे लब्धप्रचारमासीत् ।
११. ख्रिष्टप्रथमशतके स्थितेन वज्रसूचीकृत्ताश्वघोषेण हरिवंशस्थ पद्यमेकमुध्दतम् । एभिः सर्वैः समुदितैरेतत् सिध्दं यत् ख्रीष्टशतकप्रारम्भे महाभारतमवश्यमवर्तत । अपि च –
(क) पाणिनिः महाभारतं जानाति स्मेति डल्ह्मैन (Dalhmann) साक्ष्येण् प्रतीयते ।
(ख) ख्रीष्टपूर्वपञ्चमशतकप्रणीते आश्वलायनगृह्यसूत्रे महाभारतस्थोल्लेखो दृश्यते ।
(ग) ४०० ई.पू समये निर्मिते बौधायनधर्मसूत्रे महाभारतस्थोल्लेखो दृश्यते ।
(घ) बौधायनगृह्यसूत्रे महाभारतीयं विष्णुसहस्त्रनामोदिघ्रयते स्म ।
(ङ) महाभारतीयशान्तिपर्वणि विष्णोर्दशावतारगणनाकाले बुध्दस्य नाम नायाति ।
(च) मेगास्थनीजप्रणीते भारतवर्णने याः कथास्ता महाभारत एव प्राप्याः ।
(छ) ब्रह्म सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । पालिभाषासाहित्येन ज्ञायते यद् ब्रह्मणो ज्यैष्ठत्वं ख्रीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढप्रचारमासीत् ।
(ज) ज्यौतिषप्रमाणैः अपि कतिपये विद्वांसः कल्पयन्ति यत् वर्त्तमानं महाभारतम् ५०० ई.पू. समयात् प्रागेव निर्मितं न ततः परम् ।
अतः सर्वसमीक्षया महाभारतम् ५०० ई.पू. समयतः परतो न निर्मितं किन्तु कदाचित् पूर्वमेव निर्मितमिति प्रतीयते ।
 
==महाभारतस्यादरः==
रामायणस्य तुलनायां यद्यपि महाभारतस्य प्रचारादौ अल्पौ, तथापि महत्त्वदृष्ट्या महाभारतं विश्वस्य कुतोऽपि ग्रन्थान्न हीयते । महाभारतं तदानीन्तनभारतीयसमाजनीतिप्रभृतिज्ञातव्यं बोधयति, महाभारतं तदानीन्तनीं भारतीयां सभ्यतां प्रकाशयति । प्रमाणग्रन्थतयैवास्य पञ्चमवेदसंज्ञा जाता । यथा रामायणाधारेण बहवो ग्रन्था अरच्यन्त तथैव महाभारताधारेणापि । एतत् सर्वमस्य ग्रन्थस्य महत्त्वे साक्षिभूतम् ।
 
==महाभारतस्य विभागाः==
महाभारतमष्टादशसु पर्वसु विभक्तं वर्त्तते, तस्मिंश्च आदि –सभा- वन विराट- उद्योग- भीष्म द्रोण कर्ण- शल्य सौप्तिक –स्त्री- शान्ति- अनुशासन- अश्वमेध- आश्रमवासि महाप्रास्थानिक –स्वर्गारोहणपर्वणि सन्ति । कथा प्रसिध्दा ।
अनुषङ्गतः शकुन्तलोपाख्यान –मत्स्योपाख्यान –रामोपाख्यान-शिविकथा –सावित्रीकथा- नलोपाख्यानादीनि वर्णितानि ।
युध्दवर्णनमात्रं न व्यासस्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्गे प्रवर्त्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत्, अत एवात्र शान्तो रसः प्रधानभूतः वीरस्तु रसोऽङ्गभावं गतः ।
 
== कथा ==
अथ चन्द्रवंशे शान्तनुः नाम महाराजः आसीत्। एकदा सः गङ्गायाः तीरे चलन् सुन्दरीम् गङ्गाम् अपश्यत्।
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्