"जार्ज् वाशिङ्ग्टन् कार्वर्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Carver1web.jpg|thumb|left|200px|प्रर्योगनिरतः जार्ज् वाषिङ्ग्टन् कार्वर्]]
[[चित्रम्:George Washington Carver.jpg|thumb|right|200px]]
[[चित्रम्:Stamp US 1948 3c Carver.jpg|thumb|left|200px|अमेरिका-संयुक्तसंस्थानस्य मूल्याङ्के जार्ज् वाषिङ्ग्टन् कार्वरस्य चित्रम्]]
[[चित्रम्:GEORGE WASHINGTON CARVER - ONE OF AMERICA'S GREAT SCIENTISTS - NARA - 535694.jpg|thumb|right|200px|द्वितीयमहायुद्धावसरस्य भित्तिफलके जार्ज् वाषुङ्ग्टन् कार्वरस्य चित्रम्]]
 
(कालः – १८६४ तः ०५. ०१. १९४३)
 
अयं जार्ज् वाशिङ्ग्टन् कार्वर् (George Washington Carver) प्रसिद्धः कृषिविज्ञानी । एषः आफ्रिकमूलीयः[[आफ्रिका]]मूलीयः[[अमेरिका ]]-संयुक्त -संस्थाने दास्यपद्धतेः सम्पूर्णतया निषेधात् पूर्वम् एव तत्र जातः । तस्य जार्ज् वाशिङ्ग्टन् कार्वरस्य बाल्यस्य विषये किमपि विवरणं न प्राप्यते । अमेरिकादेशे तदा या वर्णभेदनीतिः आसीत् तस्याः नीतेः कारणतः अस्य जार्ज् वाशिङ्ग्टन् कार्वरस्य प्राथमिकं शिक्षणं कृष्णवर्णीयानां निमित्तम् एव विद्यमाने विद्यालये सम्पन्नम् । अनन्तरं १८८९ तमे वर्ष्वर्षे पदवीशिक्षणम् अयोवे इति प्रदेशे विद्यमाने सिम्प्लन् -महाविद्यालये समाप्य कृषिमहाविद्यालयं प्रविष्टवान् । १८९२ तमे वर्षे स्नातकोत्तरपदवीं प्राप्य तस्मिन् एव महाविद्यालये शिक्षकरूपेण नियुक्तः अभवत् ।
 
 
एषः जार्ज् वाशिङ्ग्टन् कार्वर् १८९६ तमे वर्षे बाल्ये स्वेन यत् शिक्षणं प्राप्तुम् अशक्यम् आसीत् तत् अन्यैः सर्वैः अपि कृष्णवर्णीयैः यथा प्राप्येत तथा करणीयम् इति विचिन्त्य अमेरिका-संयुक्त-संस्थानस्य दक्षिणप्रान्तम् अलबाम् अगच्छत् । तत्रत्यायां कृषिसंशोधनासंस्थायां निर्देशकः अपि जातः । शिष्याणां साहाय्येन निरन्तरं [[कार्पासः|कार्पासस्य]] वर्धनेन निस्सारां जातां भूमिं फलवतीम् अकरोत् । तत्रैव विभिन्नान् फलोदयान् वर्धमानः प्रगतिपराः कृषिपद्धतीः संशोधितवान् । कार्पासम् एकम् एव विश्वस्य जीवनयापनं परित्यज्य [[कलायः|कलायं]], [[मिष्टालुकम्|मिष्टालुकम्]] इत्यादीनां वर्धनम् अबोधयत् । कलायसदृशानि द्विदलधान्यानि भूमिं फलवतीं कुर्वन्ति इत्यपि संशोधितवान् । एषः जार्ज् वाशिङ्ग्टन् कार्वर् प्रयोगालये निरन्तरं श्रमं कुर्वन् कलायेभ्यः [[दुग्धम्|क्षीरं]], [[पिष्टानि|पिष्टं]], सौन्दर्यसाधनं, वर्णम् एवं ३०० विभिन्नानां वस्तूनाम् उत्पादनम् अपि संशोधितवान् । मिष्टालुकेभ्यः विनिगर्, रब्बर्, [[मसी]], [[निर्यासः]] इत्यादीनां १०० वस्तूनाम् उत्पादनं संशोधितवान् । स्वेन संशिधितं सर्वं ग्रामं ग्रामं प्रापयितुं प्रवासम् अपि अकरोत् । स्वेन अर्जितं सर्वम् अपि कृषिविषये संशोधनार्थम् एव व्ययितवान् अयं जार्ज् वाशिङ्ग्टन् कार्वर् ।
 
अस्य जार्ज वाशिङ्ग्टन् कार्वरस्य संशोधनानि यथा यथा जनप्रियाणि जातानि तथा तथा गौरवपुरस्कारादयः तम् अन्विष्य आगताः । सः देश-विदेशेषु प्रख्यातानां [[हेन्रिफोर्ड्]], [[महात्मा गान्धिः]], [[हेन्रि व्यालेस्]], [[क्याल्विन् कूलिड्ज्]], [[फ्राङ्क्लिन् रूस्वेल्ट्]] इत्यादीनां मेलनम् अपि अकरोत् । [[लण्डन्]]-नगरस्य रायल् सोसैटी १९१६ तमे वर्षे “फेलो” इति बिरुदम् अददात् । १९२३ तमे वर्षे “स्पिङ्ग् आर्न्” इति पदकं प्राप्नोत् । १९३९ तमे वर्षे "रूस्वेल्ट्" पदकं, १९७३ तमे वर्षे [[थामस् आळ्वा एडिसन्]] प्रशस्तिं च प्राप्नोत् । अयं जार्ज् वाशिङ्ग्टन् कार्वर् १९४३ तमे वर्षे जनवरिमासस्य ५ दिनाङ्के इहलोकम् अत्यजत् । तस्य मरणस्य अनन्तरम् अपि तस्मै प्रश्स्तीः प्रदाय गौरवसमर्पणं कृतम् ।
 
 
[[वर्गः:वैज्ञानिकाः]]
 
 
[[ar:جورج واشنطن كارفر]]
[[bn:জর্জ ওয়াশিংটন কার্ভার]]
[[bg:Джордж Карвър]]
[[de:George Washington Carver]]
[[en:George Washington Carver]]
[[es:George Washington Carver]]
[[eu:George Carver]]
[[fr:George Washington Carver]]
[[gl:George Washington Carver]]
[[id:George Washington Carver]]
[[it:George Washington Carver]]
[[mr:जॉर्ज वॉशिंग्टन कार्व्हर]]
[[nl:George Washington Carver]]
[[ja:ジョージ・ワシントン・カーヴァー]]
[[no:George Washington Carver]]
[[pl:George Washington Carver]]
[[pt:George Washington Carver]]
[[ro:George Washington Carver]]
[[ru:Карвер, Джордж Вашингтон]]
[[simple:George Washington Carver]]
[[tl:George Washington Carver]]
[[ta:கார்வர்]]
[[yo:George Washington Carver]]
[[zh:喬治·華盛頓·卡弗]]
"https://sa.wikipedia.org/wiki/जार्ज्_वाशिङ्ग्टन्_कार्वर्" इत्यस्माद् प्रतिप्राप्तम्