"कार्ल् लाण्ड्स्टैनर्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
(कालः – १४. ०६. १८६८ तः २६. ०६. १९४३)
 
अयं कार्ल् लाण्ड्स्टैनर् (Karl Landsteiner) रक्तसमूहानां शोधकः । अयं कार्ल् लाण्ड्स्टैनर् १८६८ तमे वर्षे जून् -मासस्य १४ दिनाङ्के आस्ट्रियादेशस्य[[आस्ट्रिया]]देशस्य वियन्नानगरे जन्म प्राप्नोत् । कार्ल् लाण्ड्स्टैनरस्य बाल्ये एव पिता दिवं गतः आसीत् । तस्य माता एव तं पालितवती । सः १८९१ तमे वर्षे वैद्यपदवीं प्राप्नोत् । एमिल्फिशर् सदृशानां प्रतिभावतां समूहे कार्यं कृतवान् आसीत् एषः कार्ल् लाण्ड्स्टैनर् । [[यूरोप् ]]-देशस्य प्रसिद्धेषु बहुषु प्रयोगालयेषु कार्ल् लाण्ड्स्टैनर् कार्यं कुर्वन् अनुभवं सम्पादितवान् । तदनन्तरं वियन्नानगरस्य आरोग्य - संशोधन – संस्थायांसंशोधन–संस्थायां कार्यम् आरब्धवान् । तदा समाजे [[रक्तम्|रक्तेषु]] भेदाः भवन्ति इति, ते च भेदाः आनुवंशिकरूपेण आगच्छन्ति इति सामान्यं ज्ञानम् आसीत् । किन्तु तद्विषये वैज्ञनिकं विवरणं न जानन्ति स्म । तदा क्रियमाणं रक्तपूरणम् अपि अवैज्ञानिकम् आसीत् । रक्तपूरणस्य अनन्तरमअनन्तरम् अपि बहुविधाः समस्याः जायन्ते स्म ।
 
अयं कार्ल् लाण्ड्स्टैनर् १९०० तमे वर्षे बहूनां जनानां रक्तं पृथक् पृथक् सङ्गृह्य संशोधनम् आरब्धवान् । प्रथमं रक्ते विद्यमानं द्रवयुक्तं भागं, घनवस्तुयुक्तं भागं च पृथक् अकरोत् । अनन्तरम् एकस्मिन् रक्ते अपरं रक्तं योजयित्वा सूक्ष्मदर्शकेण अपश्यत् । तदवसरे कदाचित् रक्तद्वयं यदा योजयति तदा रक्तकणाः रक्तरसे प्रसृताः सन्तः चलन्ति स्म । कदाचित् च रक्तद्वयम् अपि सम्मिल्य पिण्डवत् भवति स्म । एवं द्वयोः रक्तयोः सम्मेलनं सः कार्ल् लाण्ड्स्टैनर् “अग्लुटिनेषन्” इति अवदत् । केषाञ्चन जनानां रक्तस्य रक्तकणानाम् उपरि किञ्चन रोधजनकवस्तु भवति (Antigen) । तथैव केषाञ्चन जनानां रक्तस्य रक्तरसे किञ्चन रोधवस्तु (Antibody) भवति । तयोः रोधजनकवस्तु–रोधवस्त्वोः मध्ये सम्यक् समञ्जनं भवति चेत् रक्तकणाः रक्तरसे प्रसृताः सन्तः चलन्ति । अन्यथा परस्परं पिण्डवत् सम्मेलनं भवति । अस्य प्रयोगस्य आधारेण अयं कार्ल् लाण्ड्स्टैनर् रक्ते त्रिविधं समूहं संशोधितवान् । अग्रे [[डिकास्टेल्लो]] तथा [[स्फूर्टि]] इत्याख्यौ चतुर्थं समूहम् अपि संशोधितवन्तौ । ते च चत्वारः रक्तसमूहाः ’ए’, ’बि’, ’एबि’, तथा च ’ओ’ ।
 
 
अस्य कार्ल् लाण्ड्स्टैनरस्य संशोधनेन रक्तपूरणं सुलभम् अभवत् । तेन मरणोन्मुखाः अपि जीवितवन्तः । ’एम्’, ’एन्’, तथा ’एम् एन्’ नामकानां रक्तस्य समूहानां संशोधनगणे अपि एषः कार्ल् लाण्ड्स्टैनर् आसीत् । एषः कार्ल् लाण्ड्स्टैनर् १९४३ तमे वर्षे जून्-मासस्य २६ तमे दिनाङ्के प्रयोगालये कार्यकरणावसरे एव हृदयाघातेन मरणं प्राप्नोत् ।
 
[[वर्गः:वैज्ञानिकाः]]
 
[[ar:كارل لاندشتاينر]]
[[bn:কার্ল লান্ডষ্টাইনার]]
[[ca:Karl Landsteiner]]
[[cs:Karl Landsteiner]]
[[da:Karl Landsteiner]]
[[de:Karl Landsteiner]]
[[el:Καρλ Λαντστάινερ]]
[[en:Karl Landsteiner]]
[[es:Karl Landsteiner]]
[[eo:Karl Landsteiner]]
[[eu:Karl Landsteiner]]
[[fa:کارل لندستینر]]
[[fr:Karl Landsteiner]]
[[gl:Karl Landsteiner]]
[[gu:કાર્લ લેન્ડસ્ટેઇનર]]
[[ko:카를 란트슈타이너]]
[[hr:Karl Landsteiner]]
[[io:Karl Landsteiner]]
[[id:Karl Landsteiner]]
[[it:Karl Landsteiner]]
[[he:קרל לנדשטיינר]]
[[jv:Karl Landsteiner]]
[[sw:Karl Landsteiner]]
[[hu:Karl Landsteiner]]
[[arz:كارل لاندشتاينر]]
[[ms:Karl Landsteiner]]
[[mn:Карл Ландштайнер]]
[[nl:Karl Landsteiner]]
[[ja:カール・ラントシュタイナー]]
[[no:Karl Landsteiner]]
[[oc:Karl Landsteiner]]
[[pnb:کارل لینڈ سٹائنر]]
[[km:កាល ឡែមស្ដែនណឺ]]
[[pl:Karl Landsteiner]]
[[pt:Karl Landsteiner]]
[[ro:Karl Landsteiner]]
[[ru:Ландштейнер, Карл]]
[[simple:Karl Landsteiner]]
[[sk:Karl Landsteiner]]
[[sr:Карл Ландштајнер]]
[[su:Karl Landsteiner]]
[[fi:Karl Landsteiner]]
[[sv:Karl Landsteiner]]
[[ta:கார்ல் லாண்ட்ஸ்டெய்னெர்]]
[[tr:Karl Landsteiner]]
[[uk:Карл Ландштейнер]]
[[vi:Karl Landsteiner]]
[[yo:Karl Landsteiner]]
[[zh:卡尔·兰德施泰纳]]
"https://sa.wikipedia.org/wiki/कार्ल्_लाण्ड्स्टैनर्" इत्यस्माद् प्रतिप्राप्तम्