"हर्मन् जोसेफ् म्यूल्लर्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:First Street 1001, Muller House, Vinegar Hill HD.jpg|thumb|200px|right|इण्डियाना मध्ये विद्यमानं हर्मन् जोसेफ् म्यूल्लरस्य गृहम्]]
 
(कालः २१. १२. १८९० तः १९६७)
 
 
अयं हर्मन् जोसेफ् म्यूल्लर् (Hermann Joseph Muller) आनुवंशिकविज्ञानस्य प्रवर्तकः । अयं प्रौढशालायाम् अध्ययनावसरे एव न्यूयार्कप्रदेशस्य ब्राङ्क्स् इति स्थाने प्रथमं “विज्ञानसङ्घम्” (सैन्स् क्लब्) आरब्धवान् आसीत् । तदवसरे एषः हर्मन् जोसेफ् म्यूल्लर्
अयं हर्मन् जोसेफ् म्यूल्लर् (Hermann Joseph Muller) आनुवंशिकविज्ञानस्य प्रवर्तकः । अयं प्रौढशालायाम् अध्ययनावसरे एव न्यूयार्कप्रदेशस्य ब्राङ्क्स् इति स्थाने प्रथमं “विज्ञानसङ्घम्” (सैन्स् क्लब्) आरब्धवान् आसीत् । तदवसरे एषः हर्मन् जोसेफ् म्यूल्लर् "मारिस्" नामिकायां प्रौढशालायाम् अध्ययनं कुर्वन् आसीत् । १८९० तमे वर्षे डिसेम्बर्- मासस्य २१ तमे दिनाङ्के जातः अयं हर्मन् जोसेफ् म्यूल्लर् १९०७ वर्षे विद्यार्थिवेतनं प्राप्य ’कोलम्बिय’ -विश्वविद्यालयं प्राविशत् । तत्र द्वितीयस्य वर्षस्य अध्ययनस्य अवसरे [[इ.बि.विल्सन्]] नामकः अध्यापकः अस्मिन् [[जीवविज्ञानम्|जीवविज्ञाने]] आसक्तिम् अजनयत् । १९१० तमे वर्षे एषः हर्मन् जोसेफ् म्यूल्लर् स्नातकपदवीं प्राप्नोत् । तेन हर्मन् जोसेफ् म्यूल्लरेण स्नातकपदव्याः प्राप्तेः अनन्तरवर्षे एव थामस् हण्ट् मार्गनस्य स्त्री[[मक्षिका|मक्षिकाणां]] (ड्रासोफिल) विषये लिखितः पबन्धः प्रकटितः । अग्रे तस्यैव [[थामस् हण्ट् मार्गन्|थामस् हण्ट् मार्गनस्य]] सहायकः अभवत् एषः हर्मन् जोसेफ् म्यूल्लर् । आनुवंशिकक्रमस्य विषये थामस् हण्ट् मार्गनेन यः ग्रन्थः “दि मेकानिसम् आफ् मेण्डिलियन् हेरिडिटि” नामकः लिखितः तस्य साहाय्यार्तृषु त्रिषु अयं हर्मन् जोसेफ् म्यूल्लर् अपि अन्यतमः । एषः हर्मन् जोसेफ् म्यूल्लर् १९११ वर्षे यदा थामस् हण्ट् मार्गन्नेन सह कार्यम् आरब्धवान् तदा स्त्रीमक्षिकासु जायमानम् उत्परिवर्तनम् अपश्यत् । तासां मक्षिकाणां शीघ्रसन्तानोत्पत्तेः सामर्थ्यस्य कारणतः आनुवंशिकविज्ञानस्य विज्ञानिभिः उत्परिवर्तनस्य दर्शनार्थं बहुकालं यावत् निरीक्षा करणीया नास्ति इति अभासत
 
अनन्तरम् अयं हर्मन् जोसेफ् म्यूल्लर् स्वयम् एव संशोधनम् आरब्धवान् । तदवसरे सः उत्परिवर्तनस्य वेगस्य वर्धने उत्सुकः अभवत् । उदाहरणार्थं शाखस्य वर्धनेन उत्परिवर्तनस्य संख्याम् अपि वर्धयितुं शक्नुमः इति संशोधितवान् । १९१९ वर्षे संशोधितेन क्ष-किरणैः वर्णतन्तुषु जीविनां स्थानपरिवर्तनं भवति । तेन उत्परिवर्तनम् अतिशीघ्रं भविष्यति इत्यपि ज्ञापितवान् । एवं सः हर्मन् जोसेफ् म्यूल्लर् उत्परिवर्तनं रासायनिकपरिवर्तनस्य दृष्ट्या निरूपितवान् । तदर्थं १९४६ तमे वर्षे सः हर्मन् जोसेफ् म्यूल्लर् शरीरविज्ञाने तथा वैद्यविज्ञाने च “नोबेल्” पुरस्कारेण सम्मानितः अपि । एषः हर्मन् जोसेफ् म्यूल्लर् १९३३ तमे वर्षे [[रष्या]]देशम् अगच्छत् । किन्तु तत्रत्यः आनुवंशिकविज्ञानसम्बद्धः लैसेङ्को-सिद्धान्तः तस्मै न अरोचत । तस्य तस्य सिद्धान्तस्य विरोधम् अपि अकरोत् । ततः सः [[स्काट्लेण्ड्]]-देशम् अगच्छत् । १९४० तमे वर्षे [[अमेरिका]]देशम् एव प्रतिनिवृत्य पुनः अध्यापकवृत्तिम् एव आश्रितवान् ।
 
 
अस्य हर्मन् जोसेफ् म्यूल्लरस्य मतानुसारम् उत्परिवर्तनम् अपायकरम् एव । कदाचित् तत् उपयुक्तं भवति तावदेव । क्ष-किरणस्य परीक्षाः चिकित्साः वा अधिकतया न कारणीयाः । तेन उत्परिवर्तनं सञ्जायते । ततः जीवकोशाः क्यान्सर्-रोगेण पीडिताः भवन्ति । शरीरे क्ष-किरणानां प्रसरणावरे यदि अण्डाणौ वा वीर्याणौ वा उत्परिवर्तनं भवति तर्हि तत् [[शिशुः|शिशोः]] उपरि तीव्रं परिणामं जनयति । परमाणुस्फोटकानां स्फोटनेन यत् उत्परिवर्तनं जायते तेन विकलाङ्गाः, विकृताङ्गाः वा शिशवः जायन्ते । एषः हर्मन् जोसेफ् म्यूल्लर् १९६७ तमे वर्षे इहलोकम् अत्यजत् ।
 
 
 
[[वर्गः:वैज्ञानिकाः]]
"https://sa.wikipedia.org/wiki/हर्मन्_जोसेफ्_म्यूल्लर्" इत्यस्माद् प्रतिप्राप्तम्