"अजन्तागुहाः" इत्यस्य संस्करणे भेदः

− 10 categories using HotCat
No edit summary
पङ्क्तिः १२:
[[एल्लोरागुहाः|एल्लोरा]], अजन्ता इत्यादिषु गुहादेवालयेषु स्थितानि भितिचित्राणि भवतां मनः आकृष्टवन्ति स्युः एव । कठिनासु अपि शीलासु एताः गुहाः कथं निर्मिताः स्युः इति आश्चर्यं स्यात् खलु भवताम् ।
भवन्तः कदाचित् वा विहाराय समुद्रतीरं गतवन्तः स्युः एव खलु ? जलक्रीडायाः अनन्तरं सिकताभिः नीडादिकं रचितवन्तः स्युः अपि । तदवसरे भवद्भिः आदौ सिकताराशिः निर्मितः स्यात् । ततः प्रकोष्ठादयः निर्मिताः स्युः सिकतानाम् अपनयनेन । एवमेव निर्मियन्ते शिलागुहाः अपि । शीलागुहासु मन्दिरस्य निर्माणम् अपि एतेनैव क्रमेण भवत् । इष्टिकायाः उपरि इष्टिकानां स्थापनं तत्र न भवति । भारते शिलाकर्तनपुरस्सरं गुहादीनां निर्माणस्य आरम्भः अभवत् २००० वर्षेभ्यः पूर्वम् ।
आदौ पर्वतस्थायाः शिलायाः उपरि निर्मीयमाणायाः रचनायाः बाह्यं रुपं रेखया चित्र्यते । ततः अनपेक्षितान् भागान् अपनीय रचनानिर्माणं क्रियते । आदौ ऊर्ध्वभागस्य (छ्देः) निर्माणं भवति, ततः अवशिष्टाः भागाः निर्मीयन्ते । केरलमुम्बयीप्रभृतिषु[[केरळम्|केरल]][[मुम्बई|मुम्बयी]]प्रभृतिषु स्थलेषु द्दश्यमानाः गुहाः १९०० वर्षेभ्यः पूर्वं रचिताः । परस्पराभिमुखतया रचिताः अत्रत्याः स्तम्भाः चित्ताकर्षकाः सन्ति ।
अनपेक्षितान् शिलाभागान् ये अपनयन्ति ते प्रायः भवन्ति वृत्तिनिपुणाः । एवं हि विश्वस्यते यत् एल्लोरास्थं कैलासमन्दिरं निर्मितवान् शिल्पी प्रायः स्वयमपि न जानति स्म यत् मया निर्मितं मन्दिरम् एवम् अपूर्वं भवेत् इति ।
[[File:Ellora cave16 003.jpg|thumb|left|एल्लोरा गुहा १६।]]
"https://sa.wikipedia.org/wiki/अजन्तागुहाः" इत्यस्माद् प्रतिप्राप्तम्