"महाभारतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
महाभारतमष्टादशसु पर्वसु विभक्तं वर्त्तते, तस्मिंश्च आदि –सभा- वन विराट- उद्योग- भीष्म द्रोण कर्ण- शल्य सौप्तिक –स्त्री- शान्ति- अनुशासन- अश्वमेध- आश्रमवासि महाप्रास्थानिक –स्वर्गारोहणपर्वणि सन्ति । कथा प्रसिध्दा ।
अनुषङ्गतः शकुन्तलोपाख्यान –मत्स्योपाख्यान –रामोपाख्यान-शिविकथा –सावित्रीकथा- नलोपाख्यानादीनि वर्णितानि ।
युध्दवर्णनमात्रं न व्यासस्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्गे प्रवर्त्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत्, अत एवात्र शान्तो रसः प्रधानभूतः वीरस्तु रसोऽङ्गभावं गतः ।
 
==महाभारतस्य विशिष्टता ==
व्यासस्य कृतिरियं सर्वैरितिहास इत्युच्यते यतोऽत्र वीराणां पुण्या गाथा वर्णिता । अयं ग्रन्थो धार्मिकग्रन्थो येन लोकः स्वकल्याणं गवेषयति । अत्रैव ग्रन्थे गीतारत्नं विद्यते या दुग्धेव प्रतीयतेऽनवरतं दुह्यमानाऽपि । गीताग्रन्धस्यादरो महाभारतस्यैव विशिष्टतां प्रमापपति । स्वयमेव व्यासेन महाभारतस्य प्रशंसायां यदुक्तं तदक्षरशः सत्यम् –
:'''यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।'''
:'''न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥'''
:'''श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यत्र रोचते ।'''
:'''पुंस्कोकिलागरं श्रुत्वा रुक्षा ध्वंक्षस्य वागिव ॥'''
 
== कथा ==
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्