"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २५:
 
[[चित्रम्:Meister der Bhâgavata-Purâna-Handschrift 001.jpg|thumb|250px| १५०० ईशवीयाब्दे लिखिते भागवतपुराणे कृष्णं स्नापयन्ती यशोदा]]
 
''विद्यावतां भागवते परीक्षा'' इत्युक्तेर्भागवतस्य काठिन्यं श्रुतचरम् । अस् भागवतस्य पुराणत्वे लोकाः सन्दिहते, ते हि देवीभागवतमेवाष्टादशपुराणान्तर्गतं मन्यन्ते न श्रीमद्भागवतम् । त्रयोदशशतकोत्पन्नो वोपदेवनामा वङ्गीयो विद्वान् श्रीमदभागवतं प्रणीतवानिति कथनमपि श्रीमदभागवतस्य पुराणत्वं सन्देहे पातयतां केषाञ्चनावस्तुतत्त्वविदामेव ।
वस्तुतस्तु पुराणेषु अपेक्षितस्य ग्रन्थविस्तरस्य ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम्’ इति स्वरुपनिर्दिशस्य च भागवते सत्त्वेन तदीयं महापुराणत्वं न सन्देहदोलाधिरुढम् श्रीमदभागवतं गायत्रिमन्त्रेणारभ्यते तेनैव च समाप्तिमाप्नोतीति मन्ये महामन्त्रसम्पुटितमिदं न केवलं पुराणमेवापि तु महापुराणम् । अष्टादशपुराणेषु गणनाऽपि भागवतशब्दसाधारण्यादुभयोः प्राप्नोति, तत्र श्रीमदभागवतमुत्कृष्टगुणशालितया प्राथम्यमर्हति ।
वोपदेवेन त्रयोदशशतकोत्पन्नेन भागवतं रचितमिति कथनं तु नितान्तनिर्मूलम् तत्र कारणान्यधो निर्दिश्यते –
१. द्वैतमतानुयायी मध्वाचार्यो भागवतोपरि भागवततात्पर्यनिर्णयं नाम टीकाग्रन्थं व्यरचयत्, मध्वाचार्यः ११९९ ई. वर्षे जन्माग्रहीत्, अतस्त्रयोदशशतकात् पूर्वकालिकं भागवतं त्रयोदशशताब्द्यामुत्पन्नेन वोपदेवेन प्रणीतं न सम्भवति ।
२. एकादशशतकोत्पन्नो रामानुजाचार्यो वेदान्ततत्वसारनामके स्वग्रन्थे भागवतवर्त्तिवेदस्तुतेः पद्यमुदधृतवान् ।
३. चित्सुखाचार्येणा नवमशतकसम्भूतेन विरचिताया भागवतव्याख्याया निर्देशो मध्वाचार्यश्रीधरस्वामिविजयध्वजैः स्वग्रन्थेषु कृतः
४. दशमशतकोत्पन्नः प्रत्यभिज्ञादर्शनाचार्योऽभिनवगुप्तः स्वीयायां गीतादीकायां भागव्तस्यैकादशस्कन्धतः कतिपयपद्यानि उद्धृतवान् ।
५. साङ्ख्याकारिकासु माठरवृत्तिनाम्नी व्याख्या विद्यते, यस्याः अनुवादःचीनदेशभाषायां ५५७-५६९ मध्ये कदाचिदजायत, तत्र भागवतस्य श्लोकद्वयं निर्दिष्टम् ।
६. अष्टमशतकोत्पन्नः शङ्कराचार्यः गोविन्दाष्टक-प्रबोधसुधाकरनामकयोः स्वस्तोत्रयोः स्तुतिप्रसङ्गे यासां घटनानां चर्चामकृत ता भागवत इव स्थिताः ।
७. शङ्कराचार्यस्य परमगुरवः गौडपादाचार्याः पञ्चीकरणव्याख्यां ‘जगृहे पौरुषं रुपम्’ इति भागवतस्य पद्यं भागवतनामोपादानपूर्वकसुद्धृतवान् । अयं गौडपादाचार्यः षष्ठ शतकात् परतो नैव सम्भावयितुं शक्यते ।
इमानि प्रमाणानि सभेरीनादं साधयन्ति भागवतस्य षष्ठशतकात्प्राचीनताम्, तथा सति त्रयोदशशताब्दीजातेन वोपदेवेन निर्मितत्वं वक्तुरुपहासायैव केवलम् ।
पद्मपुराणान्तर्गतभागवतमाहात्म्यानुसारेण तु कलियुगप्रारम्भ एव भागवतस्य निर्माणं सिद्ध्यति ।
वोपदेवेन यदि भागवतं कृतं तदा हरिलीलामृतं मुक्ताफलं चेति ग्रन्थद्वयं कथं कृतम् ? हरिलीलामृते भागवतानुक्रमणी विद्यते, मुक्ताफलं च भागवतस्थसरसश्लोकानां संग्रहः, वोपदेवस्य भागवतरचयितृत्वे मुक्ताफलसदृशस्य ग्रन्थस्य तेनैव प्रणयनएप्यर्थमेव स्यात् ।
 
==भागवतस्य कवितासौष्ठवम्==
भागवतस्य पद्येषु गद्येष्वपि तादृशं चमत्कारकं सौष्ठवं प्राप्यते यत तेन विदुषां मनांसि हठादाकृष्यन्ते । नवेषु काव्यषु जातेष्वपि भागवतगता काव्यमाधुरी नापकृष्टतां गता । तत्पठतां मनांसि भागवतं काव्यमेव प्रथमं मन्यन्ते ततोऽनन्तरं पुराणादि किञ्चिदन्यत । भागवते समायातानि मथुराद्वारकाप्रभृतिनगरीवर्णनानि यथा कलायुतानि तथैव यथार्थान्यपि । केशिनो विकरालस्य रुपस्य जरासन्धभीमयोर्भीषणस्य गदायुध्दस्य च वर्णनमेकतो यदि रोमाञ्चमुदञ्चयति तदा गोपिगीतभ्रमरगीतादि पठयमानमेव हृदयं स्तिमितयति नयने उदस्रयति च । दृश्याताम –
:'''रत्नप्रदीपनिकरद्युतिभिर्निरस्त-'''
:'''ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।'''
:'''नृत्यन्ति यत्र विहितागुरुधूपमक्षै – '''
:'''र्निर्यान्तमीक्ष्य घनबुध्दय उन्नदन्तः॥'''
द्वारकावर्णनपद्येऽस्मिन् मयूराणां भ्रमस्य वर्णनं नितान्तमनोहरमिदम् । भागवतस्थितेषु वर्णनेषु चमत्कारस्तदाऽतिशयमाप्नोति यदा तत्र वर्णनेष्वपि आत्महिताधायका आध्यात्मिका उपदेशा रसवृष्टिं कुर्वते –
:'''गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः ।'''
:'''अभिभूयमाना विषयैर्यथाऽधोक्षजचेतसः ॥''' ( १०/२०/१५)
:'''सरिद्भिः संगतः सिन्धुःचुक्षुभे श्वसनोर्मिवान् ।'''
:'''अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ॥''' (१०/२०/१४)
रासपञ्चाध्यायी भागवतस्य काव्यकलायाः पराकाष्ठाया निदर्शनम् –
:'''शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।'''
:'''सुरतनाथ तेऽशुल्कदासिका वरद विध्नतो नेह किं वधः ?॥'''
:'''चरसि तंयद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाय ते पदम् ।'''
:'''तृणकृशाङ्कुरैः खिद्यतीतिः नः कलिलतां मनः कान्त गच्छति ॥'''
ईदृशं सङ्गीतमयं हृदयोद्गारप्रकाशनक्षमं च सरसं काव्यं वस्तुतः संस्कृतसाहित्येऽपरत्र दुर्लभमिति कथनं भूतार्थकथनमेव ।
 
==भागवतस्य टीकासम्पत्==
वैष्णवदर्शनिकैः सर्वैरेव भागवतस्य व्याख्या कृता, तदयं भागवतग्रन्थो ब्रह्मसूत्रसमतां गतः । अस्य ग्रन्थस्य टीकासम्पदेवादसीयं गौरवं गमयितुमलम् –
# चित्सुखाचार्यकृता टीका, नोपलभ्यते, केवलं निर्दिश्यते ।
# श्रीधरकृता टिका, इयं प्रामाणिकी, ‘श्रीधरः सकलं वेत्ति श्रीनृसिंहप्रसादतः’ इति श्रुतेः ।
# सुदर्शनसूरिणः शुकपक्षीया टीका, श्रीवैष्णवमतपोषिका ।
# वीरराघवाचार्यस्य भागवतचन्द्रचन्दिकाटीका, श्रीवैष्णवमतपोषिका ।
# विजयध्वजकृता पदरत्नावली, माध्वमतपोषिका ।
# सनातनगोस्वामिनः बृहद्वैष्णवतोषिणी, दशमस्कन्धस्य ।
# जीवगोस्वामिनः क्रमसन्दर्भः ।
# विश्वनाथचक्रवर्तिनः सारदर्शिनी ।
# जीवगोस्वामिनः षट्सन्दर्भः, तत्त्वविवेचनग्रन्थः ।
# वल्लभाचार्यस्य सुबोधिनी, वल्लभसम्प्रदायस्य ।
# शुकदेवचार्यस्य सिध्दान्तप्रदीपः, निम्बार्कसम्प्रदायस्य ।
# श्रीहरेः हरिभक्तिरसायनं नाम पद्यमयी टीका ।
एवं वयं पश्यामो यदाचार्याः भागवतं स्वमतपोषणाय सादरं व्याचख्युः, अतोऽस्य ग्रन्थस्य सारत्त्वं प्रतीमः ।
 
'''श्रीमद्भागवतमहापुराणम्''' हिन्दुधर्मस्य अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं '''श्रीमद्भागवतम्''' अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः [[भक्ति योगः]] अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त:सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता [[व्यासः]] । श्रीमदभागवतम् भारतीयवाङमयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित:अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति। <ref>[http://www.gitapress.org/hindi गीताप्रेस डाट काम]</ref>
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्