"धार्मिकपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Kalash pujan.jpg|thumb|300px]]
विविधानां [[धर्मः|धर्माणाम्]] आश्रयभूमिः [[भारतम्|भारतम्]] । अतः एव अत्रत्या संस्कृतिः अपि वैविध्यमयी एव । तस्मात् कारणात् एव भारते विभिन्नाः [[उत्सवाः|उत्सवाः]] आचर्यन्ते । उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः [[कालिदासः|कालिदासः]] “उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु ’पर्व’ इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति । तादृशाः उत्सवाः चतुर्धा विभज्यन्ते ।
"https://sa.wikipedia.org/wiki/धार्मिकपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्