Content deleted Content added
|
|
एषः जेम्स् डि. व्याट्सन् केम्ब्रिड्ज्–विश्वविद्यालये [[फ्रान्सिस् हेच्.एच् सि. क्रिक्]] इत्यनेन सह “डी एन् ए”-अणोः रचनायाः विषये दीर्घकालं संशोधनम् अकरोत् । तयोः संशोधनस्य निमित्तम् अपेक्षितं साहाय्यम् आचरितवान् [[मारीस् हेच्.एच् विल्किन्स्]] नामकः भौतविज्ञानी । तदनन्तरम् [[अमेरिका]]देशं प्रतिनिवृत्तः जेम्स् डि. व्याट्सन् वर्षद्वयं यावत् क्यालिफोर्नियातन्त्रज्ञानसंस्थायां (Caliphornia Institute of Tecnology) कार्यम् अकरोत् । ततः १९५५ तमे वर्षे प्राध्यापकरूपेण हार्वर्ड्–विश्वविद्यालयं प्राविशत् । अयं जेम्स् डि. व्याट्सन् १९६२ तमे वर्षे वैद्यकीयं तथा शरीरक्रियाविज्ञानस्य विभागे सहोद्योगिना फ्रान्सिस् हेच्. सि. क्रिकेन, तथा मार्गदर्शकेण मारीस् हेच्. विल्किन्सेन च सह “नोबेल्”–पुरस्कारं प्राप्नोत् । अयं जेम्स् डि. व्याट्सन् यदा केम्ब्रिड्ज्–विश्वविद्यालयं प्रति संशोधकरूपेण गतवान् तदा अस्य प्रतिभाम् अभिज्ञातवान् फ्रान्सिस् हेच्. क्रिक् एतं स्वेन सह संशोधनार्थम् अचिनोत् । वस्तुतः तयोः विलक्षणः स्नेहः । जेम्स् डि. व्याट्सन् अत्यन्तं मितभाषी, फ्रान्सिस् हेच्. सि. क्रिक् तु अतिभाषी । फ्रान्सिस् हेच्. सि. क्रिक् भौतविज्ञानी, जेम्स् डि. व्याट्सन् वंशशास्त्रस्य विज्ञानी । ताभ्यां द्वाभ्यां मिलित्वा कृतस्य कार्यस्य फलम् एव “व्याट्सन्–क्रिक्–चक्रकयुग्मम्” ।
|