"समासः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) added Category:संस्कृतव्याकरणम् using HotCat |
No edit summary |

पङ्क्तिः १:
== समासपरिचयः ==
समयपालनस्य प्रवृत्तिः प्राचीनकालादेव अस्ति । अधुना तु जनाः अजस्रं कार्यार्थं धावन्तः दृश्यन्ते । ते अल्पेनैव कालेन बहु किमपि साधयितुम् इच्छन्ति । एतादृशि समये यदि वयं वदामः यत् "द्वादशभिर्वर्षैः व्याकरणं श्रूयते ततो मन्वादीनि धर्मशास्त्राणि ततः अर्थशास्त्राणि चाणक्यादीनि, कामशास्त्राणि वात्स्यायनादीनि। एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते, ततः प्रतिबोधनं भवति।" इति तर्हि प्रायः न कश्चिदपि व्याकरणपठनाय सिद्धः भवेत् ।

अधुना जनाः सिद्धं, सरलं, सङ्क्षेपञ्च इच्छन्ति । उक्तमपि वर्तते "सङ्क्षेपरुचिर्हि लोकः" इति। मन्ये प्रायः सङ्क्षेपस्य एतादृशी भावना एव समासप्रयोगे प्रयोजिका वर्तते इति । समासकारणेन कियान् सङ्क्षेपः भवतीति उदाहरणद्वयेन स्पष्टं कर्तुमिच्छामि ।

यदि अस्माभिः वक्तव्यं भवेत् यत् "यः भोजनं कृतवान् अस्ति तम्" आह्वयतु इत्येतस्य वाक्यस्य स्थाने "कृतभोजनम्" आह्वयतु इति कथनेनैव इष्टसिद्धिः भवति । तथैव "यः पीतानि अम्बराणि धृतवान् अस्ति सः" श्रीकृष्णः इति एतस्य वाक्यस्य स्थाने "पीताम्बरः" श्रीकृष्णः इत्यनेनैव अर्थबोधः जायते । तर्हि तावत् लम्बायमानं वाक्यं किमर्थं वा वदेम। एवमेव ’शक्तिमनतिक्रम्य’ इत्येतस्य स्थाने यथाशक्ति इति कथनेनैव इष्टसिद्धिः भवति। यद्यपि कण्ठेकालः, जनुषान्धः, परस्मैपदम्, आत्मनेपदम् इत्यादिषु समासः अस्ति परं सङ्क्षेपः न दृश्यते इति अवभासते तथापि अस्माभिरवगन्तव्यं यत् समासात् प्राक् तत्र पदद्वयमासीत्, समासकरणेन एकं पदं जातमित्येव सङ्क्षेपः इति । वस्तुतः समासस्य प्रयोजनम् ऐकपद्यम् ऐकस्वर्यञ्च वर्तते । एकपदत्वम् एकस्वरत्वञ्च सर्वसमासेषु भवत्येव ।

तादृशं संस्कृतसाहित्यं न वर्तते यत्र सन्धिः समासश्च न स्यात् । न केवलं संकृतसाहित्ये एव अपि तु आङ्ग्लादिभाषास्वपि समासः दरीदृश्यते । यथा Good-natured, Father-in-law, Black-board, Rail-way, In-side इत्यादयः । यद्यपि तत्र समासः इति नोच्यते अपि तु Compound इति शब्देन उच्यते तथापि ’कम्पौण्ड्’ शब्दस्य समासशब्दस्य च समानः अर्थः भवति। एषः कम्पौण्ड् इति शब्दः लाटिन् भाषायाः ’काँम् पोनेरे’ इति शब्देन निर्मितः अस्ति। ’काम्’ इति शब्दः सम् शब्दस्य समानार्थकः अस्ति, तथैव अस् आस् वा धातोः पोनेरे शब्दस्य च अर्थः अपि समान एव अस्ति।
बहुविधसमासकारणेनैव एकस्य शब्दस्य अनेके अर्थाः सम्भवन्ति । अत्र कश्चन प्रसिद्धः श्लोकः अस्ति -
:अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि ।
:बहुव्रीहिरहं राजन् त्वञ्च तत्पुरुषो मतः॥

कश्चन भिक्षुकः राजानं वदति '''हे राजेन्द्र! अहं त्वञ्च उभावपि लोकनाथौ। अर्थात्, त्वं तत्पुरुषः (लोकस्य नाथः इति लोकनाथः), अहं तु बहुव्रीहिः (लोकः नाथः यस्य सः लोकनाथः)।'''
जिज्ञासेयमुत्पद्यते यत् किं नाम समासत्वमिति । वैयाकरणाः समासस्य सामान्यलक्षणं एवं वदन्ति,
:विभक्तिर्लुप्यते यत्र तदर्थस्तु प्रतीयते।:
पदानां चैक्यपद्यञ्च समासः सोऽभिधीयते॥
अर्थात्, यत्र विभक्तिर्लुप्यते परं तेषाम् अर्थस्तु अवभासते, अपि च अनेकपदानां मेलनेन एकपदं जायते। तदा समासः अभिधीयते। समासशब्दस्य अनेकाः व्युत्पत्तयः श्रूयन्ते। यथा-

'''समसनं समासः''' (भावे घञ्)

'''अनेकपदानाम् एकपदीभवनं समासः'''

'''समस्यते एकीक्रियते प्रयोक्तृभिः इति समासः''' (कर्मणि घञ्)

समुपसर्गकात् क्षेपणार्थकात् अस् इति धातोः उपवेशनार्थकात् आस् इति धातोर्वा घञ् प्रत्यये कृते सति समासशब्दः निष्पद्यते तस्य च अर्थः सङ्क्षेपः इति । परार्थाभिधायिकासु कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चवृत्तिषु अन्यतमा वृत्तिः समासवृत्तिरिति ।
समासविषये अवधेयाः अंशाः -

:*समासः प्रायः सुबन्तानामेव भवति, न तु तिङन्तानाम्।
:*समासः युगपद् द्वयोः द्वयोः सुबन्तयोः भवति। क्वचित्तु युगपद् बहूनामपि।
:*परस्परान्वितयोः सुबन्तयोः समासः भवति।
:*समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदमिति, उत्तरत्र श्रूयमाणं पदम् उत्तरपदमिति च व्यवह्रियते।
:*समासे जाते पूर्वपदम् उत्तरपदञ्च प्रतिपदिकरूपेण स्थितं भवति। ततः समस्तात् पदात् विभक्तिः योजनीया।
==समासभेदाः==
समासः द्विधा -

:१) केवलसमासः,
:२) विशेषसमासश्चेति।

===(१) केवलसमासः===
'''तत्पुरुषादिसंज्ञाविनिर्मुक्तः समाससंज्ञामात्रयुक्तः केवलसमासः।'''
यथा - भूतपूर्वः। पूर्वं भूतः इति भूतपूर्वः।

===(२) विशेषसमासः चतुर्धा===
:#[[अव्ययीभावसमासः]]
:#[[तत्पुरुषसमासः]]
:#[[बहुब्रीहिसमासः]]
:#[[द्वन्द्वसमासः]]