"पूगवृक्षः" इत्यस्य संस्करणे भेदः

thumb|right|200px|पूगवृक्षः [[चित्रम... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०६:२१, २३ जनवरी २०१२ इत्यस्य संस्करणं

एषः पूगवृक्षः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । अयं पूगवृक्षः आङ्ग्लभाषायां Betel tree इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । पूगफलं किञ्चित् वाणिज्यफलोदयः । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते ।

पूगवृक्षः
पूगवाटिका
"https://sa.wikipedia.org/w/index.php?title=पूगवृक्षः&oldid=175757" इत्यस्माद् प्रतिप्राप्तम्