"माघः" इत्यस्य संस्करणे भेदः

(लघु) माघः इत्येतद् महाकविः माघः इत्येतत् प्रति चालितम्।
माघः इत्येतद् माघकविः इत्येतत् प्रति चालितम्।
पङ्क्तिः १:
#पुनर्निदेशन [[माघकविः]]
{{निर्वाचित लेख}}
<br>
<br>
{{कविः|
| नामः = माघः
| जन्मः = ६७५
| मरणः = ७५०
| भावचित्रः =
| कालः = क्रि. श्. ६७५-७५०
| जन्मस्थानम् =वसन्तपुरः
| मरणस्थानम् =
| भाषा =[[संस्कृतम्]]
| विभागः = पध्य
| काव्यनामः = माघकविः
| आश्रयदाता =
| आवासस्थानम् = राजास्थानस्य वसन्तपुरप्रदेशः
| प्रमुख कृतयः =[[शिशुपालवधम्]]
| पिता =दत्तकः
| माता =
| पुत्रः =
}}
 
संस्कृते प्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधमप्येकम् । महाकविर्माघः अस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
 
==जन्मवृत्तान्तः==
शिशुपालवधस्य अन्ते पञ्चसु पद्येषु माघः किञ्चिन्निवेदयति । तदनुसारेण ज्ञायते माघस्य पितामहः सुप्रभदेवः य: किल वर्मलातनाम्नो राज्ञः मन्त्री बभूव । माघस्य पितुः नाम दत्तकः इति ।
 
==देशकालादयः==
राजास्थानस्य वसन्तपुरप्रदेशे वर्मलातराजस्य कञ्चन शिलालेखः सम्प्राप्तः । अस्य लेखस्य समयः क्रि. श. ६२५ इति निश्चितः । अयमेव वर्मलातः यदि माघपितामहस्य आश्रयदातेति सम्भाव्यते तर्हि माघस्य समयः प्रायः क्रि. श. ६७५-७५० भवेदिति सम्भाव्यते । शिशुपालवधस्य द्वितीयसर्गस्थितः,
 
:::अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
:::शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥
 
इति श्लोकः काशिकावृत्तिं (क्रि. श. ६५०), जिनेन्द्रबुद्धिन्यासं च (क्रि. श. ७००) प्रकारान्तरेण निर्दिशन् माघस्य पूर्वोक्त्तं समयं सममर्थयतीव ।
 
==कृतयः==
शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।
 
==प्रशंसा==
काव्यशास्त्रमर्मज्ञः माघः बहुविद्यापारङ्गतः वैदिकधर्मतत्त्वज्ञश्चासीदिति शिशुपालवधपरिशीलनेन निश्चेतुं शक्यते ।
 
"उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥"
 
"तावभ्दा भारवेर्भाति यावन्माघस्य नोदयः ।"
 
"नवसर्गे गते माघे नवशब्दो न विद्यते"
 
इत्यादयः माघकवेः प्रशंसापराः उक्तयः विराजन्ते ।
 
[[वर्गः:संस्कृतकवयः|माघः]]
 
[[bn:মাঘ (কবি)]]
[[en:Magha (poet)]]
[[ru:Магха]]
[[sv:Magha]]
"https://sa.wikipedia.org/wiki/माघः" इत्यस्माद् प्रतिप्राप्तम्