"गीतगोविन्दम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==परिचयः==
संस्कृतसाहित्यपरम्परायां गीतिकाव्यपरम्परा अस्ति अन्यतमा । [[गीतिकाव्यम्|गीतिकाव्यस्य]] प्रवर्तकः गीतगोविन्दकारः [[जयदेवः]] । गीतगोविन्दं द्वादशसर्गात्मकं खण्डकाव्यम् । अत्र चरितं न वर्ण्यते इत्यतः इदं सर्वथा काव्यकोटौ न आयाति चेदपि वर्णनपरखण्डकाव्यत्वं स्वीकर्तव्यमेव । केचित् आधुनिकाः गीतगोविन्दं गीतनाट्यं मन्यन्ते । यद्यपि इदं द्वादशशताब्द्यां निरमीयत तथापि इदं परिपक्वताम् उपयास्यतः नाट्यस्य उदाहरणस्वरूपतया प्रथमं निदर्शनं मन्तव्यम् । तदीया परम्परा वङ्गेषु उत्कलेषु च सम्प्रति अपि जीवति ।
==स्वरूपः==
सरसमधुरकवितायाः पराकाष्ठा अत्र निदर्शिता भवति । ’यदियदि भक्तिसरसकवितां च सहृदयः अपेक्षते तर्हि जयदेवसरस्वतीं शृणु इति कथयति जयदेवः –
:यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
:मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ इति ।<br />
पङ्क्तिः १०:
गीतिकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । ’यदि हरिस्मरणे सरसं मनः’ इति वचनानुसारं ’पद्मावतीचरणचारणचक्रवर्ती’ श्रीजयदेवः गीतगोविन्दकाव्यमधुररसास्वादयोग्यतालक्षणानि अन्तरङ्गमधुरमधुरम् आत्मप्रत्ययेन अभिवर्णयति । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यातिमिकश्च । तत्स्मरणमेव शरणम् । तत्स्मरणमपि हरिपर्यवसितम् । अत एव अत्यन्तम् उपादेयम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । सा च निरतिः कुतूहलञ्च पृथक् न भवेतां संश्लिष्येतां सन्निधीयेतां तदैव लोकहितौ भवेताम् । भौतिकं प्रतिवस्तु आध्यात्मिकतया समन्वयं करवाम सम्मेलयाम । तदेव निगमान्तपारिजातप्रसूनानि स्वसौगन्ध्यं प्रसारयति । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् ।
==काव्यशैली==
अष्टपदीनां माधुर्यम् आन्तरं कोमलत्वं बाह्यं कान्तत्वम् उभयधर्मी । एवं माधुर्यमेकतह् कोमलत्वम् अपरतह् कान्तत्वं सङ्घटयति । अन्योन्यम् अद्वितीयम् अनपायम् अप्यायनम् अनुबन्धं माधुर्यकोमलत्वमिथुनस्य प्राकाशयति कान्तता । अत्र व्यक्तः पुरुषोत्तमः । कोमला नायिका जीवरूपा, सखीरूपा कान्ता आचार्यस्थानीया । जीवेश्वरसमागमस्य पुरुषाकारभूता राधा । इदमेव गीतगोविन्दस्य रहस्यमिति प्रस्तावनाश्लोके एव जयदेवकविचन्द्रः काव्यार्थसूचनाम् आविष्करोति ।<br />
अत्रत्यः शृङ्गारः लौकिको नास्ति । नापि काव्यसाधारणः पुनः अतिलोकरमणीयः । दिव्यं भक्तिरूपं दधत् मधुरोज्वलरसराट् अत्र परिपोषितः । तादृशम् उदात्तं गभीरं मधुरोज्ज्वलं कान्तकोमलम् अत्युत्तमम् अपूर्वम् अचिन्त्यदिव्याद्भुतं गीतगोविन्दमहाप्रबन्धम् आलङ्कारिकमर्यादाभिः नाट्यकोविदाभिनयैः जयदेवेन लिखितम् । आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलास इति कथने नास्ति संशीतिलेशः ।<br />
श्रीमन्नारायणस्य ध्याने अनुरक्तः विलासकलाकुतूहली जयदेवः सुकुमारसुमधुरपदभरितां कवितासरस्वतीम् आराध्य हरिस्मरणं राधाकृष्णप्रणयलीलाः विप्रलम्भशृङ्गारभरिताः कमनीयं कवयति । अस्मिन् राधा जीवात्मा, श्रीकृष्णश्च परमात्मा । जीवेश्वरयोः ऐक्यमेवात्र उपनिषत् । अत्र शृङ्गारः मधुरभक्तिमयः । काव्यमिदम् अभिनयानुकूलम् । स्वयं भार्यया सह स्वसखेन परमादरेण सह श्रीकृष्णाराधनतत्परः जयदेवः स्वयम् उल्लिखति -
:विहितपद्मावतीसुखसमाजे ।
:भणति जयति जयदेवकविराजराजे ॥ इति ।
==काव्यान्तरङ्गम्==
 
[[वर्गः:संस्कृतगीतिकाव्यम्]]
"https://sa.wikipedia.org/wiki/गीतगोविन्दम्" इत्यस्माद् प्रतिप्राप्तम्