No edit summary
पङ्क्तिः १८:
==समीचीनः प्रयासः==
महोदय, प्रणमामि । भवता क्रियमाणानि कार्याणि पश्यन्ती सन्तोषम् अनुभवामि । अधुना लेखानाम् अलङ्करणे अपि भवान् निपुणः जातः । इदं सर्वं भवता स्वयमेव अभ्यस्तम् इत्येतत् मोदावहः विषयः । धन्यवादः । यदि शक्यम् अन्यान् अपि संस्कृतज्ञान् अस्मिन् सफले कार्यॆ नियोज्यताम् इति मम निवेदनम् । [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) १०:०१, २८ जनुवरि २०१२ (UTC)
==कुशलोत्तरम्==
अयि,भवति, प्रणामपूर्वकम् धन्यवादाः ।
अहम् इदमिदानीं कानिचित् कौशलानि अभ्यसन्नस्मि । मम् गणकफलके एव सम्पादनानि कृत्वा अत्र विविधसम्पादनपृष्ठे परिवर्तनम् कथं करणीयम् ? इति मया न ज्ञातम् । अन्यैः सम्पादितानि लेखनानि दर्शं दर्शम् इतोऽपि प्रयत्नं करिषामि । अत्र ग्रामीणप्रदेशे एतादृशे कार्ये उत्सुकाः विद्वांसः न्यूना एव तथापि अनेकेषां सकाशे मया निवेदितम् । सर्वं संस्कृतसेवायै ननु! । अस्तु मन्दगत्या मया सम्पाद्यते । शुभवादाः, वन्दे।[[User:Vmbgeral|Vmbgeral]] ([[User talk:Vmbgeral|चर्चा]]) १५:१७, २८ जनुवरि २०१२ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Vmbgeral" इत्यस्माद् प्रतिप्राप्तम्