"अलङ्काराः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
 
अलङ्कारशब्दस्य व्युत्पत्तिः डुकृञ् (कृ)-धातुना अण् प्रत्ययं कृत्वा भूषणार्थे अलं-शब्देन समासं कृत्वा भवति । अलङ्कारः काव्यस्य भूषणं भवति यथा अङ्गद-कुण्डलादयः मनुष्यस्य भूषणानि भवन्ति । तथैव ते काव्यस्य सौन्दर्योत्कर्षहेतवः भवन्ति । अलङ्कारस्योपरि अनेकैः आचार्यैः विशदः विमर्शः कृतः । काव्यस्य सौन्दर्यविधायकेषु तत्त्वेषु अलङ्कारस्य कियत् स्थानम् कियत् प्राधान्यं वा इति विषये आचार्येषु मतभेदः वर्तते। परन्तु काव्योत्कर्षे अलङ्काराणाम् अत्यधिकं महत्त्वम् अस्ति इति मतं सर्वे अङ्गीकुर्वन्ति । काव्यस्य सौन्दर्यविधायकतत्त्वेषु कस्य तत्त्वस्य प्राधान्यम् आत्मतत्त्वत्वं वा इति मतमधिकृत्य काव्यशास्त्रस्य अनेके सम्प्रदायाः विकसिताः । [[अलङ्कारसम्प्रदायः]] अपि एतेषामेकः अस्ति । सम्प्रदायानां, तेषां प्रवर्तकाचार्याणां, प्रवर्तकग्रन्थानां च नामानि एतानि सन्ति -
 
==अलङ्काराः==
काव्याङ्गेष्वलङ्काराणां समुचितं स्थानमस्ति । [[भामहः]], अलङ्काराः कटककुण्डलादयो यथा स्त्रीपुरुषयोश्शरीरसौन्दर्यमभिवर्धयन्ति तथा उपमादयोऽलङ्काराः काव्यशरीरस्य सौन्दर्यमभिवर्धयन्तीति कथयामास । सः रसमपि रसवदलङ्काररुपेण पर्यगणयत् । [[वामनः]] काव्यालङ्कारसूत्रवृत्तौ काव्यस्यात्मा रीतिरिति, अलङ्काराः काव्यसौन्दर्यमतिशाययन्तीति च प्रोवाच । [[दण्डिः|दण्डीतु]] काव्यान्तस्सौन्दर्यस्यगुणाः एवाभिवर्धकाः इति, अलङ्कारास्तु काव्यस्य बाह्यशोभाकारणभूताः इति च, अकथयत् । ध्वनिकारो ध्वनिं काव्यात्मतया सिध्दान्तीकृत्य, सः ध्वनिर्वस्त्वलङ्काररसरुपेण त्रिविधो भवतीति व्याख्यातवान् । अभिनवगुप्तो पद्यप्य लङ्कार वैशिष्ट्य मभ्युपगतवान्, तथापि तेषां रसपर्यवसायित्व मेव युक्तं मेने । जगन्नाथपण्डितः व्यङ्ग्य रामणीयकताया मलङ्काराः प्रयोजका भवन्ती त्यवदत् । एवं लाक्षणिकाः केवलालङ्काराणां समुचितं स्थान मस्तीति मुक्तकण्ठ मङ्गीचक्रुः ।
अर्थालङ्काराणा मभावे शब्दसौन्दर्यं केवलं चित्त मावर्जयितुं न शक्नोतीति, अलङ्कारस्पर्शाऽभावे वाक्या न्यरमणीयानि भवन्तीति च केचन वदन्ति । “ अर्थालङ्कार रहिता विधवेव सरस्वती” इति, अग्निपुराणॆ व्याख्यात मस्ति । काव्य लक्षण करण समये मम्मटः, “ अनलङ्कृती पुनः क्वापि” इत्यवदत् । तत्रापि स्फुटालङ्कार प्रतीत्यभावेऽपि नास्तिदोष इत्येव तस्य आशयः, न तु सर्वथाऽलङ्कार विरह स्तस्याऽभिमतः । रसस्य ध्वने श्चोपस्कारका स्सन्तोऽलङ्काराः काव्यस्य शोभा मुद्दीपयन्तीत्यत्र नास्ति विप्रतिपत्तिः ।
वामनः “ सौन्दर्य मलङ्कारः” “ स दोषगुणालङ्कार हानादानाभ्याम्” “ काव्यशोभायाः कर्तारो धर्मा गुणाः” “ तदतिशयहेतव स्त्वलङ्काराः” इति सूत्रेषु, अलङ्कार स्वरुपं व्याख्यातवान् । काव्यशोभायाः अभिवर्धने हेतुभूता अलङ्कारा भवन्तीति तस्याशयः । “ काव्यशोभाकरान् धर्मा नलङ्कारान् प्रचक्षते” इति दण्डी अलङ्कार निर्वचन मकरोत् । अलङ्कृति रलङ्कारः, अलङ्क्रियतेऽनेन इत्यलङ्कारः, इति अलङ्कार शब्दस्य व्युत्पत्ति द्वय् मस्ति । अनयो द्विर्वतीया व्युत्पत्ति रुपमाद्यलङ्काराणां विषयेऽनुगुणतया समन्वेति । ततश्च अलङ्कारो नाम अलङ्करण साधन मित्येव विभाव्यं न त्वलङ्कार्य मिति । जगन्नाथ पण्डितः स्वयं सुन्दरं सदन्योपस्कारक मलङ्कार शब्द वाच्य मवोचत् । “ सुन्दरत्वे सत्युपस्कारकत्व मलङ्कारत्वम्” इति जगन्नाथेन प्रतिपादितम् ।
अलङ्काराणां संख्याविषये मतभेदा दृश्यन्ते । भरतो यमकाख्यमेकं शब्दालङ्कारं, उपमा दीपक् रुपकाख्यान् त्रीनर्थालङ्कारांश्च प्रत्यपादयत् । अग्निपुराणे ऽष्टौ, विष्णुधर्मोत्तरपुराणे सप्तदश चालङ्कारा वर्णिताः । दण्डी पञ्चत्रिंशत्, भामहोद्भटौ षटत्रिंशत्, च अलङ्कारान् कथयामासुः । मम्मटः एकषष्टिसंख्याकान्, विद्यानाथः, षटषष्टि संख्याकान् (रसवदादिभि स्सप्तभिर्मेलने त्रिसप्तातिः), विश्वनाथः नवसप्तति संख्याकान् जयदेवः एकाधिक शत संख्याकान्, अप्पय्यदीक्षितः एकविंशत्युत्तर शतसंख्याकान् च, अलङ्कारान् पर्यगणयन् । शोभाकरमिश्रोऽलङ्कार संख्या मितोऽप्यवर्धयत् । भरतप्रोक्तानि भूषणानि, लास्याङ्गानि, नाट्यालङ्काराः , केचि त्सन्ध्यङ्गानि चार्वाचीनै रालङ्कारिकै रलङ्कारेषु विन्यस्तानि । किमिमे सर्वेऽप्यलङ्कारा भवन्ति ? केचनालङ्कारा अलङ्कारान्तरेषु, अन्तर्भावयितुं शक्यन्ते वा ? इति विमर्शो रसगङ्गाधरे परिदृश्यते ।
शब्दालङ्कारा अर्थालङ्काराश्चेति भेदेन प्राधान्येनालङ्कारा द्विविधा भवन्ति । केचि दुभयालङ्कारा इति तृतीय मपि भेद माहुः । अर्थ मनपेक्ष्य शब्दं केवल माश्रित्य प्रवर्तमाना अलङ्कारा श्शब्दालङ्कारा उच्यन्ते । अर्थं केवल माश्रित्य प्रवर्तमाना अलङ्कारा अर्थालङ्कारा भवन्ति । शब्दार्थाश्रया अलङ्कारा उभयालङ्काराः कथ्यन्ते ।
अनुप्रास यमकादय श्शब्दालङ्काराः उपमा रुपकादयोऽर्थालङ्काराः, पुनरुक्तवदाभास लाटानुप्रासादयः , उभयालङ्कारा भवन्ति । भोजः सरस्वतीकण्ठा भरणे शब्दालङ्कारा बाह्याः, अर्थालङ्कारा आभ्यन्तरा इति व्याजहार । जाति- गति- रीति- वृत्ति- च्छाया –मुद्रा –शय्यादयोऽपि शब्दालङ्कारा एवेति निश्चिकाय । औचित्य मनुसृत्य प्रयुक्ता श्शब्दालङ्काराः पाठ्काना मानन्द मभिवर्धयन्ति । संस्कृत कवयो वन युध्द वर्णनादि सन्दर्भेषु शब्दालङ्कारा न्बहुविधान् समायोजितवन्तः । आन्ध्र भाषा कवयोऽपि वन- जल- क्रिडा- पुष्पापचय-प्रभृति वर्णनेषु शाब्दालङ्कार प्रीति मदर्शयन् । वस्तुत श्छन्दोयुक्ता रचनैव शब्दालङ्काररुपा इति केचि द्वदन्ति । अर्थालङ्काराणां योजनेन कवेः प्रतिभाकौशल मतीवाऽभिव्यज्यते । आनन्दजनका भावरामणीयकचमत्कारा एव मूल मलङ्काराणाम् । यद्य प्यलङ्कारा स्समग्रलक्षण लक्षिता भवन्ति , तथापि तेषा मङ्गि सैन्दर्य जनकता यदि न स्यात्तदा तेऽलङ्काराणां प्रधानं कार्य मिति वदन्त्यालङ्कारिकाः । अलङ्कारा यदा ललनाशरीर मधिष्ठाय सौन्दर्य मभिवर्धयन्ति तदैव तेऽलङ्कारा शब्द वाच्या भवन्ति, न तु पेटिका स्थिता अलङ्काराः । एवं रसध्वन्युपरस्कारकाणा मेवालङ्काराणा मलङ्कारता सिध्यति । अन्यथा ते केवल मर्थचित्रा भवन्ति । केचित् रस मप्यलङ्कारं भावयन्ति । तन्न युक्तम् । यतो रसो न कमप्यलङ्करोति । अपि तु स्वय मलङ्कार्यो भवति । यो हयप्रधानो जायमानः अन्य मलङ्करोति स एवालङ्कार शब्द व्यपदेश्यो भवति । अतो रसः केवल मलङ्कार्यो भवति, न त्वलङ्कारः ॥
प्रतापरुद्रीयेऽलङ्काराणां विभाग इत्थं परिदृश्यते । रुपक- परिणाम सन्देहादयः (१६) प्रतीयमानौपम्याः । एष्वौपम्यं व्यङ्ग्यतया भासते न तु वाच्यतया । समोसोक्ति – पर्यायोक्ति – आक्षेप- परिकरादयः (१०) प्रतीयमान वस्तुकाः । एषु वस्तु व्यङ्ग्यतयाऽवभासते । रसवत् –प्रेय –ऊर्जस्वि- समाहित – भावोदय- भाव शान्ति – भावसन्धि – भावशबलताः (८) प्रतीयमान रस भावाः । एतेषु रसभावा व्यङ्ग्यतयाऽभिव्यज्यन्ते । शिष्टा उपमादयोऽलङ्काराः (४०) अस्फुटप्रतीयमानौ पम्यरसभावाः । एषु वस्तु – रस –भाव- औपम्यादयोऽस्फुटतया केवलं प्रतीयन्ते ।
साधर्म्य – विरोधादि मूलकतयाऽलङ्कारा द्वादश विद्या विभक्ताः । रुपक परिणामादयः (७) अभेद प्रधान साधर्म्याः । दीपक तुल्ययोगितादयः (८) भेदप्रधान साधर्म्याः । उपमा – अनन्वयादयः (४) भेदाऽभेद प्रधान साधर्म्याः । एवं साधर्म्य मूलका अलङ्कारा (१९) एकोनविंशति भेदभिन्नाभवन्ति । उत्प्रेक्षाऽतिशयोक्त्य् लङ्कारौ (२) अध्यवसायमूलौ । उपमेयं वाच्यतयाऽनुक्त्वा उपमानमात्रमुक्त्वा तयो रभेद कथन मध्यवसाय उच्यते । विभावना विशेषोक्त्यादयः (१०) विरोधमूलाः । एषु कार्य कारण वैरुध्य मुपलक्ष्यते । यथासंख्य- परिसंख्य- प्रभृतयः (५) वाक्य न्याय मूला भवन्ति । वाक्यन्याया मीमांसाशास्त्र सम्बध्दा भवन्ति । परिवृत्ति- प्रत्यनीक –प्रभृतयः (८) लोकव्यवहारमूलाः । काव्यलिङ्ग – अनुमान –अर्थान्तरन्यासा (३) स्तर्कन्यायमूलाः । कारणमाला एकावली – मालादीपकसाराः (४) श्रृङ्खला वैचित्र्य मूलाः । हारस्थानां मौक्तिकानां रत्नादीनां च पौर्वापर्य सम्बन्धेन सौन्दर्यातिशयो यथा भवति तद्वदत्रापि वैचित्र्यं भवति । व्याजोक्ति- अपह्नवौ (२) विशेषण वैचित्र्य मूलकौ भवतः । शिष्टाः श्लेषादयः (३) केवलालङ्कारा भवन्ति । अत्र न कस्यापि न्यायादे रपेक्षा वर्तते ।
केचित् पुनः शास्त्रीयांशानां प्रवेश मालम्ब्य अलङ्कारान् व्याकरणमूलकाः, मीमांसामूलकाः, न्यायशास्त्रमूलकाः, वेदान्तशास्त्र मूलका इति व्यभजन्
प्राचीनालङ्कारिकाः केचि दुपमायाः , अन्ये वक्रोक्तेः , अपरे श्लेषस्य च प्राधान्य मदुः । वामनः, उपमालङ्कारं सर्वालङ्कार बीजभूत ममन्यत । अतोऽय मुपमागर्भा नलङ्कारान् विस्तरेण प्रत्यपादयत् । अर्वाचीना आलङ्कारिका वामनमत मेवाऽनुसरन्तः, स्वीयग्रन्थेषु उपमायाः प्राथम्यं प्राधान्यं चाकल्पयन् । दण्डी बहून् उपमालङ्कारभेदा नकथयत् । अप्पय्यदीक्षित श्चित्रमीमांसायां –
उपमैका शैलूषी संप्राप्ता चित्र भूमिका भेदान् ।
रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ॥
इति प्रतिपादयन् उपमाया व्यापकता मकथयत् ।
भामह स्सर्वेऽप्यलङ्कारा वक्रोक्तय एवेति संभावयामास । वक्रोक्ति र्नाम स्वभाव विरुध्दा चमत्कार संशोभिता च विकटोक्ति रेव । तथा विकटतया कथनेनैव चमत्कारोदयो भवति, पाठकाना मानन्दोऽप्यभिवर्धते । वक्रोक्ते रभावादेव स्वभावोक्तिं भामहोऽलङ्कारतया न स्वीचकार । कुन्तको भामहस्य वक्रोक्तिवाद् मभ्युपगम्य, वक्रोक्ति रेव काव्यजीवित मिति सिध्दान्तयामास । मम्मटः अतिशयोक्तिं सर्वालङ्कार बीजभूता मभावयत् । अस्य अतिशयोक्तिः, भामहाभिमता वक्रोक्ति श्च अभिन्ने एव ।
सैषा सर्वैव वक्रोक्ति रनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥
इति भामहः वक्रोक्तेः प्राधान्यं समुदघोषयत् । सर्वेऽप्यलङ्कारा श्श्लेष संस्पर्शेन शोभातिशयं पुष्णन्तीति केचि दमन्यन्त । “ श्लेषः पुष्णाति सौभाग्यं प्रायो वक्रोक्तिषु स्थितम्” । इति वाक्य मत्र प्रमाणम् ।
अलङ्काराणां माहात्म्यात् काव्यानां प्रौढत्वं सौन्दर्यं चाभिवर्धते । उपमाद्य लङ्कारा वर्ण्यवस्तुषु विद्यमान मप्रत्यक्षं सौन्दर्यं प्रत्यक्षं विधाय परा मनुभूति मनुभावयन्ति । “ अधरकिसलय” इत्युक्ते अधरे विद्यमानं मार्दव मारुण्यं च प्रत्यक्षीभूय मानस मानन्दयति । एव मलङ्कारा अपरिचितेऽपि वस्तुनि विद्यमानं स्वरुपं स्वभावं च प्रत्यक्षकल्पं विधायानुभूतौ स्थापयन्ति । वयं न कदापि गवयाख्यं मृगं दृष्टवन्त स्तथापि, “ गोसदृशो गवय” इत्युक्ते गवयस्य स्वरुपस्वभावौ विज्ञायेते । अलङ्कारा वर्णस्य भावस्य स्पष्टतां सम्पादयन्ति, निरुप्यमाणस्य वर्णांशस्य वैशद्यं च प्रकाशयन्ति । तेन च सहृदयानां मनांसि रञ्जितानि भवन्ति । विद्यानाथो मम्मटस्य –
उपस्कुर्वन्ति तं सन्तं येऽङ्गद्वारेण संश्रिताः ।
हारादिवदलङ्कारा स्तेऽनुप्रासोपमादयः ॥
इति श्लोक मेवं व्यवृणोत् । कर चरणाद्यवयवगतै र्वलय नूपुरादिभि र्यथा ‘अवयवी’ अलङ्क्रियते, तथा काव्यावयवभूत शब्दार्थनिष्ठै रनुप्रासोपमादिभि रलङ्कारै रङ्गिभूतं काव्य मलङ्क्रियते इति ।
अलङ्कारा स्सौन्दर्याधायका इति सत्यमेव, तथापि तेषा मुपनिबन्धने कविभि स्सातिशयं सावधानै र्भाव्यम् । अन्यथाऽलङ्कारा गडुप्राया स्सन्तो विकृतिभूता भवन्ति । प्रतिभाशालिनः कवयो न कदापि प्रयत्नपूर्वक मलङ्कार संयोजन मिच्छन्ति । ते सहजतयैव सिद्ध्यन्ति तेषाम् । काव्य प्रतिपाद्यानां रसभावाना मुपस्कारकतया अलङ्कारा यदा निवेश्यन्ते तदैव काव्यस्य शोभा मतिशाययन्ति । सन्निवेशस्य अनुगुणतया प्रयुक्ता श्शब्दालङ्कारा अपि सौन्दर्यपोषका जायन्ते । असमयेऽनुचिततया प्रयुक्ता अलङ्काराः पाण्डितीविशेषस्य प्रतिभा विलासस्य च प्रकाशका स्सन्तोऽपि, आत्मभूतस्य ध्वने र्भञ्जका भवन्ति, काव्यस्य च कृत्रिमता मापादयन्ति । तादृशालङ्कार सम्पन्नानि काव्यानि चित्रकाव्यानीति व्यपदिश्यन्ते ।
आनन्दवर्धनः काव्येऽलङ्कारप्रयोग सन्दर्भे कविना पालनीयान् नियमान् समीक्षा प्रकारांश्च निरवोचत् । अलङ्कारा स्समुचिते समये स्वीकरणीयाः । ते अप्रयत्नसिध्दा भवेयुः । ते रस परन्त्रतया विन्यसनीयाः । अलङ्कारस्याद्यन्तं पोषणं कर्तव्य मित्यभिनिवेश सत्याज्यः । अलङ्कारा स्सर्वदाऽङ्गभूता भवेयुः । प्रतिभावतां कवीनां काव्येषु, अलङ्कारा अपृथग्यत्न निर्वर्त्य महमहमिकया परापतन्ति । मनोरञ्जकानां वाक्प्रकाराणा मनन्ततयाऽलङ्कारा अपि, अनन्ता भवेयुः । तेषां प्रत्येकशो निरुपणं दुस्साधमेव भवति । परं प्राचीना आलङ्कारिका अलङ्काराणां स्वरुपस्वभावयो राविष्करणे, तेष्वन्योन्यभेदानां प्रतिपादने, तदीयाना मवान्तरभेदानां निरुपणे च महान्तं कौशलं प्रदर्शयामासुः ।
सर्वेऽलङ्कारा अभिधारुपा भवन्तीति केचित् ब्रुवन्ति । ते च ध्वने रङ्गभूता ध्वनिसम्बन्ध संशोभिता स्सन्त एव मनोहरा भवन्ति । अर्थ रामणीयकस्य कदाचित् व्यङ्ग्यार्थो मूलहेतु र्भवति । एवं वाच्यार्थोऽपि कदाचित् हेतुभूतो भवेत् । ततश्च रमणीयार्थ प्रतिपादन तत्परः कविः, सदा ध्वनावेव केवल मनुरक्तिं विहाय मध्ये मध्ये गुणीभूतव्यङ्ग्य मार्ग मप्यनुसरति । समासोक्ति – अप्रस्तुतप्रशंसा- दीपक् –परिकरादयोऽलङ्कारा गुणीभूतव्यङ्ग्या एव भवन्ति । ध्वनि रङ्गी, अलङ्कार्यश्च भवति । अलङ्कारोऽङ्गभूतः । कदाचि द्यदि व्यङ्ग्यभूतस्य, अलङ्कारस्य प्राधान्यं तदा स ध्वनि रेव भवति । व्यङ्ग्यस्याऽप्राधान्ये च गुणीभूतव्यङ्ग्यो भवति । अलङ्काराणां ध्वन्यङ्गतया निवेशने एव कविभिः, सदा प्रयत्नो विधेयः ।
अलङ्काराणा मुत्पत्तिः – यस्यां कस्या मपि भाषायां काव्य सम्बन्धिनां गुणालङ्कारादीनां बीजानि सहजतयैव निविष्टानि भवन्ति । तान्येव बीजानि काव्येषु कविभिः परिष्कृतानि सन्ति स्पष्टतां प्राप्य पाठकेष्वानन्दं जनयन्ति । सामान्यानां जनानां सम्भाषणेऽपि विना प्रयत्न मलङ्कारा स्सहजतया परापतन्तो दरीदृश्यन्ते । “ प्रक्षालनाध्दि पङ्कस्य् दूरा दस्पर्शनं वरम्”, “ भुजङ्ग एव जानीते भुजङ्ग चरणम्” “अयं राक्षसः” “तस्य स एव सदृशः” इत्यादिषु व्यवहारेषु, अलङ्कारै स्साकं छन्दसोऽपि बीजानि दृश्यन्ते । प्रपञ्चवाङ्मय एव प्रथम इति वक्तव्यः ग्रन्थः ऋग्वेदः । तत्र बहवः काव्यगुणाः प्रसिध्दा अलङ्कारा श्च लक्ष्यन्ते ।
सूर्यो देवी मुषसं रोचमानां ।
मर्यो न योषा मभ्येति पश्चात् ॥
इति वर्णनं सूर्यसूक्ते वर्तते । यथा मर्त्य स्सुन्दरीं युवतिं पश्चा दनुसरति तथा सूर्योऽपि रोचमानां उषोदेवी मनुस्रतीति भावः । अन्यत्र ‘मात्रा स्नातानुलिप्ता युवति रिव त्व मात्मनः शरीर लावण्यं सर्वेभ्यः प्रदर्शयसि’ एव माद्यर्थकानि सूक्तानि उपमालङ्कार शोभितानि ऋग्वेदे तत्र तत्रोपलभ्यन्ते । निरुक्ते यास्काचार्यः “ अथ उपमाः” इत्युपक्रम्य द्वादशविधान् उपमाभेदान् प्रतिपादितवान् । अनेन तस्मिन्नेव काले, अलङ्कारशास्त्रस्य विकासोऽवर्तत इत्यनुमातुं शक्यते । श्रीमद्रामायणॆ महाभारते पाणिनीयादिषु च, अलङ्कार प्रशंसा दृश्यते । वात्स्यायन निर्मितेषु कामसूत्रेषु, चतुष्षष्टि कलास्वन्यतमत्वेन परिगणितस्य क्रियाकल्पस्य व्याख्याता “काव्यालङ्कार इत्यर्थः” इति विवरण मकरोत् । ललितविस्तर ग्रन्थे क्रिया कल्पकलायाः प्रस्तावो वर्तते । क्रिस्तु शतक प्रारम्भे निर्मितेषु केषुचित् संस्कृतभाषा शासनेषु शब्दालङ्कारा गुणा श्च प्रस्तुताः । अनन्तरकाले काव्य रुपकादिषु शब्दार्थालङ्कारा बहुशः प्रयुक्ताः । आलङ्कारिका स्सर्वान् तानलङ्कारान् क्रोडीकृत्य, परिशील्य तेषु विद्यमानान् भेदान् अवान्तरभेदां श्च न्यरुपयन् । त्रिचतु स्संख्याका एवालङ्काराः प्रारम्भे वर्तमाना आसन् । कालक्रमेणाऽलङ्काराणां संख्या शताधिका संजाता ।
अलङ्काराणा मभावेऽपि कवे श्चातुर्य वशात् रसाः प्रतीयेरन् । केषुचित्स्थलेषु रसानां पुष्टिं सम्पादय न्त्यलङ्काराः । परं रस एवाऽलङ्कारेषु गर्भितो भवतीति वक्तु मयुक्तम् । कदाचित् शब्दालङ्कारा रस भञ्जका अपि भवेयुः । अत स्तेषां प्रयोगे कविभि स्सावधनै र्वर्तनीय मस्ति ।मुक्ताहारादयो यथाऽङ्गभूतानां कण्ठादीनां शोभां जनयन्तोऽन्ततः, अङ्गिन श्शोभां सम्पादयन्ति तथा काव्याङ्गभूत शब्दार्थानां वैचित्र्यं प्रथमं सम्पाद्य, यमकोपमादयोऽलङ्काराः, पर्यन्तेऽङ्गिभूतस्य रसस्य काव्यस्य च सौन्दर्य मभिवर्धयन्ति । यदि तत्र रसो न भवेत्तदाऽलङ्काराः केवलं शब्दार्थ वैचित्र्य मात्र सम्पादका भवन्ति । एव मलङ्कारा गुण- रीति- वृत्त्या द्यपेक्षया नात्यन्तप्रधाना इति वक्तुं शक्यते । तथापि लाक्षणिका स्सर्वे काव्येऽलङ्काराणां समुचितं स्थान मस्तीत्येवाङ्गीकुर्वन्ति । रसादिभ्यः व्यङ्ग्याच्च् भिन्नः, शब्दार्थयो रन्यतर माश्रित्य प्रवर्तमानः, परम्परया प्रधानेन रसादिना सम्बध्दः चमत्कृति सम्पादकः पदार्थ एवाऽलङ्कारः ।
 
 
* [[रस]]सम्प्रदायः - [[भरतमुनिः]] ([[नाट्यशास्त्र]]म्)
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्