"हिमालयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९३:
अनेकेषाम् ऋषिमुनीनाम् आश्रमाः आसन् हिमालये । महर्षेः वसिष्ठस्य आश्रमः आसीत् हिमालयस्य उपत्यकायाम् । तमसातीरे वाल्मीकिमहर्षेः आश्रमः आसीत् । मालिनीनद्याः तीरे [[कण्वः|कण्वाश्रमः]] आसीत् । [[व्यासः|व्यासाश्रमः]] आसीत् बदरीसमीपस्थे “माण”नामके ग्रामे । तत्रत्यायां गुहायाम् उपविश्य एव व्यासमहर्षिः [[महाभारतम्|“भारतं”]] [[भागवतम्|“भागवतं”]] च अरचयत् । हिमालये तपस्विनां परम्परा प्राचीनकालादपि अव्याहतरूपेण अस्ति । ब्रह्मपुत्रः तपः आचरत् अत्रैव । प्रलयकाले [[मनुः|मनुः]] अस्य एव नगाधिराजस्य आश्रयं प्राप्य तपः आचरत् । आचार्यत्रयाणां [[शङ्कराचार्यः|शङ्करस्य]] [[मध्वाचार्यः|मध्वस्य]] [[रामानुजाचार्यः|रामानुजस्य]] च साधनस्य प्रेरणामूलं हिमालयः एव । अर्वाचीनकाले अपि महर्षिदयानन्दं, स्वामिश्रद्धानन्दं, [[विवेकानन्दः|विवेकानन्दं]], रामतीर्थं, शिवानन्दम्, अखण्डानन्दं, गुरूजि-गोल्वल्करं चापि आकर्षत् हिमालयः । अस्याः पवित्रभूमेः मङ्गलमयस्य वातावरणस्य प्रभावः अस्ति तादृशः । तस्मात् एव अनेके साधवः, सज्जनाः, विरागिणः वा भगवत्प्राप्त्यर्थम् आत्मसाक्षात्कारार्थं च अद्यापि हिमालयं गच्छन्ति । हिमाच्छादितानि शुभ्रधवलानि शिखराणि, साक्षात् नभःस्पर्शिनः गिरयः, गभीराणि खातानि , वेगेन प्रवहन्त्यः नद्यः, गहनानि अरण्यानि, विविधाः फलपुष्पपूर्णाः वृक्षाः च हिमालयस्य वैभवं वर्धयन्ति । एतादृशेन वैभवेन मनः प्रमुदितं भवति । धर्मक्षेत्रे,संस्कृतिक्षेत्रे, साहित्यक्षेत्रे, कलाक्षेत्रे, सङ्गीतक्षेत्रे, शिल्पादिषु क्षेत्रेषु अस्माकं जीवनस्य सर्वेषु क्षेत्रेषु अपि हिमालयस्य प्रभावः महान् एव । अयम् अस्माकं दृष्ट्या केवलं शिलामृद्युक्तः गिरिः न । सः हिमालयः, सः देवालयः, परशिवस्य आलयः सः इत्येव अस्माकं विश्वासः ।
 
=='''हिमालये विद्यमानानि तीर्थक्षेत्राणि'''==
'''हिमालये विद्यमानानि तीर्थक्षेत्राणि''' :- कैलासक्षेत्रं मानसक्षेत्रं च हिमालये विद्यमाने सर्वश्रेष्ठे तीर्थक्षेत्रे । तत्र प्रवासः अत्यन्तं कष्टकरः । अमरनाथः १३,००० पादं यावत् उन्नते स्थाने अस्ति । तत्र गमनमार्गः अपि अत्यन्तं दुर्गमः । तथापि सहस्रशः जनाः कैलास-मानसयात्रां कुर्वन्ति । पञ्जाबे स्थितं ज्वालामुखीक्षेत्रम् अपि अन्यदेकं पवित्रं क्षेत्रम् अस्ति । दक्षयज्ञक्षेत्रं हरिद्वारम् अपि हिमालयस्य उपत्यकायाम् एव अस्ति । हरिद्वारतः हृषीकेशमार्गेण देवप्रयागं, ततः यमुनोत्रीं, गङ्गोत्रीं, केदारं, बदरीं च गच्छन्ति यात्रिकाः । एतत् सर्वम् अपि क्षेत्रं १०,०००-१५,०००पादं यावत् उन्नते स्थाने अस्ति, हिमावृतं च भवति । नेपाले पशुपतिनाथः, मुक्तिनाथः, दामोदरकुण्डं, गण्डकी, मत्स्येन्द्रनाथः, स्वयम्भूनाथः, बोधनाथः इत्यादीनि पवित्राणि क्षेत्राणि सन्ति । गण्डकीनद्यां सालिग्रामशिला उपलभ्यते । एवं प्रतिपदं पवित्रस्थानानि सन्ति हिमालये ।
 
वातावरणदृष्ट्या हिमालयस्य उपकारः महान् एव । कतिपय वर्षेभ्यः पूर्वं रष्यादेशे सञ्जातात् अणुविद्युत्स्थावरस्य अग्निदुरन्तात् उद्भूय प्रस्थितानि अणुविकिरणानि अवरुध्य अस्मान् अरक्षत् हिमालयः एव । यदि तत्र हिमालयः न स्यात् तर्हि भारतस्य वायुः विषमयः अभविष्यत् । दक्षिणतः आगच्छन्तीं वृष्टिम् अवरुध्य भारते विपुलवृष्टिं कारयति हिमालयः एव । हिमालयात् प्रवहन्तीनां नदीनां कारणतः भारतं सुजलं सुफलं सञ्जातम् । अस्माकं जीवनं हिमालयम् अवलम्ब्य स्थितम् इति उक्ते न सा अतिशयोक्तिः ।
 
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्