"जैमिनिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
मीमांसाशास्त्रस्य मूलाधारः मीमांसासूत्राणि | तानि जैमिनिमहर्षिणा विरचितानि | वेदार्थविचारं पुरस्कृत्य प्रवृत्तं शास्त्रं मीमांसाशस्त्रम् | एतत् पूर्वमीमांसाशास्त्रम् इत्यपि उच्यते | ( उत्तरमीमांसा नाम वेदान्तशास्त्रम् | एतत् पूर्वमीमांसाशास्त्रम् इत्यपि उच्यते |(उत्तरमीमांसा नाम वेदान्तशास्त्रम् ) जैमिनेः पूर्वम् अपि अनेके सूत्रकाराः आसन् इति जैमिनिग्रन्थात् एव ज्ञायते |
जैमिनेः कालविषये इदमित्थम् इति कथनं कष्टसाध्यम् एव | जैमिनिः बादरायणस्य अभिप्रायं स्वसूत्रेषु उल्लिखति | बादरायणः अपि तथैव | अतः तौ उभौ अपि समकालीनौ इति कैश्चित् ऊहा क्रियते | कि.श. ८०० जैमिनेः कालः स्यात् इति ऊहा कृता अस्ति | जैमिनेः जीवनविषये अधिकं किमपि न ज्ञायते | भागवतं वदति - 'व्यासः वेदं चतुर्धा विभज्य सामवेदं जैमिनिम् उपदिष्टवान्' इति |
द्वादशसु अध्यायेषु मीमांसासूत्राणि विभक्तानि सन्ति | वेदार्थस्य स्पष्टज्ञानार्थं यद्यत् आवश्यकं तत्सर्वं निरूपितम् अस्ति अत्र | मीमांसासूत्राणाम् आधारेण भाष्याणि, वार्तिकानि, व्याख्यानानि च बहुधा प्रवृत्तानि | मीमांसाभाष्येषु शबरस्वामिभाष्यं सुप्रसिद्धम् |
 
[[वर्गः:मीमांसादर्शनम्|जैमिनिमीमांसादर्शनम्।जैमिनि]]
 
[[bn:জৈমিনি]]
"https://sa.wikipedia.org/wiki/जैमिनिः" इत्यस्माद् प्रतिप्राप्तम्