"फलकम्:Fonthelp" इत्यस्य संस्करणे भेदः

.. अभिज्ञानशाकुन्तलम् .. प्रथमोऽङ्कः | या सृष्ट... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०७:०९, ४ फेब्रवरी २०१२ इत्यस्य संस्करणं

.. अभिज्ञानशाकुन्तलम् .. प्रथमोऽङ्कः |

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री। ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम्।। यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः||१|| ( नान्द्यन्ते ) सूत्रधारः - - ( नेपथ्याभिमुखमवलोक्य ) आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् | ( प्रविश्य ) नटी - आर्यपुत्र इयमस्मि | सूत्रधारः - - आर्य अभिरूपभूयिष्ठा परिषदियम् | अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन नाटकेनोपस्थातव्यमस्माभिः | तत्प्रतिपात्रमाधीयतां यत्नः | नटी - - सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते | सूत्रधारः - - आर्ये कथयामि ते भूतार्थम् | आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् | बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः||२|| नटी - - आर्य एवमेतत् | अनन्तरकरणीयमार्य आज्ञापयतु | सूत्रधारः - - किमन्यदस्याः परिषदः श्रुतिप्रसादनतः | तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् | सम्प्रति हि - सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः | प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः||३|| नटी - - तथा | ( इति गायति ) ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि | अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि||४|| सूत्रधारः - - आर्य साधु गीतम् | अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः | तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः | नटी - - नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति | सूत्रधारः - - आर्ये सम्यगनुबोधितोऽस्मि | अस्मिन्क्षणे विस्मृतं खलु मया तत् | कुतः | तवास्मि गीतरागेण हारिणा प्रसभं हृतः | एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा||५|| ( इति निष्क्रान्तौ ) ( प्रस्तावना ) ( ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च ) सूतः - - ( राजानं मृगं चावलोक्य ) आयुष्मन् | कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके | मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम्||६|| राजाः - - सूत दूरममुना सारङ्गेण वयमाकृष्टाः | अयं पुनरिदानीमपि ग्रीवाभङ्गभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् | दर्भैण्रर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्याम् प्रयाति||७|| ( सविस्मयम् ) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः | सूतः - - आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः | तेन मृग एष विप्रकृष्टान्तरः संवृत्तः | संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति | राजाः - - तेन हि मुच्यन्तामभीषवः | सूतः - - यदाज्ञापयत्यायुष्मान् | ( रथवेगं निरूप्य ) आयुष्मन्पश्य पश्य | मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः | आत्मौद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः||८|| राजाः - - सत्यम् | अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः | तथा हि | यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदर्धे विछिन्नं भवति कृतसंधानमिव तत् | प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथज्जवात्||९|| सूत पश्यैनं व्यापद्यमानम् | ( इति शरसंधानं नाटयति ) ( नेपथ्ये ) भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः | सूतः - - ( आकर्ण्यावलोक्य च ) आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः | राजाः - - ( ससंभ्रमम् ) तेन हि प्रगृह्यन्तां वाजिनः | सूतः - - तथा | ( इति रथं स्थापयति ) ( ततः प्रविशत्यात्मनातृतीयो वैखानसः ) वैखानसः - - ( हस्तमुद्यम्य ) राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः | न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि मृगशरीरे पुष्पराशाविवाग्निः | क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते||१०|| तत्साधुकृतसंधानं प्रतिसंहर सायकम् | आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि||११|| राजाः - - एष प्रतिसम्हृतः | ( इति यथोक्तं करोति ) वैखानसः - - सदृशमेतत् पुरुवंशप्रदीपस्य भवतः | जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव | पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि||१२|| इतरौ - - ( बाहू उद्यम्य ) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि | राजाः - - ( सप्रणामम् ) प्रतिगृहीतं ब्राह्मणवचनम् | वैखानसः - - राजन् समिदाहरणाय प्रस्थिता वयम् | एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते | न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः | अपि च | रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य | ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति||१३|| राजाः - - अपि संनिहितोऽत्र कुलपतिः | वैखानसः - - इदानीमेव दुहितरं शकुंतलामतिथिसत्काराय नियुज्य दैवं अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः | राजाः - - भवतु | तामेव पश्यामि | सा खलु विदितभक्तिं मां महर्षेः करिष्यति | वैखानसः - - साधयामस्तावत् | ( इति सशिष्यो निष्क्रान्तः ) राजाः - - सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे | सूतः - - यदाज्ञापयत्यायुष्मन् | ( इति भूयो रथवेगं निरूपयति ) राजाः - - ( समन्तादवलोक्य ) सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति | सूतः - - कथमिव | राजाः - - किं न पश्यति भवान् | इह हि नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः | विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः||१४|| <कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला <भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन | <एते चार्वागुपवनभुवि च्छिन्नदर्भान्कुरायां <नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति | सूतः - - सर्वमुपपन्नम् | राजाः - - ( स्तोकमन्तरं गत्वा ) तपोवननिवासिनामुपरोधो मा भूत् | एतावत्येव रथं स्थापय यावदवतरामि | सूतः - - धृताः प्रग्रहाः | अवतरत्वायुष्मान् | राजाः - - ( अवतीर्य ) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम | इदं तावद्गृह्यताम् | ( इति सूतस्याभरणानि धनुश्चोपनीयार्पयति ) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः | सूतः - - तथा | ( इति निष्क्रान्तः ) राजाः - - ( परिक्रम्यावलोक्य च ) इदमाश्रमद्वारम् | यावत्प्रविशामि | ( प्रविश्य | निमित्तं सूचयन् ) शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य | अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र||१५|| ( नेपथ्ये ) इत इतः सख्यौ | राजाः - - ( कर्णं दत्त्वा ) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते | यावदत्र गच्छामि |

( परिक्रम्यावलोक्य च ) अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुइत एवाभिवर्तन्ते | ( निपुणं निरूप्य ) अहो मधुरमासां दर्शनम् | शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य | दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः||१६|| यावदिमां छायामाश्रित्य प्रतिपालयामि | ( इति विलोकयन् स्थितः ) ( ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुंतल ) शकुंतला - - इत इतः सख्यौ | अनसूया - - हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि | येन नवमालिकाकुसुमपेलवापि त्वमेतेषामालवालपूरणे नियुक्ता | शकुंतला - - न केवलं तातनियोग एव | अस्ति मे सोदरस्नेहोऽप्येतेषु | ( इति वृक्षसेचनं रूपयति ) राजाः - - कथमियं सा कण्वदुहिता | असाधुदर्शी खलु तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते | इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति | ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति|| १७|| भवतु | पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि | ( इति तथा करोति ) शकुंतला - - सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रिताऽस्मि | शिथिलय तावदेतत् | अनसूया - - तथा | ( इति शिथिलयति ) प्रियंवदा - - ( सहासम् ) अत्र पयोधरविस्तारयितृ आत्मनो यौवनं उपालभस्व | मां किं उपालभसे | राजाः - - काममननुरूपमस्य वपुषो वल्कलं न पुनरलंकारश्रियं न पुष्यति | कुतः | सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति | इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम्||१८|| शकुंतला - - ( अग्रतोऽवलोक्य ) एष वातीरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः | यावदेनं सम्भावयामि | ( इति परिक्रामति ) प्रियंवदा - - हला शकुन्तले अत्रैव तावन्मुहूर्तं तिष्ठ यावत्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति | शकुंतला - - अतः खलु प्रियंवदासि त्वम् | राजाः - - प्रियमपि तथ्यमाह शकुंतलां प्रियंवदा | अस्याः खलु अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू | कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम्||१९|| अनसूया - - हला शकुन्तले इयं स्वयम्वरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका | एनां विस्मृताऽसि | शकुंतला - - तदात्मानमपि विस्मरिष्यामि | ( लतामुपेत्यावलोक्य च ) हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः | नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः | ( इति पश्यन्ती तिष्ठति ) प्रियंवदा - - अनसूये जानासि किं शकुंतला वनज्योत्स्नामतिमात्रं पश्यतीति | अनसूया - - न खलु विभावयामि | कथय | प्रियंवदा - - यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवमहमप्यात्मनोनुरूपं वरं लभेयेति | शकुंतला - - एष नूनं तवात्मगतो मनोरथः | ( इति कलशमावर्जयति ) राजाः - - अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् | अथवा कृतं संदेहेन | असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः | सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः||२०|| तथापि तत्त्वत एनामुपलस्ये | शकुंतला - - ( ससंभ्रमम् ) अम्भो | सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोभिवर्तते | ( इति भ्रमरबाधां रूपयति ) राजाः - - ( सस्पृहम् ) चलपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः | करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम् वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती||२१|| शकुंतला - - न एष धृष्टो विरमति | अन्यतो गमिष्यामि | कथमितोऽप्यागच्छति | हला परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् | उभे - - ( सस्मितम् ) के आवां परित्रातुम् | दुष्यंतमाक्रन्द | राजरक्षितव्यानि तपोवनानि नाम | राजाः - - अवसरोऽयमात्मानं प्रकाशयितुम् | न भेतव्यं न भेतव्यम् -| ( इत्यर्धोक्ते स्वगतम् ) राजभावस्त्वभिज्ञातो भवेत् | भवतु एवं तावदभिधास्ये | शकुंतला - - ( पदान्तरे स्थित्वा | सदृष्टिक्षेपम् ) कथमितोऽपि मामनुसरति | राजाः - - ( सत्वरमुपसृत्य ) आः कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु||२२|| ( सर्वा राजानं दृष्टा किंचिदिव सम्भ्रान्ताः ) अनसूया - - आर्य न खलु किमप्यत्याहितम् | इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता | ( इति शकुंतलां दर्शयति ) राजाः - - ( शकुंतलाभिमुखो भूत्वा ) अपि तपो वर्धते | ( शकुंतला साध्वसादवचना तिष्ठति ) अनसूया - - इदानीमतिथिविशेषलाभेन | हला शकुन्तले गच्छोटजम् | फलमिश्रमर्घमुपहर | इदं पादोदकं भविष्यति| राजाः - - भवतीनां सूनृतयैव गिराकृतमातिथ्यम् | प्रियंवदा - - तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः | राजाः - - नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः | अनसूया - - हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् | अत्रोपविशामः | ( इति सर्वा उपविशन्ति ) शकुंतला - - ( आत्मगतम् ) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता | राजाः - - ( सर्वा विलोक्य ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् | प्रियंवदा - - ( जनान्तिकम् ) अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन्प्रभाववानिव लक्ष्यते | अनसूया - - सखि ममाप्यस्ति कौतूहलम् | पृच्छामि तावदेनम् | ( प्रकाशम् ) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः | शकुंतला - - ( आत्मगतम् ) हृदय मोत्ताम्य | एषा त्वया चिन्तितान्यनसूया मन्त्रयते | राजाः - - ( आत्मगतम् ) कथमिदानीं आत्मानं निवेदयामि कथं वात्मापहारं करोमि | भवतु | एवं तावदेनां वक्ष्ये | ( प्रकाशम् ) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोहमविघ्नक्रियौपलम्भाय धर्मारण्यमिदं आयातः | ( शकुंतला शृङ्गारलज्जां रूपयति ) अनसूया - - ( उभयोराकारं विदित्वा | जनान्तिकम् ) हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् | शकुंतला - - ततः किं भवेत् | सख्यौ - - इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति | शकुंतला - - युवामपेतम् | किमपि हृदये कृत्वा मत्रयेथे | न युवयोर्वचनं श्रोष्यामि | राजाः - - वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः | सख्यौ - - आर्य अनुग्रह इवेयमभ्यर्थना | राजाः - - भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः | इयं च वः सखी तदात्मजेति कथमेतत् | अनसूया - - शृणोत्वार्यः | अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः | राजाः - - अस्ति | श्रूयते | अनसूया - - तमावयोः प्रियसख्याः प्रभवमवगच्छ | उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता | राजाः - - उज्झितशब्देन जनितं मे कौतूहलम् | आमूलाच्छ्ह्रोतुमिच्छामि | अनसूया - - शृणोत्व् आर्यः | गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी | राजाः - - अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् | अनसूया - - ततो वसंतोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य - ( इत्यर्धोक्ते लज्जया विरमति ) राजाः - - परस्ताज्ज्ञायत एव | सर्वथाप्सरःसंभवैषा | अनसूया - - अथ किम् | राजाः - - उपपद्यते | मानुषीषु कथं वा स्यादस्य रूपस्य संभवः | न प्रभातरलं ज्योतिरुदेति वसुधातलात्||२३|| ( शकुंतलाऽधोमुखी तिष्ठति ) राजाः - - ( आत्मगतम् ) लब्धावकाशो मे मनोरथः | किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः | प्रियंवदा - - ( सस्मितं शकुंतलां विलोक्य नायकाभिमुखी भूत्वा ) पुनरपि वक्तुकाम इवार्यः | ( शकुंतला सखीमङ्गुल्या तर्जयति ) राजाः - - सम्यगुपलक्षितं भवत्या | अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् | प्रियंवदा - - अलं विचार्य | अनियन्त्रणानुयोगस्तपस्विजनो नाम | राजाः - - इति सखीं ते ज्ञातुमिच्छामि | वैखानसं किमनया व्रतमाप्रदानाद् - व्यापाररोधि मदनस्य निषेवितव्यम् | अत्यन्तमात्मसदृशेक्षणवल्लभाभिराहो निवत्स्यति समं हरिणाङ्गनाभि||२४|| प्रियंवदा - - आर्य धर्मचरणेऽपि परवशोऽयं जनः | गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः | राजाः - - ( आत्मगतम् ) न दुरवापेयं खलु प्रार्थना | भव हृदय साभिलाषं संप्रति संदेहनिर्णयो जातः | आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम्||२५|| शकुंतला - - ( सरोषमिव ) अनसूये गमिष्याम्यहम् | अनसूया - - किंनिमित्तम् | शकुंतला - - इमामसम्बद्धप्रलापिनीं प्रियंवदां आर्यायै गौतम्यै निवेदयिष्यामि | अनसूया - - सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वछन्दतो गमनम् | ( शकुंतला न किंचिदुक्त्वा प्रस्थितैव ) राजाः - - ( ग्रहीतुमिच्छन्निगृह्यात्मानम् | आत्मगतम् ) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः | अहं हि अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः | स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः||२६|| प्रियंवदा - - ( शकुंतलां निरुध्य ) हला न ते युक्तं गन्तुम् | शकुंतला - - ( सभ्रूभङ्गम् ) किंनिमित्तम् | प्रियंवदा - - वृक्षसेचने द्वे धारयसि मे | एहि तावत् | आत्मानं मोचयित्वा ततो गमिष्यसि | ( इति बलादेनां निवर्तयति ) राजाः - - भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये | तथा ह्यस्याः स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः | बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः||२७|| तदहमेनांनृणां करोमि | ( इत्यङ्गुलीयं दातुमिच्छति ) ( उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः ) राजाः - - अलमस्मानन्यथा संभाव्य | राज्ञः परिग्रहोयमिति राजपुरुष मामवगच्छत | प्रियंवदा - - तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् | आर्यस्य वचनेनानृणेदानीमेषा | ( किञ्चिद्विहस्य ) हला शकुन्तले मोचितास्यनुकम्पिनार्येण | अथवा महाराजेन | गच्छेदानीम् | शकुंतला - - ( आत्मगतम् ) यद्यात्मनः प्रभविष्यामि | ( प्रकाशम् ) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा | राजाः - - ( शकुंतलां विलोक्य | आत्मगतम् ) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् | अथवा लब्धावकाशा मे प्रार्थना | कुतः | वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यभिमुखं मयि भाषमाणे | कामं न तिष्ठति मदाननसंमुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः||२८|| ( नेपथ्ये ) भो भोस्तपस्विनः संनिहितास्तपोवनसत्त्वरक्षायै भवत | प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः | तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु | पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु||२९|| अपि च | तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसंजातपाशः | मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः||३०|| ( सर्वाः कर्णं दत्त्वा किंचिदिव सम्भ्रान्ताः ) राजाः - - ( आत्मगतम् ) अहो धिक् पौरा अस्मदन्वेषिणस्तपोवनुपरुन्धन्ति | भवतु | प्रतिगमिष्यामस्तावत् | सख्यौ - - आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः | अनुजानीहि न उटजगमनाय | राजाः - - ( ससंभ्रमम् ) गच्छन्तु भवत्यः | वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे | ( सर्वे उत्तिष्ठन्ति ) सख्यौ - - आर्य असंभावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् | राजाः - - मा मैवम् | दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि | शकुंतला - - अनसूये अभिनवकुशसूच्या परिक्षतं मे चरणं कुरबकशाखापरिलग्नं च वल्कलम् | तावत्परिपालयत मां यावदेतन्मोचयामि | ( शकुंतला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता ) राजाः - - मन्दौत्सुक्योऽस्मि नगरगमनं प्रति | यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् | न खलु शक्नोमि शकुंतलाव्यापारादात्मानं निवर्तयितुम् | मम हि गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः | चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य||३१|| ( इति निष्क्रान्ताः सर्वे )

( इति प्रथमोऽङ्कः | )

द्वितीयोऽङ्कः |

( ततः प्रविशति विषण्णो विदूषकः ) विदूषकः - - ( निःश्वस्य ) भो दिष्टम् | एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि | अयम् मृगोऽयं वहारोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपछायासु वनराजिष्वाहिण्डयते अटवीतोऽटवी | पत्रसङ्करकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते | अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते | तुरगानुधावनकण्डितसंधे रात्रावपि निकामं शयितव्यं नास्ति | ततो महत्येव प्रत्यूषे दास्याःपुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि | इयतेदानीमपि पीडा न निष्क्रामति | ततो गण्डस्योपरि पिण्डकः संवृत्तः | ह्यः किलास्मास्ववहीनेषु तत्र भवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुंतला ममाधन्यतया दर्शिता | साम्प्रतं नगरगमनाय मनः कथमपि न करोति | अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् | का गतिः | यावत्तं कृताचारपरिक्रमं पश्यामि | ( इति परिक्रम्यावलोक्य च ) एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत इत एवागछति प्रियवयस्यः | भवतु | अन्गभन्गविकल इव भूत्वा स्थास्यामि | यद्येवमपि नाम विश्रमं लभेय | ( इति दण्डकाष्ठमवलम्ब्य स्थितः ) ( ततः प्रविशति यथानिर्दिष्टपरिवारो राजा ) राजाः - - कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि | अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते||१|| ( स्मितं कृत्वा ) एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते | स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव | मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति||२|| विदूषकः - - ( तथास्थित एव ) भो वयस्य न मे हस्तपादं प्रसरति तद्वाङ्मात्रेण जापयिष्यामि | जयतु जयतु भवान् | राजाः - - कुतोऽयं गात्रोपघातः | विदुषकः - - कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि | राजाः - - न खल्वावगच्छामि | विदुषकः - - भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवेगस्य | राजाः - - नदीवेगस्तत्र कारणम् | विदुषकः - - ममापि भवान् | राजाः - - कथमिव | विदुषकः - - एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् | यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः | तत्प्रसीद मे | एकाहमपि तावद्विश्रम्यताम् | राजाः - - ( स्वगतम् ) अयं चैवमाह | ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः | कुतः | न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु | सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः||३|| विदुषकः - - ( राज्ञो मुखं विलोक्य ) अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते | अरण्ये मया रुदितमासीत् |

राजाः - - ( सस्मितम् ) किमन्यत् | अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि | विदुषकः - - चिरं जीव | ( इति गन्तुमिछति ) राजाः - - वयस्य तिष्ठ | सावशेषं मे वचः | विदुषकः - - आज्ञापयतु भवान् | राजाः - - विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन भवितव्यम् | विदुषकः - - किं मोदकखादिकायाम् | तेन ह्ययं सुगृहीतः क्षणः | राजाः - - यत्र वक्ष्यामि | कः कोऽत्र भोः | ( प्रविश्य ) दौवारिकः - - ( प्रणम्य ) आज्ञापयतु भर्त्ता | राजाः - - रैवतक सेनापतिस्तावदाहूयताम् | दौवारिकः - - तथा | ( इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिरेव तिष्ठति | उपसर्पत्वार्यः | सेनापति - - ( राजानमवलोक्य ) दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता | तथा हि देवः अनवरतधनुर्ज्यास्फालनक्रूरपूर्व रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् | अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति||४|| ( उपेत्य ) जयतु जयतु स्वामी | गृहीतश्वापदमरण्यम् | किमन्यत्रावस्थीयते |

राजाः - - मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन | सेनापति - - ( जनान्तिकम् ) सखे स्थिरप्रतिबन्धो भव | अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये | ( प्रकाशम् ) प्रलपत्वेष वैधेयः | ननु प्रभुरेव निदर्शनम् | मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः | उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः||५|| विदुषकः - - अपेहि रे उत्साहहेतुक | अत्रभवान्प्रकृतिमापन्नः | त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णर्क्षिस्य कस्यापि मुखे पतिष्यसि | राजाः - - भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः | अतस्ते वचो नाभिनन्दामि | अद्य तावत् | गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम् छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु | विश्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथितलज्याबन्धमस्मद्धनुः||६|| सेनापति - - यत्प्रभविष्णवे रोचते | राजाः - - तेन हि निवर्तय पूर्वगतान्वनग्राहिणः | यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः | पश्य | शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः | स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति||७|| सेनापति - - यदाज्ञापयति स्वामी | विदुषकः - - ध्वंसतां ते उत्साहवृत्तान्तः | ( निष्क्रान्तः सेनापतिः ) राजाः - - ( परिजनं विलोक्य ) अपनयन्तु भवत्यो मृगयावेशम् | रैवतक त्वमपि स्वं नियोगमशून्यं कुरु | परिजन - - यद्देव आज्ञापयति | ( इति निष्क्रान्तः ) विदुषकः - - कृतं भवता निर्मक्षिकम् | साम्प्रतमेतस्मिन्पादपछायाविरचितवितानसनाथे शिलातले निषीदतु भवान्यावदहमपि सुखासीनो भवामि | राजाः - - गच्छाग्रतः | विदुषकः - - एतु भवान् | ( इत्युभौ परिक्रम्यौपविष्टौ ) राजाः - - माधव्य अनवाप्तचक्षुःफलोऽसि | येन त्वया दर्शनीयं न दृष्टम् | विदुषकः - - ननु भवानग्रतो मे वर्तते | राजाः - - सर्वः कान्तमात्मीयं पश्यति | अहं तु तां एवाश्रमललामभूतां शकुंतलामधिकृत्य ब्रवीमि | विदुषकः - - ( स्वगतम् ) भवतु | अस्यावसरं न दास्ये | ( प्रकाशम् ) भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते | राजाः - - सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते | सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् | अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम्||८|| विदुषकः - - ( विहस्य ) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिण्ड्यां ( तिन्तिण्यां ) अभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना | राजाः - - न तावदेनां पश्यासि येनैवमवादीः | विदुषकः - - तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति | राजाः - - वयस्य किं बहुना | चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु | स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः||९|| विदुषकः - - यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् | राजाः - - इदं च मे मनसि वर्तते | अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास्वादितरसम् | अखण्डं पुष्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः||१०|| विदुषकः - - तेन हि लघु परित्रायतामेनां भवान् | मा कस्यापि तपस्विन इन्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति | राजा - - परवती खलु तत्रभवती | न च संनिहितोऽत्र गुरुजनः | विदुषकः - - अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः | राजाः - - निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः | तथापि तु अभिमुखे मयि सम्हृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् | विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः||११|| विदुषकः - - न खलु दृष्टमात्रस्य तवाङ्कं समारोहति | राजाः - - मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या | तथा हि | दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा | आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम्||१२|| विदुषकः - - तेन हि गृहीतपाथेयो भव | कृतं त्वयोपवनं तपोवनमिति पश्यामि | राजाः - - सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि | चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः | विदुषकः - - कोऽपरोऽपदेशो युष्माकं राज्ञाम् | नीवारषष्ठभागमस्माकमुपहरन्त्विति | राजाः - - मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि विहायाभिनन्द्यते | पश्य | यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् | तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः||१३|| ( नेपथ्ये ) हन्त सिद्धार्थौ स्वः | राजाः - - ( कर्णं दत्त्वा ) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् | ( प्रविश्य ) दौवारिकः - - जयतु जयतु भर्ता | एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ | राजाः - - तेन ह्यविलम्बितं प्रवेशय तौ | दौवारिकः - - एष प्रवेशयामि | ( इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य ) ( उभौ राजानं विलोकयतः ) प्रथमः - - अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः | अथवा उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि | कुतः | अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति | अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यःशब्दो मुनिरिति मुहुः केवलं राजपूर्वः||१४|| द्वितीयः - - गौतम अयं स बलभित्सखो दुष्यन्तः | प्रथमः - - अथ किम् | द्वितीयः - - तेन हि नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति | आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे||१५|| उभौ - - ( उपगम्य ) विजयस्व राजन् | राजाः - - ( आसनादुत्थाय ) अभिवादये भवन्तौ | उभौ - - स्वस्ति भवते | ( इति फलान्युपहरतः ) राजाः - - ( सप्रणामं परिगृह्यः ) आज्ञापयितुमिच्छामि | उभौ - - विदितो भवानाश्रमसदामिहस्थः | तेन भवन्तं प्रार्थयन्ते | राजाः - - किमाज्ञापयन्ति | उभौ - - तत्रभवतः कण्वस्य महर्षेरसांनिध्याद्रक्षांसि न इष्टिविघ्नमुत्पादयन्ति | तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति | राजाः - - अनुगृहीतोऽस्मि | विदुषकः - - ( अपवार्य ) एषेदानीमनुकूला तेऽभ्यर्थना | राजाः - - ( स्मितं कृत्वा ) रैवतक मद्वचनादुच्यतां सारथिः | सबाणासनं रथमुपस्थापयेति | दौवारिकः - - यद्देव आज्ञापयति | ( इति निष्क्रान्तः ) उभौ - - ( सहर्षम् ) अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि | आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः||१६|| राजाः - - ( सप्रणामम् ) गच्छतां पुरो भवन्तौ | अहमप्यनुपदमागत एव | उभौ - - विजयस्व ( इति निष्क्रान्तौ ) राजाः - - माधव्य अप्यस्ति शकुंतलादर्शने कुतूहलम् | विदुषकः - - प्रथमं सपरिवाहमासीत् | इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः | राजाः - - मा भैषीः | ननु मत्समीपे वर्तिष्यसे | विदुषकः - - एष राक्षसाद्रक्षितोऽस्मि | ( प्रविश्य ) दौवारिकः - - सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते | एष पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः | राजाः - - ( सादरम् ) किमम्बाभिः प्रेषितः | दौवारिकः - - अथ किम् | राजाः - - ननु प्रवेश्यताम् | दौवारिकः - - तथा | ( इति निष्क्रम्य करभकेण सह प्रविश्य ) एष भर्ता | उपसर्प | करभकः - - जयतु जयतु भर्ता | देव्याज्ञापयति | आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति | तत्र दीर्घायुषावश्यं संभावनीयेति | राजाः - - इतस्तपस्विकार्यम् | इतो गुरुजनाज्ञा | द्वयमप्यनतिक्रमणीयम् | किमत्र प्रतिविधेयम् | विदुषकः - - त्रिशङ्कुरिवान्तरा तिष्ठ | राजाः - - सत्यमाकुलीभूतोऽस्मि | कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः | पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा||१७|| ( विचिन्त्य ) सखे त्वमम्बया पुत्र इति प्रतिगृहीतः | अतो भवानितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति | विदुषकः - - न खलु मां रक्षोभीरुकं गणयसि | राजाः - - ( सस्मितम् ) कथमेतद्भवति संभाव्यते | विदुषकः - - यथा राजानुजेन गन्तव्यं तथा गच्छामि | राजाः - - ननु तपोवनोपरोधः परिहरणीय इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि | विदुषकः - - ( सगर्वम् ) तेन हि युवराजोऽस्मीदानीं संवृत्तः | राजाः - - ( स्वगतम् ) चपलोऽयं बटुः | कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् | भवतु | एनमेवं वक्ष्ये | ( विदूषकं हस्ते गृहीत्वा | प्रकाशम् ) वयस्य ऋषिगौरवादाश्रमं गच्छामि | न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः | पश्य | क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः | परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः||१८|| विदुषकः - - अथ किम् | ( इति निष्क्रान्ताः सर्वे ) ( इति द्वितीयोऽङ्कः | )

तृतीयोऽङ्कः |

( ततः प्रविशति कुशानादाय यजमानशिष्यः ) शिष्यः - - अहो महानुभावः पार्थिवो दुष्यन्तः | यत्प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि | का कथा बाणसंधाने ज्याशब्देनैव दूरतः | हुंकारेणेव धनुषः स हि विघ्नानपोहति||१|| यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि | ( परिक्रम्यावलोक्य च | आकाशे ) प्रियंवदे कस्यिदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते | ( श्रुतिमभिनीय ) किं ब्रवीषि | आतपलङ्घनाद्बलवदस्वस्था शकुंतला तस्याः शरीरनिर्वापणायेति | तर्हि यत्नादुपचर्यताम् | सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् | अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गैतमीहस्ते विसर्जयिष्यामि | ( इति निष्क्रान्तः ) विष्कम्भकः | ( ततः प्रविशति कामयमानावस्थो राजा ) राजाः - - ( सचिन्तं निःश्वस्य ) जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् | अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम्||२|| ( मदनबाधां निरूप्य ) भगवन्कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः | कुतः | तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं दृश्यते मद्विधेषु | विसृजति हिमगर्भैंरग्निमिन्दुर्मयूखैस्त्वमपि कुसुमबाणान्वज्रसारीकरोषि||३|| अथवा | ( अद्यापि नूनं हरकोपवह्निनस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ | ( त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः ( कथमित्थमुष्णः|| अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे | यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति||४|| ( सखेदं परिक्रम्य ) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं विनोदयामि | ( निःश्वस्य ) किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् | यावदेनामन्विष्यामि | ( सूर्यमवलोक्य ) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुंतला गमयति | तत्रैव तावद्गच्छामि | ( परिक्रम्य संस्पर्शं रूपयित्वा ) अहो प्रवातसुभगोऽयमुद्देशः | शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् | अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः||५|| ( परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुंतलया भवितव्यम् | तथा हि | अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् | द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा||६|| यावद्विटपान्तरेणावलोकयामि | ( परिक्रम्य तथा कृत्वा | सहर्षम् ) अये लब्धं नेत्रनिर्वाणम् | एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयानासखीभ्यामन्वास्यते | भवतु | श्रोष्याम्यासां विश्रम्भकथितानि | ( इति विलोकयन्स्थितः ) ( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुंतला ) सख्यौ - - ( उपवीज्य | सस्नेहम् ) हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः | शकुंतला - - किं वीजयतो मां सख्यौ | ( सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः ) राजाः - - बलवदस्वस्थशरीरा शकुंतला दृश्यते | ( सवितर्कम् ) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते | ( साभिलाषं निर्वर्ण्य ) अथ वा कृतं संदेहेन | स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् | समस्तापः कामं मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु||७|| प्रियंवदा - - ( जनान्तिकम् ) अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्यपर्युत्सुकेव शकुंतला | किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् | अनसूया - - सखि ममापीदृश्याशङ्का हृदयस्य | भवतु | प्रक्ष्यामि तावदेनाम् | ( प्रकाशम् ) सखि प्रष्टव्यासि किमपि | बलवान्खलु ते संतापः | शकुंतला - - ( पूर्वार्धेन शयनादुत्थाय ) हला किं वक्तुकामासि | अनसूया - - हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य | किं तु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि | कथय किंनिमित्तं ते संतापः | विकारं खलु परमार्थतोऽज्ञात्वाऽनारंभः प्रतीकारस्य | राजाः - - अनसूयामप्यनुगतो मदीयस्तर्कः | न हि स्वाभिप्रायेण मे दर्शनम् | शकुंतला - - ( आत्मगतम् ) बलवान्खलु मेऽभिनिवेशः | इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् | प्रियंवदा - - सखि शकुन्तले सुष्ठु एषा भणति | किमात्मन आतङ्कमुपेक्षसे | अनुदिवसं खलु परिहीयसेऽङ्गैः | केवलं लावण्यमयी छाया त्वां न मुञ्चति | राजाः - - अवितथमाह प्रियंवदा | तथा हि क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यःक्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा | शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी||८|| शकुंतला - - सखि कस्य वान्यस्य कथयिष्यामि | किंत्वायासयित्रीदानीं वां भविष्यामि | उभे - - अत एव खलु निर्बन्धः | स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति | राजाः - - पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् | दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे श्रवणकातरतां गतोऽस्मि||९|| शकुंतला - - सखि यतःप्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः | ( इत्यर्धोक्ते लज्जां नाटयति ) उभे - - कथयतु प्रियसखी | शकुंतला - - तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता | राजाः - - ( सहर्षम् ) श्रुतं श्रोतव्यम् | स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः | दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य||१०|| शकुंतला - - तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि | अन्यथावश्यं सिञ्चत मे तिलोदकम् | राजाः - - संशयच्छेदि वचनम् | प्रियंवदा - - ( जनान्तिकम् ) अनसूये दूरगतमन्मथाऽक्षमेयं कालहरणस्य | यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् | तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् | अनसूया - - तथा यथा भणसि | प्रियंवदा - - ( प्रकाशम् ) सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः | सागरमुज्झित्वा कुत्र वा महानद्यवतरति | क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते | राजाः - - किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते | अनसूया - - कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः | प्रियंवदा - - निभृतमिति चिन्तनीयं भवेत् | शीघ्रमिति सुकरम् |

अनसूया - - कथमिव | प्रियंवदा - - ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते | राजाः - - सत्यमित्थंभूत एवास्मि | तथा हि इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः | अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते||११|| प्रियंवदा - - ( विचिन्त्य ) हला मदनलेखोऽस्य क्रियताम् तं सुमनोगोपितं कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि | अनसूया - - रोचते मे सुकुमारः प्रयोगः किं वा शकुंतला भणति | शकुंतला - - किं नियोगो वां विकल्प्यते | प्रियंवदा - - तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि ललितपदबन्धनम् | शकुंतला - - हला चिन्तयाम्यहम् | अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् | राजाः - - ( सहर्षम् ) अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् | लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत्||१२|| सख्यौ - - अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति | शकुंतला - - ( सस्मितम् ) नियोजितेदानीमस्मि | ( इत्युपविष्टा चिन्तयति ) राजाः - - स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि | यतः उन्नमितै कभ्रूलतमाननमस्याः पदानि रचयन्त्याः | कण्टकितेन प्रथयति मय्यनुरागं कपोलेन||१३|| शकुंतला - - हला चिन्तितं मया गीतवस्तु | असंनिहितानि पुनर्लेखनसाधनानि | प्रियंवदा - - एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु | शकुंतला - - ( यथोक्तं रूपयित्वा ) हला शृणुतमिदानीं सङ्गतार्थं न वेति | उभे - - अवहिते स्वः | शकुंतला - - ( वाचयति ) तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि | निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि||१४|| राजाः - - ( सहसोपसृत्य ) तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव | ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः||१५|| सख्यौ - - ( विलोक्य सहर्षमुत्थाय ) स्वागतमविलम्बिनो मनोरथस्य | ( शकुंतलाऽभ्युत्थातुमिच्छति ) राजाः - - अलमलमायासेन | संदष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि | गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति||१६|| अनसूया - - इतः शिलातलैकदेशमलंकरोतु वयस्यः | ( राजोपविशति | शकुंतला सलज्जा तिष्ठति ) प्रियंवदा - - द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः | सखीस्नेहः पुनर्मां पुनरुक्तवादिनीं करोति | राजाः - - भद्रे नैतत्परिहार्यम् | विवक्षितं ह्यनुक्तमनुतापं जनयति | प्रियंवदा - - आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष वो धर्मः | राजाः - - नास्मात्परम् | प्रियंवदा - - तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता | तदर्हस्यभ्युपपत्त्या जीवितमस्या अवलम्बितुम् | राजाः - - भद्रे साधारणोऽयं प्रणयः | सर्वथानुगृहीतोऽस्मि | शकुंतला - - ( प्रियंवदामवलोक्यं ) हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन | राजाः - - सुन्दरि इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम | यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः||१७|| अनसूया - - वयस्य बहुवल्लभा राजानः श्रूयन्ते | यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय | राजाः - - भद्रे किं बहुना परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे | समुद्ररसना चोर्वी सखी च युवयोरियम्||१८|| उभे - - निर्वृते स्वः | प्रियंवदा - - ( सदृष्टिक्षेपम् ) अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति | एहि | संयोजयाव एनम् | ( इत्युभे प्रस्थिते ) शकुंतला - - हला अशरणास्मि | अन्यतरा युवयोरागच्छतु | उभे - - पृथिव्या यः शरणं स तव समीपे वर्तते | ( इति निष्क्रान्ते ) शकुंतला - - कथं गते एव | राजाः - - अलमावेगेन | नन्वयमाराधयिता जनस्तव समीपे वर्तते | किं शीतलैः क्लमविनोदिभिरार्द्रवातान्सञ्चारयामि नलिनीदलतालवृन्तैः | अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ||१९|| शकुंतला - - न माननीयेष्वात्मानमपराधयिष्ये | ( इत्युत्थाय गन्तुमिच्छति ) राजाः - - सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था | उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् | कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः||२०|| ( इति बलादेनां निवर्तयति ) शकुंतला - - पौरव रक्ष विनयम् | मदनसंतप्तापि न खल्वात्मनः प्रभवामि | राजाः - - भीरु अलं गुरूजन्भयेन | दृष्ट्वा ते विदितधर्मा तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः | पश्य | गान्धर्वेण विवाहेन बहव्यो राजर्षिकन्यकाः | श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः||२१|| शकुंतला - - मुञ्च तावन्माम् | भूयोऽपि सखीजनमनुमानयिष्ये | राजाः - - भवतु | मोक्ष्यामि | शकुंतला - - कदा | राजाः - - अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन | अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य||२२|| ( इति मुखमस्याः समुन्नमयितुमिच्छति | शकुंतला परिहरति नाट्येन ) ( नेपथ्ये ) चक्रवाकवधुके आमन्त्रयस्व सहचरम् | उपस्थिता रजनी | शकुंतला - - ( ससंभ्रमम् ) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति | तद्विटपान्तरितो भव | राजाः - - तथा | ( इत्यात्मानमावृत्य तिष्ठति ) ( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च ) सख्यौ - - इत इत आर्या गौतमी | गौतमी - - ( शकुंतलामुपेत्य ) जाते अपि लघुसंतापानि तेऽङ्गानि | शकुंतला - - आर्ये अस्ति मे विशेषः | गौतमी - - अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति | ( शिरसि शकुतलामभ्युक्ष्य ) वत्से परिणतो दिवसः | एहि उटजमेव गच्छामः | ( इति प्रस्थिताः ) शकुंतला - - ( आत्मगतम् ) हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि | सानुशयविघटितस्य कथं ते सांप्रतं संतापः | ( पदान्तरे स्थित्वा | प्रकाशम् ) लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय | ( इति दुःखेन निष्क्रान्ता शकुंतला सहेतराभिः ) राजा ( पूर्वस्थानमुपेत्य | सनिःश्वासम् ) अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः | मया हि मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् | मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु||२३|| क्व नु खलु संप्रति गच्छामि | अथ वा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि | ( सर्वतोऽवलोक्य ) तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः | हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि||२४|| ( आकाशे ) राजन् सायंतने सवनकर्मणि संप्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः | छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम्||२५|| राजाः - - अयमहमागच्छामि | ( इति निष्क्रान्तः )

( इति तृतीयोऽङ्कः | )

चतुर्थोऽङ्कः |

( ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ | ) अनसूया - - हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुंतलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्येतावच्चिन्तनीयम् | प्रियंवदा - - कथमिव | अनसूया - - अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति | प्रियंवदा - - विस्रब्धा भव | न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति | तात इदानीमिमं ऋत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति | अनसूया - - यथाहं पश्यामि तथा तस्यानुमतं भवेत् | प्रियंवदा - - कथमिव | अनसूया - - गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः संकल्पः | तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थो गुरुजनः | प्रियंवदा - - ( पुष्पभाजनं विलोक्य ) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि | अनसूया - - ननु सख्याः शकुंतलायाः सौभाग्यदेवतार्चनीया | प्रियंवदा - - युज्यते | ( इति तदेव कर्माभिनयतः ) ( नेपथ्ये ) अयमहं भोः | अनसूया - - ( कर्णं दत्त्वा ) सखि अतिथीनामिव निवेदितम् | प्रियंवदा - - ननूटजसंनिहिता शकुंतला | अनसुया - - अद्य पुनर्हृदयेनासंनिहिता | अलमेतावद्भिः कुसुमैः | ( इति प्रस्थिते ) ( नेपथ्ये ) आः अतिथिपरिभाविनि विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् | स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां प्रमत्तः प्रथमं कृतामिव ||१|| प्रियंवदा - - हा धिक् हा धिक् | अप्रियमेव संवृत्तम् | कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुंतला | ( पुरोऽवलोक्य ) न खलु यस्मिन्कस्मिन्नपि | एष दुर्वासाः सुलभकोपो महर्षिः | तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः | अनसूया - - कोऽन्यो हुतवहाद्दग्धुं प्रभवति | गच्छ | पादयोः प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि | प्रियंवदा - - तथा ( इति निष्क्रान्ता ) अनसूया - - ( पदान्तरे स्खलितं निरूप्य ) अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् | ( इति पुष्पोच्चयं रूपयति ) ( प्रविश्य ) प्रियंवदा - - सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति | किमपि पुनः सानुक्रोशः कृतः | अनसूया - - ( सस्मितम् ) तस्मिन्बहवेतदपि | कथय | प्रियंवदा - - यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया | भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य इति | अनसूया - - ततस्ततः | प्रियंवदा - - ततो न मे वचनमन्यथाभवितुमर्हति किं त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः | अनसूया - - शक्यमिदानीमाश्वसितुम् | अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् | तस्मिन्स्वाधीनोपाया शकुंतला भविष्यति | प्रियंवदा - - सखि एहि | देवकार्यं तावदस्या निर्वर्तयावः | ( इति परिक्रामतः ) प्रियंवदा - - ( विलोक्य ) अनसूये पश्य तावत् | वामहस्तोपहितवदनाऽऽलिखितेव प्रियसखी | भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति | किं पुनरागन्तुकम् | अनसूया - - प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु | रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी | प्रियंवदा - - को नामोष्णोदकेन नवमालिकां सिञ्चति | ( इति निष्क्रान्ते ) विष्कम्भकः | ( ततः प्रविशति सुप्तोत्थितः शिष्यः ) शिष्यः - - वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन | प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति | ( परिक्रम्यावलोक्य च ) हन्त प्रभातम् | तथा हि | यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर एकतोऽर्कः | तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु|| २|| अपि च | अन्तर्हिते शशिनि सैव कुमुद्वती मे वृष्टिं न नन्दयति संस्मरणीयशोभा | इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि||३|| ( प्रविश्यापटीक्षेपेण ) अनसूया - - यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन राज्ञा हकुंतलायामनार्यमाचरितम् | शिष्यः - - यावदुपस्थितां होमवेलां गुरवे निवेदयामि | ( इति निष्क्रान्तः ) अनसूया - - प्रतिबुद्धापि किं करिष्यामि | न म उचितेष्वपि निजकरणीयेषु हस्तपादं प्रसरति | काम इदानीं सकामो भवतु येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता | अथ वा दुर्वासःशाप एष विकारयति | अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति | तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः | दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् | ननु सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुंतलां निवेदयितुम् | इत्थंगतेऽस्माभिः किं करणीयम् | ( प्रविश्य ) प्रियंवदा - - ( सहर्षम् ) सखि त्वरस्व त्वरस्व शकुंतलायाः प्रस्थानकौतुकं निवर्तयितुम् | अनसूया - - सखि कथमेतत् | प्रियंवदा - - शृणु | इदानीं सुखशयितपृच्छिका शकुंतलासकाशं गतास्मि | अनसूया - - ततस्ततः | प्रियंवदा - - तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् | दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता | वत्से सुशिष्यपरिदत्ता विद्येवशोचनीयासि संवृत्ता | अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति | अनसूया - - अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः | प्रियंवदा - - अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या | अनसूया - - ( सविस्मयम् ) कथमिव | प्रियंवदा - - ( संस्कृतमाश्रित्य ) दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः | अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव||४|| अनसूया - - ( प्रियंवदामाश्लिष्य ) सखि प्रियं मे | किं त्वद्यैव शकुंतला नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि | प्रियंवदा - - सखि आवां तावदुत्कण्ठां विनोदयिष्यावः | सा तपस्विनी निर्वृता भवतु | अनसूया - - तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका | तदिमां हस्तसंनिहितां कुरु | यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि | प्रियंवदा - - तथा क्रियताम् | ( अनसूया निष्क्रान्ता | प्रियंवदा नाट्येन सुमनसो गृह्णाति ) ( नेपथ्ये ) गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुंतलानयनाय | प्रियंवदा - - ( कर्णं दत्त्वा ) अनसूये त्वरस्व त्वरस्व | एते खलु हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते | ( प्रविश्य समालम्भनहस्ता ) अनसूया - - सखि एहि | गच्छावः | ( इति परिक्रामतः ) प्रियंवदा - - ( विलोक्य ) एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुंतला तिष्ठति | उपसर्पाव एनाम् | ( इत्युपसर्पतः ) ( ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुंतला ) तापसीनामन्यतमा - - ( शकुंतलां प्रति ) जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व | द्वितीया - - वत्से वीरप्रसविनी भव | तृतीया - - वत्से भर्तुर्बहुमता भव | ( इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः ) सख्यौ - - ( उपसृत्य ) सखि सुखमज्जनं ते भवतु | शकुंतला - - स्वागतं मे सख्योः | इतो निषीदतम् | उभे ( मङ्गलपात्राण्यादाय | उपविश्य ) हला सज्जा भव | यावत्ते मङ्गलसमालम्भनं विरचयावः | शकुंतला - - इदमपि बहु मन्तव्यम् | दुर्लभमिदानीं मे सखीमण्डनं भविष्यति | ( इति बाष्पं विसृजति ) उभे - - सखि उचितं न ते मङ्गलकाले रोदितुम् | ( इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः) प्रियंवदा - - आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते | ( प्रविश्योपायनहस्तावृषिकुमारकौ ) उभौ - - इदमलंकरणम् | अलंक्रियतामत्रभवती | ( सर्वा विलोक्य विस्मिताः ) गौतमी - - वत्स नारद कुत एतत् | प्रथमः - - तातकाश्यपप्रभावात् | गौतमी - - किं मानसी सिद्धिः | द्वितीयः - - न खलु | श्रूयताम् | तत्रभवता वयमाज्ञप्ताः शकुंतलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति | तत इदानीं क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् | अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै- र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः||५|| प्रियंवदा - - ( शकुंतलां विलोक्य ) हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः | ( शकुंतला व्रीडां रूपयति ) प्रथम - - गौतम एह्येहि | अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः | द्वितीयः - - तथा | ( इति निष्क्रान्तौ ) सख्यौ - - अये अनुपयुक्तभूषणोऽयं जनः | चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः | शकुंतला - - जाने वां नैपुणम् | ( उभे नाट्येनालङ्कुरूतः ) ( ततः प्रविशति स्नानोत्तीर्णः काश्यपः ) | काश्यपः - - यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् | वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः||६|| ( इति परिक्रामति ) सख्यौ - - हला शकुन्तले अवसितमण्डनासि | परिधत्स्व साम्प्रतं क्षौमयुगलम् | ( शकुन्तलोत्थाय परिधत्ते ) गौतमी - - जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः | आचारं तावत्प्रतिपद्यस्व | शकुंतला - - ( सव्रीडम् ) तात वन्दे | काश्यपः - - वत्से | ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव | सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि||७|| गौतमी - - भगवान् वरः खल्वेषः | नाशीः | काश्यपः - - वत्से इतः सद्यो हुतानग्नीन्प्रदक्षिणीकुरुष्व | ( सर्वे परिक्रामन्ति ) काश्यपः - - ( ऋक्छन्दसाऽऽशास्ते ) अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः | अपघ्नतो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयंतु||८|| प्रतिष्ठस्वेदानीम् | ( सदृष्टिक्षेपम् ) क्व ते शार्ङ्गरवमिश्राः | ( प्रविश्य ) शिष्य - - भगवन् इमे स्मः | काश्यप - - भगिन्यास्ते मार्गमादेशय | शार्ङ्गरव - - इत इतो भवती | ( सर्वे परिक्रामन्ति ) काश्यप - - भो भोः संनिहितास्तपोवनतरवः | पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् | आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुंतला पतिगृहं सर्वैरनुज्ञायताम्||९|| ( कोकिलरवं सूचयित्वा ) अनुमतगमना शकुंतला तरुभिरियं वनवासबन्धुभिः | परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम्||१०|| ( आकाशे ) रम्यान्तरः कमलिनीहरितैः सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः | भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः||११|| ( सर्वे सविस्मयमाकर्णयन्ति ) गौतमी - - जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः | प्रणम भगवतीः | शकुंतला - - ( सप्रणामं परिक्रम्य | जनान्तिकम् ) हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते | प्रियंवदा - - न केवलं तपोवनविरहकातरा सख्येव | त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते | उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः | अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः||१२|| शकुंतला - - ( स्मृत्वा ) तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये | काश्यपः - - अवैमि ते तस्यां सोदर्यास्नेहम् | इयं तावद्दक्षिणेन | शकुंतला - - ( उपेत्य लतामालिङ्ग्य ) वनज्योत्स्ने चूतसंगतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः | अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि | काश्यपः - - संकल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् | चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च संप्रति वीतचिन्तः||१३|| इतः पन्थानं प्रतिपद्यस्व | शकुंतला - - ( सख्यौ प्रति ) हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः | सख्यौ - - अयं जनः कस्य हस्ते समर्पितः | ( इति बाष्पं विहरतः ) काश्यपः - - अनसूये अलं रुदित्वा | ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुंतला | ( सर्वे परिक्रमन्ति ) शकुंतला - - तात एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ | काश्यपः - - नेदं विस्मरिष्यामः | शकुंतला - - ( गतिभङ्गं रूपयित्वा ) को नु खल्वेष निवसने मे सज्जते | ( इति परावर्तते ) काश्यपः - - वत्से, यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसुचिविद्धे | श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते||१४|| शकुंतला - - वत्स किं सहवासपरित्यागिनीं मामनुसरसि | अचिरप्रसूतया जनन्या विना वर्धित एव | इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति | निवर्तस्व तावत् | ( इति रुदती प्रस्थिता ) काश्यपः - - उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विरतानुबन्धम् | अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति||१५|| शार्ङ्गरवः - - भवगान् | ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते | तदिदं सरस्तीरम् | अत्र संदिश्य प्रतिगन्तुमर्हति | काश्यपः - - तेन हीमां क्षीरवृक्षछायामाश्रयामः | ( सर्वे परिक्रम्य स्थिताः ) काश्यपः - - ( आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् | ( इति चिन्तयति ) शकुंतला - - ( जनान्तिकम् ) हला पश्य | नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यरटति दुष्करमहं करोमीति | अनसूया - - सखि मैवं मन्त्रयस्व | एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् | गुर्वपि विरहदुःखमाशाबन्धः साहयति||१६|| काश्यपः - - शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुंतलां पुरस्कृत्य वक्तव्यः | शार्ङ्गरवः - - आज्ञापयतु भगवान् | काश्यपः - - अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस्त्वय्यस्याः कथमप्य्बान्धवकृतां स्नेहप्रवृत्तिं च ताम् | सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः||१७|| शार्ङ्गरवः - - गृहीतः संदेशः | काश्यपः - - वत्से त्वमिदानीमनुशासनीयासि | वनौकसोऽपि सन्तो लौकिकज्ञा वयम् | शार्ङ्गरवः - - न खलु धीमतां कश्चिदविषयो नाम | काश्यपः - - सा त्वमितः पतिकुलं प्राप्य - - शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः | भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः||१८|| अनसुया - - कथं वा गौतमी मन्यते | गौतमी - - एतावान्वधूजनस्योपदेशः | जाते एतत्खलु सर्वमवधारय | काश्यपः - - वत्से परिष्वजस्व मां सखीजनं च | शकुंतला - - तात इत एव किं प्रियंवदानुसूये सख्यौ निवर्तिष्येते | काश्यप - - वत्से इमे अपि प्रदेये | न युक्तमनयोस्तत्र गन्तुम् | त्वया सह गौतमी यास्यति | शकुंतला - - ( पितरमाश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि | काश्यपः - - वत्से किमेवं कातरासि | अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला | तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि||१९|| ( शकुंतला पितुः पादयोः पतति ) काश्यपः - - यदिच्छामि ते तदस्तु | शकुंतला - - ( सख्यावुपेत्य ) हला द्वे अपि मां सममेव परिष्वजेथाम् | सख्यौ - - ( तथा कृत्वा ) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय | शकुंतला - - अनेन संदेहेन वामाकम्पितास्मि | सख्यौ - - मा भैषीः | अतिस्नेहः पापशङ्की | शार्ङ्गरवः - - युगान्तरमारूढः सविता | त्वरतामत्रभवती | शकुंतला - - ( आश्रमाभिमुखी स्थित्वा ) तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये | काश्यप - - श्रूयताम् | भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य | भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्||२०|| गौतमी - - जाते परिहीयते गमनवेला | निवर्तय पितरम् | अथ वा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते | निवर्ततां भवान् | काश्यपः - - वत्से उपरुध्यते तपोऽनुष्ठानम् | शकुंतला - - ( भूयः पितरमाश्लिष्य ) तपश्चरणपीडितं तातशरीरम् | तन्मातिमात्रं मम कृत उत्कण्ठस्व | काश्यपः - - ( सनिःश्वासम् ) शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् | उटजद्वारविरूढं नीवारबलिं विलोकयतः||२१|| गच्छ | शिवास्ते पन्थानः सन्तु | ( निष्क्रान्ता शकुंतला सहयायिनश्च ) सख्यौ - - ( शकुंतलां विलोक्य ) हा धिक् हा धिक् | अन्तर्हिता शकुंतला वनराज्या | काश्यपः - - ( सनिःश्वासम् ) अनसूये गतवती वां सहचारिणी | निगृह्य शोकमनुगच्छतं मां प्रस्थितम् | उभे - - तात शकुंतलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः | काश्यपः - - स्नेहवृत्तिरेवंदर्शिनी | ( सविमर्शं परिक्रम्य ) हन्त भोः शकुंतलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् | कुतः | अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः | जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा||२२|| ( इति निष्क्रान्ताः सर्वे )

( इति चतुर्थोऽङ्कः | )

पञ्चमोऽङ्कः |

( ततः प्रविशत्यासनस्थो राजा विदूषकश्च ) विदुषकः - - ( कर्णं दत्त्वा ) भो वयस्य संगीतशालान्तरेऽवधानं देहि | कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते | जाने त्रयभवती हंसपदिका वर्णपरिचयं करोतीति | राजाः - - तूष्णीं भव | यावदाकर्णयामि | ( आकाशे गीयते ) अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् | कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम्||१|| राजाः - - अहो रागपरिवाहिणी गीतिः | विदुषकः - - किं तावद्गीत्या अवगतोऽक्षरार्थः | राजाः - - ( स्मितं कृत्वा ) सकृत्कृतप्रणयोऽयं जनः | तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतोऽस्मि | सखे माधव्य मद्वचनादुच्यतां हंसपदिका | निपुणमुपालब्धाः स्म इति | विदुषकः - - यद्भवानाज्ञापयति | ( उत्थाय ) भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः | राजाः - - गच्छ | नागरिकवृत्त्या संज्ञापयैनाम् | विदुषकः - - का गतिः | ( इति निष्क्रान्ताः ) राजाः - - ( आत्मगतम् ) किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजनविरहादृतेपि बलवदुत्कण्ठितोस्मि | अथवा | रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः | तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि||२|| ( इति पर्याकुलस्तिष्ठति ) ( ततः प्रविशति कञ्चुकी ) कञ्चुकी - - अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि | आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः | काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनार्था||३|| भोः कामं धर्मकार्यमनतिपात्यं देवस्य | तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् | अथ वाऽविश्रमोऽयं लोकतन्त्राधिकारः | कुतः | भानुः सकृद्युक्ततुरङ्ग एव रात्रिंदिवं गन्धवहः प्रयाति | शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः|| ४|| यावन्नियोगमनुतिष्ठामि | ( परिक्रम्यावलोक्य च ) एष देवः प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते श्रान्तमना विविक्तम् | यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः||५|| ( उपगम्य ) जयतु जयतु देवः | एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः | श्रुत्वा देवः प्रमाणम् | राजाः - - ( सादरम् ) किं काश्यपसंदेशहारिणः | कञ्चुकी - - अथ किम् | राजाः - - तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः | अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति | अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि | क' न्चुकी - - यदाज्ञापयति देवः | ( इति निष्क्रान्तः ) राजाः - - ( उत्थाय ) वेत्रवति अग्निशरणमार्गमादेशय | प्रतिहारी - - इत इतो देवः | राजाः - - ( परिक्रामति | अधिकारखेदं निरूप्य ) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः | राज्ञां तु चरितार्थता दुःखोत्तरैव | औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव | नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम्||६|| ( नेपथ्ये ) वैतालिकौ - - विजयतां देवः | प्रथमः - - स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव | अनुभवति हि मूर्ध्ना पदपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम्||७|| द्वितीयः - - नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय | अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्||८|| राजाः - - एते क्लान्तमनसः पुनर्नवीकृताः स्मः | ( इति परिक्रामति ) प्रतिहारी - - एष अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः | आरोहतु देवः | राजाः - - ( आरुह्य परिजनांसावलम्बी तिष्ठति ) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः | किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् | आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधामित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः||९|| प्रतिहारी - - सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि | ( ततः प्रविशन्ति गौतमीसहिताः शकुंतलां पुरस्कृत्य मुनयः | पुरश्चैषां कञ्चुकी पुरोहितश्च ) कञ्चुकी - - इत इतो भवन्तः | शार्ङ्गरवः - - शारद्वत | महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते | तथापीदं शश्वत्परिचितविविक्तेन मनसा जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव||१०|| शारद्वतः - - स्थाने भवान्पुरप्रवेशादित्थंभूतः संवृत्तः | अहमपि अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् | बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि||११|| शकुंतला - - ( निमित्तं सूचयित्वा ) अहो किं मे वामेतरन्नयनं विस्फुरति | गौतमी - - जाते प्रतिहतममङ्गलम् | सुखानि ते भर्तृकुलदेवता वितरन्तु | ( इति परिक्रामति ) पुरोहितः - - ( राजानं निर्दिश्य ) भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति | पश्यतैनम् | शार्ङ्गरवः - - भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः | कुतः भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः | अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ||१२|| प्रतीहारी - - देव प्रसन्नमुखवर्णा दृश्यन्ते | जानामि विश्रब्धकार्या ऋषयः | राजाः - - ( शकुंतलां दृष्ट्वा ) अथात्रभवती का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या | मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्||१३|| प्रतीहारी - - देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति | ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते | राजाः - - भवतु | अनिर्वर्णनीयं परकलत्रम् | शकुंतला - - ( हस्तमुरसि कृत्वा | आत्मगतम् ) हृदय किमेवं वेपसे | आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव |

पुरोहितः - - ( पुरो गत्वा ) एते विधिवदर्चितास्तपस्विनः | कश्चिदेषामुपाध्यायसंदेशः | तं देवः श्रोतुमर्हति | राजाः - - अवहितोऽस्मि | ऋषयः - - ( हस्तानुद्यम्य ) विजयस्व राजन् | राजाः - - सर्वानभिवादये | ऋषयः - - इष्टेन युज्यस्व | राजाः - - अपि निर्विघ्नतपसो मुनयः | ऋषयः - - कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि | तमस्तपति धर्मांशौ कथमाविर्भविष्यति||१४|| राजाः - - अर्थवान्खलु मे राजशब्दः | अथ भगवान्लोकानुग्रहाय कुशली काश्यपः | शार्ङ्गरवः - - स्वाधीनकुशलाः सिद्धिमन्तः | स भवन्तमनामयप्रश्नपूर्वकमिदमाह | राजाः - - किमाज्ञापयति भगवान् | शार्ङ्गरवः - - यन्मिथःसमयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् | कुतः त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुंतला मूर्तिमती च सत्क्रिया | समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः||१५|| तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्माचरणायेति | गौतमी - - आर्य किमपि वक्तुकामास्मि | न मे वचनावसरोऽस्ति | कथमिति | नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः | एकैकस्मिन्नेव चरिते भणामि किमेकैकम्||१६|| शकुंतला - - ( आत्मगतम् ) किं नु खल्वार्यपुत्रो भणति | राजाः - - किमिदमुपन्यस्तम् | शकुंतला - - ( आत्मगतम् ) पावकः खलु वचनोपन्यासः | शार्ङ्गरवः - - कथमिदं नाम | भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः | सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते | अतः समीपे परिणेतुरिष्यते | प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः||१७|| राजाः - - किमत्रभवती मया परिणीतपूर्वा | शकुंतला - - ( सविषादम् आत्मगतम् ) हृदय सांप्रतं ते आशङ्का | शार्ङ्गरवः - - किं कृतकार्यद्वेषो धर्मं प्रति विमुखता | कृतावज्ञा | राजाः - - कुतोऽयमसत्कल्पनाप्रश्नः | शार्ङ्गरवः - - मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु||१८|| राजाः - - विशेषेणधिक्षिप्तोऽस्मि | गौतमी - - जाते मुहूर्तं मा लज्जस्व | अपनेष्यामि तावत्तेऽवगुण्ठनम् | ततस्त्वां भर्ताभिज्ञास्यति | ( इति यथोक्तं करोति ) राजाः - - ( शकुंतलां निर्वर्ण्य | आत्मगतम् ) इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् | भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परोभोक्तुं नापि शक्नोमि हातुम्||१९|| ( इति विचारयन्स्थितः ) प्रतीहारी - - ( स्वगतम् ) अहो धर्मापेक्षिता भर्तुः | इदृशं नाम सुखोपनतं रूपं दृष्टा कोऽन्यो विचारयति | शार्ङ्गरवः - - भो राजन् किमिति जोषमास्यते | राजाः - - भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि | तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये | शकुंतला - - ( अपवार्य ) आर्यस्य परिणय एव संदेहः | कुत इदानीं मे दूराधिरोहिण्याशा | शार्ङ्गरवः- - मा तावत् | कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः | मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन||| २०||

शारद्वतः - - शार्ङ्गरव विरम त्वमिदानीम् | शकुन्तले वक्तव्यमुक्तमस्माभिः | सोऽयमत्रभवानेवमाह | दीयतामस्मै प्रत्ययप्रतिवचनम् | शकुंतला - - ( अपवार्य ) इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन | आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् | ( प्रकाशम् ) आर्यपुत्र - ( इत्यर्धोक्ते ) संशयित इदानीं परिणये नैष समुदाचारः | पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम् | राजाः - - ( कर्णौ विधाय ) शान्तं पापम् | व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् | कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च||२१|| शकुंतला - - भवतु | यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि | राजाः - - उदारः कल्पः | शकुंतला - - ( मुद्रास्थानं परामृश्य ) हा धिक् हा धिक् | अङ्गुलीयकशून्या मेऽङ्गुलिः | ( इति सविषादं गौतमीमवेक्षते ) गौतमी - - नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् | राजाः - - ( सस्मितम् ) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते | शकुंतला - - अत्र तावद्विधिना दर्शितं प्रभुत्वम् | अपरं ते कथयिष्यामि | राजाः - - श्रोतव्यमिदानीं संवृत्तम् | शकुंतला - - नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् | राजाः - - शृणुमस्तावत् | शकुंतला - - तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः | त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन | न पुनस्तेऽपरिचयाध्दस्ताभ्यासमुपगतः | पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः | तदा त्वमित्थं प्रहसितोऽसि | सर्वः सगंधेषु विश्वसिति | द्वावप्यत्रारण्यकाविति | राजाः - - एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः | गौतमी - - महाभाग नार्हस्येवं मन्त्रयितुम् | तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य | राजाः - - तापसवृद्धे | स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः | प्रागन्तरिक्षगमनास्त्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति||२२|| शकुंतला - - ( सरोषम् ) अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे | क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते | राजाः - - ( आत्मगतम् ) संदिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते | तथा ह्यनया मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने | भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य||२३|| ( प्रकाशम् ) भद्रे प्रथितं दुष्यन्तस्य चरितम् | तथापीदं न दृश्यते | शकुंतला - - सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य हस्ताभ्यासमुपगता | शार्ङ्गरवः - - इत्थमात्मकृतं चापलं दहति | अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः | अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम्||२४|| राजाः - - अयि भोः किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः क्षिणुथ | शार्ङ्गरवः - - ( सासूयम् ) श्रुतं भवद्भिरधरोत्तरम् | आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य | परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः||२५|| राजाः - - भोः सत्यवादिन् अभ्युपगतं तावदस्माभिरेवम् | किं पुनरिमामतिसंधाय लभ्यते | शार्ङ्गरवः - - विनिपातः | राजाः - - विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् | शारद्वतः- - शार्ङ्गरव किमुत्तरेण | अनुष्ठितो गुरोः संदेशः | प्रतिनिवर्तामहे वयम् | ( राजानं प्रति ) तदेषा भवतः कान्ता त्यज वैनां गृहाण वा | उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी||२६|| गौतमि गच्छाग्रतः | ( इति प्रस्थिताः ) शकुंतला - - कथमनेन कितवेन विप्रलब्धास्मि | यूयमपि मां परित्यजथ | ( इत्यनुप्रतिष्ठते ) गौतमी - - ( स्थित्वा ) वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुंतला | प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु | शार्ङ्गरवः - - ( सरोषं निवृत्य ) किं पुरोभागे स्वातन्त्र्यमवलम्बसे | ( शकुंतला भीता वेपते ) शार्ङ्गरवः - - शकुंतले | यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया | अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम्||२७|| तिष्ठ | साधयामो वयम् | राजाः - - भोस्तपस्विन् किमत्रभवतीं विप्रलभसे | कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव | वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः||२८|| शार्ङ्गरवः - - यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः | राजाः - - भवन्तमेवात्र गुरुलाघवं पृच्छामि | मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये | दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः||२९|| पुरोहितः - - ( विचार्य ) यदि तावदेवं क्रियताम् | राजाः - - अनुशास्तु मां भवान् | पुरोहितः - - अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु | कुत इदमुच्यत इति चेत् | त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति | स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि | विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव | राजाः - - यथा गुरुभ्यो रोचते | पुरोहितः - - वत्से अनुगच्छ माम् | शकुंतला - - भगवति वसुधे देहि मे विवरम् | ( इति रुदती प्रस्थिता | निष्क्रान्ता सह पुरोधसा तपस्विभिश्च ) ( राजा शापव्यवहितस्मृतिः शकुंतलागतमेव चिन्तयति ) ( नेपथ्ये ) आश्चर्यमाश्चर्यम् | राजाः - - ( आकर्ण्य ) किं नु खलु स्यात् | ( प्रविश्य ) पुरोहितः - - ( सविस्मयम् ) देव अद्भुतं खलु संवृत्तम् | राजाः - - किमिव | पुरोहितः - - देव परावृत्तेषु कण्वशिष्येषु - सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता | राजाः - - किं च | पुरोहितः - - स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम||३०|| ( सर्वे विस्मयं रूपयन्ति ) राजाः - - भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव | किं वृथा तर्केणान्विष्यते | विश्राम्यतु भवान् | पुरोहित - - ( विलोक्य ) विजयस्व | ( इति निष्क्रान्तः ) राजाः - - वेत्रवति पर्याकुलोऽस्मि | शयनभूमिमार्गमादेशय | प्रतीहारी - - इत इतो देवः | ( इति प्रस्थिता ) राजाः - - कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् | बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम्||३१|| ( इति निष्क्रान्ताः सर्वे )

( इति पञ्चमोऽङ्कः | )

षष्ठोऽङ्कः |

( ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय रक्षिणौ च ) रक्षिणौ - - ( पुरुषं ताडयित्वा ) अरे कुम्भीरक कथय कुत्र त्वयेतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् | पुरुषः - - ( भीतिनाटितकेन ) प्रसीदन्तु भावमिश्राः | नाहमीदृशकर्मकारी | प्रथमः - - किं शोभनो ब्राह्मण इति कृत्वा ( कलयित्वा ) राज्ञा प्रतिग्रहो दत्तः | पुरुषः - - शृणुतेदानीम् | अहं शक्रावताराभ्यन्तरवासी धीवरः | द्वितियः - - पाटच्चर किमस्माभिर्जातिः पृष्टा | श्यालः - - सूचक कथयतु सर्वननुक्रमेण | मैनमन्तरा प्रतिबध्नीतम् | उभौ - - यदावुत्त आज्ञापयति | कथय | पुरुषः - - अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि | श्यालः - - ( विहस्य ) विशुद्ध इदानीमाजीवः | पुरुषः - - भर्तः मा एवं भण | सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् | पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः||१|| श्यालः - - ततस्ततः | पुरुषः - - एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः | यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् | पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः | मारयत वा मुञ्चत वा | अयमस्यागमवृत्तान्तः | श्यालः - - जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् | अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् | राजकुलमेव गच्छामः | रक्षिणौ - - तथा | गच्छ अरे ग्रन्थिभेदक | ( सर्वे परिक्रामन्ति ) श्यालः - - सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्ते निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि | उभौ - - प्रविशत्वावुत्तः स्वामिप्रसादाय | ( इति निष्क्रान्तः श्यालः ) प्रथमः - - जानुक चिरायते खल्वावुत्तः | द्वितीयः - - नन्ववसरोपसर्पणीया राजानः | प्रथमः - - जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम् | ( इति पुरुषं निर्दिशति ) पुरुषः - - नार्हति भावोऽकारणमारणो भवितुम् | द्वितीयः - - ( विलोक्य ) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतोमुखो दृश्यते | गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यासि | ( प्रविश्य ) श्यालः - - सूचक मुच्यतामेष जालोपजीवी | उपपन्नः खल्वस्याङ्गुलीयकस्यागमः | सूचकः - - यथावुत्तो भणति | एष यमसदनं प्रविश्य प्रतिनिवृत्तः | ( इति पुरुषं परिमुक्तबन्धनं करोति ) पुरुषः - - ( श्यालं प्रणम्य ) भर्तः अथ कीदृशो म आजीवः | श्यालः - - एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः | ( इति पुरुषाय स्वं प्रयच्छति ) पुरुषः - - ( सप्रणामं प्रतिगृह्य ) भर्तः अनुगृहीतोऽस्मि | सूचकः - - एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः | जानुक - - आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यमिति | श्यालः - - न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि | तस्य दर्शनेन भर्त्राऽभिमतो जनः स्मृतः | मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन आसीत् | सूचकः - - सेवितं नामावुत्तेन | जानुकः - - ननु भण | अस्य कृते मात्स्यिकभर्तुरिति | ( इति पुरुषमसूयया पश्यति ) पुरुषः - - भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु | जानुकः - - एतावद्युज्यते | श्यालः - - धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः | कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते | तच्छौण्डिकापणमेव गच्छामः | ( इति निष्क्रान्ताः सर्वे) प्रवेशकः | ( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः ) सानुमती - - निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्यभिषेककाल इति सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि | मेनकासम्बन्धेन शरीरभूता मे शकुंतला | तया च दुहितृनिमित्तमादिष्टपूर्वास्मि | ( समन्तादवलोक्य ) किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते | अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् | किं तु सख्या आदरो मया मानयितव्यः | भवतु | अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये | ( इति नाट्येनावतीर्य स्थिता ) ( ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी | अपरा च पृष्ठतस्तस्याः ) प्रथमा - - आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य ( योः ) | दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि||२|| द्वितीया - - परभृतिके किमेकाकिनी मन्त्रयसे | प्रथमा - - मधुकरिके चूतकलिकां दृष्ट्त्वोन्मत्ता परभृतिका भवति | द्वितीया - - ( सहर्षं त्वरयोपगम्य ) कथमुपस्थितो मधुमासः | प्रथमा - - मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् | द्वितीया - - सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि | प्रथमा - - यदि ममापि खल्वर्धमर्चनफलस्य | द्वितीया - - अकथितेऽप्येतत्संपद्यते यत एकमेव नौ जीवीतं द्विधास्थितं शरीरम् | ( सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति ) अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति | ( इति कपोतहस्तकं कृत्वा ) त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे | पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव||३|| ( इति चूताङ्कुरं क्षिपति ) ( प्रविश्यापटीक्षेपेण कुपितः ) | कञ्चुकी - - मा तावदनात्मज्ञे | देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमाम्रकलिकाभङ्गं किमारभसे | उभे - - ( भीते ) प्रसीदत्वार्यः | अगृहीतार्थे आवाम् | कञ्चुकी - - न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च | तथा हि चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः संनद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया | कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम्||४|| सनुमती - - नास्ति संदेहः | महाप्रभावो राजर्षिः | प्रथमा - - आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः | अत्र च नौ प्रमदवनस्य पालनकर्म समर्पितम् | तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः | कञ्चुकी - - भवतु | न पुनरेवं प्रवर्तितव्यम् | उभे - - आर्य कौतूहलं नौ | यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः किंनिमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः | सानुमती - - उत्सवप्रियाः खलु मनुष्याः | गुरुणा कारणेन भवितव्यम् | कञ्चुकी - - बहुलीभूतमेतत्किं न कथ्यते | किमत्रभवत्योः कर्णपथं नायातं शकुंतलाप्रत्यादेशकौलीनम् | उभे - - श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् | कञ्चुकी - - तेन ह्यल्पं कथयितव्यम् | यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुंतला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः | तथा हि रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः | दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम्||५|| सानुमती - - प्रियं मे | कञ्चुकी - - अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः | उभे - - युज्यते | ( नेपथ्ये ) एतु एतु भवान् | कञ्चुकी - - ( कर्णं दत्त्वा ) अये | इत एवाभिवर्तते देवः | स्वकर्मानुष्ठीयताम् | उभे - - तथा | ( इति निष्क्रान्ते) ( ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च | ) कञ्चुकी - - ( राजानमवलोक्य ) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् | एवमुत्सुकोऽपि प्रियदर्शनो देवः | तथा हि प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः | चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते||६|| सानुमती - - ( राजानं दृष्ट्वा ) स्थाने खलु प्रत्यादेशविमानिताऽप्यस्य कृते शकुंतला क्लाम्यति | राजाः - - ( ध्यानमन्दं परिक्रम्य ) प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् | अनुशयदुःखायेदं हतहृदयं संप्रति विबुद्धम्||७|| सानुमती - - नन्वीदृशानि तपस्विन्या भागधेयानि | विदूषकः - - ( अपवार्य ) लङ्घित एष भूयोऽपि शकुंतलाव्याधिना | न जाने कथं चिकित्सितव्यो भविष्यतीति | कञ्चुकी - - ( उपगम्य ) जयतु जयतु देवः | महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः यथाकाममध्यास्तां विनोदस्थानानि महाराजः | राजाः - - वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि | चिरप्रबोधान्न संभावितमस्माभिरद्य धर्मासनमध्यासितुम् | यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति | प्रतीहारी - - यद्देव आज्ञापयति | ( इति निष्क्रान्ता ) राजाः - - वातायन त्वमपि स्वं नियोगमशून्यं कुरु | कञ्चुकी - - यदाज्ञापयति देवः | ( इति निष्क्रान्तः ) विदूषकः - - कृतं भवता निर्मक्षिकम् | साम्प्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि | राजाः - - वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि वचः | कुतः मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः | मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः||८|| विदूषकः - - तिष्ठ तावत् | अनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयिष्यामि | ( इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति ) राजाः - - ( सस्मितम् ) भवतु | दृष्टं ब्रह्मवर्चसम् | सखे क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि | विषूषक - - नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा | माधवीमण्डप इमां वेलामतिवाहयिष्ये | तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुंतलायाः प्रतिकृतिमानयेति | राजाः - - ईदृशं हृदयविनोदनस्थानम् | तत्तमेव मार्गमादेशय | विदूषकः - - इत इतो भवान् | ( उभौ परिक्रमतः | सानुमत्यनुगच्छति ) विदूषकः - - एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति | तत्प्रविश्य निषीदतु भवान् | ( उभौ प्रवेशं कृत्वोपविष्टौ ) सानुमती - - लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् | ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि | ( इति तथा कृत्वा स्थिता ) राजाः - - सखे सर्वमिदानीं स्मरामि शकुंतलायाः प्रथमवृत्तान्तम् | कथितवानस्मि भवते च | स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् | पूर्वमपि न त्वया कदाचित्संकीर्तितं तत्रभवत्या नाम | कच्चिदहमिव विस्मृतवानसि त्वम् | विदूषकः - - न विस्मरामि | किं तु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् | मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् | अथवा भवितव्यता खलु बलवती | सानुमती - - एवं न्विदम् | राजाः - - ( ध्यात्वा ) सखे त्रायस्व माम् | विदूषकः - - भोः किमेतत् | अनुपपन्नं खल्वीदृशं त्वयि | कदापि सत्पुरुषाः शोकवास्तव्या न भवन्ति | ननु प्रवातेऽपि निष्कम्पा गिरयः | राजाः - - वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि | सा हि इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे | पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम्||९|| सानुमती - - अहो | ईदृशी स्वकार्यपरता | अस्य संतापेनाहं रमे | विदूषकः - - भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा नीतेति | राजाः - - कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत | मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि | तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते | सानुमती - - संमोहः खलु विस्मयनीयो न प्रतिबोधः | विदूषकः - - यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या | राजाः - - कथमिव | विदूषकः - - न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः | राजाः - - वयस्य | स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् | असंनिवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः||१०|| विदूषकः - - मैवम् | नन्वङ्गुलीयकमेव निदर्शनमवश्यं भाव्यचिन्तनीयः समागमो भवतीति | राजाः - - ( अङ्गुलीयकं विलोक्य ) अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् | तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन | अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु||११|| सानुमती - - यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् | विदूषकः - - भोः इयं नाममुद्रा केनोध्दातेन तत्रभवत्या हस्ताभ्यासं प्रापिता | सानुमती - - ममापि कौतूहलेनाकारित एषः | राजाः - - श्रूयताम् | स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति | विदूषकः - - ततस्ततः | राजाः - - पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता | एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम् | तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ||१२|| तच्च दारुणात्मना मया मोहान्नानुष्ठितम् | सानुमती - - रमणीयः खल्ववधिर्विधिना विसंवादितः | विदूषकः - - अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् | राजाः - - शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् | विदूषकः - - युज्यते | सानुमती - - अत एव तपस्विन्याः शकुंतलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आसीत् | अथ वेदृशोऽनुरागोऽभिज्ञानमपेक्षते | कथमिवैतत् | राजाः - - उपालप्स्ये तावदिदमङ्गुलीयकम् | विदूषकः - - ( आत्मगतम् ) गृहीतोऽनेन पन्था उन्मत्तानाम् | राजाः - - कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि | अथवा | अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया||१३|| विदूषकः - - ( आत्मगतम् ) कथं बुभुक्षया खादितव्योऽस्मि | राजाः - - प्रिये अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनर्दर्शनेन | ( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता ) चतुरिका - - इयं चित्रगता भट्टिनी | ( इति चित्रफलकं दर्शयति ) विदूषकः - - ( विलोक्य ) साधु वयस्य | मधुरावस्थानदर्शनीयो भावानुप्रवेशः | स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु | सानुमती - - अहो एषा राजर्षेर्निपुणता | जाने सख्यग्रतो मे वर्तत इति | राजाः - - यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा | तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम्||१४|| सानुमती - - सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च | विदूषकः - - भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते | सर्वाश्च दर्शनीयाः | कतमाऽत्र तत्रभवती शकुंतला | सानुमती - - अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः | राजाः - - त्वं तावत्कतमां तर्कयसि | विदूषकः - - तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व इषत्परिश्रान्तेवालिखिता सा शकुंतला | इतरे सख्याविति | राजाः - - निपुणो भवान् | अस्त्यत्र मे भावचिह्नम् | स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः | अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात्||१५|| चतुरिके अर्धलिखितमेतद्विनोदस्थानम् | गच्छ | वर्तिकां तावदानय | चतुरिका - - आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि | राजाः - - अहमेवैतदवलम्बे | ( इति यथोक्तं करोति ) ( निष्क्रान्ता चेटि ) राजाः - - ( निःश्वस्य ) साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु मन्यमानः | स्त्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम्||१६|| विदूषकः - - ( आत्मगतम् ) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः | ( प्रकाशम् ) भोः अपरं किमत्र लेखितव्यम् | सानुमति - - यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालेखितुकामो भवेत् | राजाः - - श्रूयताम् | कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः | शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्||१७|| विदूषकः - - ( आत्मगतम् ) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः | राजाः - - वयस्य अन्यश्च | शकुंतलायाः प्रसाधनमभिप्रेतमत्र विस्मृतमस्माभिः | विदूषकः - - किमिव | सानुमती - - वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति | राजाः - - कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् | न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचित स्तनान्तरे|| १८|| विदूषकः - - भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमावार्य चकितचकितेव स्थिता | ( सावधानं निरूप्य दृष्ट्वा ) आः एष दास्याःपुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः | राजाः - - ननु वार्यतामेष धृष्टः | विदूषकः - - भवानेवाविनीतानां शासिताऽस्य वारणे प्रभविष्यति | राजाः - - युज्यते | अयि भोः कुसुमलताप्रियातिथे किमत्र परिपतनखेदमनुभवसि | एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति||१९|| सानुमती - - अद्याभिजातं खल्वेष वारितः | विदूषकः - - प्रतिषिद्धापि वामैषा जातिः | राजाः - - एवं भो न मे शासने तिष्ठसि | श्रूयतां तर्हि संप्रति | अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु | बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम्||२०|| विदूषकः - - एवं तीक्ष्णदण्डस्य किं न भेष्यति | ( प्रहस्य | आत्मगतम् ) एष तावदुन्मत्तः | अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः | ( प्रकाशम् ) भोः चित्रं खल्वेतत् | राजाः - - कथं चित्रम् | सानुमती - - अहमपीदानीमवगतार्था | किं पुनर्यथालिखितानुभाव्येषः | राजाः - - वयस्य किमिदमनुष्ठितं पौरोभाग्यम् | दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन | स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता||२१|| ( इति बाष्पं विहरति ) सानुमती - - पूर्वापरविरोध्यपूर्व एष विरहमार्गः | राजाः - - वयस्य कथमेवमविश्रान्तदुःखमनुभवामि | प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः | बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि||२२|| सानुमती - - सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुंतलायाः | ( प्रविश्य ) चतुरिका - - जयतु भर्ता | वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि | राजाः - - किं च | चतुरिका - - स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः | विदूषकः - - दिष्ट्या त्वं मुक्ता | चतुरिका - - यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा | राजाः - - वयस्य उपस्थिता देवी बहुमानगर्विता च | भवानिमां प्रतिकृतिं रक्षतु | विदूषकः - - आत्मानमिति भण | ( चित्रफलकमादायोत्थाय च ) यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दायय | ( इति द्रुतपदं निष्क्रान्तः ) सानुमती - - अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षते | अतिशिथिलसौहार्द इदानीमेषः | ( प्रविश्य पत्रहस्ता ) प्रतीहारी - - जयतु जयतु देवः | राजाः - - वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी | प्रतीहारी - - अथ किम् | पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता | राजाः - - कार्यज्ञा कार्योपरोधं मे परिहरति | प्रतीहारी - - देव अमात्यो विज्ञापयति | अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति | राजाः - - इतः पत्रं दर्शय | ( प्रतिहार्युपनयति ) राजाः - - ( अनुवाच्य ) कथम् | समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः | अनपत्यश्च किल तपस्वी | राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् | कष्टं खल्वनपत्यता | वेत्रवति बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् | विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् | प्रतीहारी - - देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते | राजाः - - ननु गर्भः पित्र्यं रिक्थमर्हति | गच्छ | एवममात्यं ब्रूहि | प्रतीहारी - - यद्देव आज्ञापयति | ( इति प्रस्थिता ) राजाः - - एहि तावत् | प्रतीहारी - - इयमस्मि | राजाः - - किमनेन संततिरस्ति नास्तीति | येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना | स स पापादृते तासां दुष्यन्त इति घुष्यताम्||२३|| प्रतीहारी - - एवं नाम घोषयितव्यम् | ( निष्क्रम्य | पुनः प्रविष्य ) काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् | राजाः - - ( दीर्घमुष्णं च निःश्वस्य ) एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ते | ममाप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः | प्रतीहारी - - प्रतिहतममङ्गलम् | राजाः - - धिङ्मामुपस्थितश्रेयोवमानिनम् | सानुमती - - असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा | राजाः - - संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा | कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा||२४|| सानुमती - - अपरिच्छिन्नेदानीं ते संततिर्भविष्यति | चतुरिका - - ( जनान्तिकम् ) अये अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता | एनमाश्वासयितुं मेघप्रतिच्छन्दादार्यं माधव्यं गृहीत्वागच्छ | प्रतीहारी - - सुष्ठु भणसि | ( इति निष्क्रान्ता ) राजाः - - अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः | कुतः | अस्मात्परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि नियच्छतीति | नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति||२५|| ( इति मोहमुपगतः ) चतुरिका - - ( ससंभ्रममवलोक्य ) समाश्वसितु समाश्वसितु भर्ता | सानुमती - - हा धिक् हा धिक् | सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति | अहमिदानीमेव निर्वृतं करोमि | अथ वा श्रुतं मया शकुंतलां समाश्वासयन्त्या महेन्द्रजनन्या मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति | तद्युक्तमेतं कालं प्रतिपालयितुम् | यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि | ( इत्युद्भ्रान्तकेन निष्क्रान्ता ) ( नेपथ्ये ) अब्रह्मण्यम् | राजाः - - ( प्रत्यागतः | कर्णं दत्त्वा ) अये माधव्यस्येवार्तस्वरः | कः कोऽत्र भोः | ( प्रविश्य ) प्रतीहारी - - ( ससम्भ्रमम् ) परित्रायतां देवः संशयगतं वयस्यम् | राजाः - - केनात्तगन्धो माणवकः | प्रतीहारी - - अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः | राजाः - - ( उत्थाय ) मा तावत् | ममापि सत्त्वैरभिभूयन्ते गृहाः | अथ वा | अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् | प्रजासु कः के पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः||२६|| ( नेपथ्ये ) भो वयस्य अविहा अविहा | राजाः - - ( गतिभेदेन परिक्रामन् ) सखे न भेतव्यम् | ( नेपथ्ये ) ( पुनस्तदेव पठित्वा ) कथं न भेष्यामि | एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति | राजाः - - ( सदृष्टिक्षेपम् ) धनुस्तावत् | ( प्रविश्य शार्ङ्गहस्ता ) यवनी - - भर्तः एतध्दस्तावापसहितं शरासनम् | ( राजा सशरं धनुरादत्ते ) ( नेपथ्ये ) एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् | आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम्||२७|| राजाः - - ( सरोषम् ) कथं मामेवोद्दिशति | तिष्ठ कुणपाशन | त्वमिदानीं न भविष्यसि | ( शार्ङ्गमारोप्य ) वेत्रवति सोपानमार्गमादेशय | प्रतिहारी - - इत इतो देवः | ( सर्वे सत्वरमुपसर्पन्ति ) राजाः - - ( समन्ताद्विलोक्य ) शून्यं खल्विदम् | ( नेपथ्ये ) अविहा | अविहा | अहं अत्रभवन्तं पश्यामि | त्वं मां न पश्यसि | बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः | राजाः - - भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति | एष तमिषुं संदधे | यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् | हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः||२८|| ( इत्यस्त्रं संधत्ते ) ( ततः प्रविशति विदूषकमुत्सृज्य मातलिः ) मातलिः - - कृता शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् | प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ||२९|| राजाः - - ( ससम्भ्रममस्त्रमुपसंहरन् ) अये मातलिः | स्वागतं महेन्द्रसारथे | ( प्रविश्य ) विदूषकः - - अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनद्यते | मातलिः - - ( सस्मितम् ) आयुष्मन्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः | राजाः - - अवहितोऽस्मि | मातलिः - - अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः | राजाः - - अस्ति | श्रुतपूर्वं मया नारदात् | मातलिः - - सख्युस्ते स किल शतक्रतोरजय्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता | उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः ||३०|| स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् | राजाः - - अनुगृहीतोऽहमनया मघवतः संभावनया | अथ माधव्यं प्रति भवता किमेवं प्रयुक्तम् | मातलिः - - तदपि कथ्यते | किंचिन्निमित्तादपि मनःसंतापादायुष्मान्मया विक्लवो दृष्टः | पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि | कुतः | ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते | प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः||३१|| राजाः - - ( जनान्तिकम् ) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा | तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि | त्वन्मतिः केवला तावत् परिपालयतु प्रजाः | अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः||३२|| इति | विदूषकः - - यद्भवानाज्ञापयति | ( इति निष्क्रान्तः ) मातलिः - - आयुष्मान्रथमारोहतु | ( राजा रथारोहणं नाट्यति ) ( निष्क्रान्ताः सर्वे )

( इति षष्ठो अङ्कः | )

सप्तमोऽङ्कः |

( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च ) राजाः - - मातले अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये | मातलिः - - ( सस्मितम् ) आयुष्मन् उभयमप्यपरितोषं समर्थये | प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् | गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान्||१|| राजाः - - मातले मा मैवम् | स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः | मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य | अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन | आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा||२|| मातलिः - - किमिव नामायुष्मानमरेश्वरान्नार्हति | पश्य | सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् | तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः||३|| राजाः - - अत्र खलु शतक्रतोरेव महिमा स्तुत्यः | सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः | संभावनागुणमवेहि तमीश्वराणाम् | किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्||४|| मातलिः - - सदृशं तवैतत् | ( स्तोकमन्तरमतीत्य ) आयुष्मन् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः | विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु | विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति||५|| राजाः - - मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः | कतमस्मिन्मरुतां पथि वर्तामहे | मातलिः - - त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च प्रविभक्तरश्मिः | तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ||६|| राजाः - - मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति | ( रथाङ्गमवलोक्य ) मेघपदवीमवतीर्णौ स्वः | मातलिः - - कथमवगम्यते | राजाः - - अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः | गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते शीकरक्लिन्ननेमिः||७|| मातलिः - - क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते | राजाः - - ( अधोऽवलोक्य ) मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः | तथा हि | शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी | पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः | संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः | केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते||८|| मातलिः - - साधु दृष्टम् | ( सबहुमानमवलोक्य ) अहो उदाररमणीया पृथिवी | राजाः - - मातले कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य इव मेघपरिघः सानुमानालोक्यते | मातलि - - आयुष्मन् एष खलु हेमकूटो नाम किंपुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् | पश्य | स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः | सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति||९|| राजाः - - तेन ह्यनतिक्रमणीयानि श्रेयांसि | प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि | मातलिः - - प्रथमः कल्पः | ( नाट्येनावतीर्णौ ) राजाः - - ( सविस्मयम् ) उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः | अभूतलस्पर्शनतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते||१०|| मातलिः - - एतावानेव शतक्रतोरायुष्मतश्च विशेषः | राजाः - - मातले कतमस्मिन्प्रदेशे मारीचाश्रमः | मातलिः - - ( हस्तेन दर्शयन् ) वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः | अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः||११|| राजाः - - नमस्ते कष्टतपसे | मातलिः - - ( संयतप्रग्रहं रथं कृत्वा ) एतौ अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः | राजाः - - स्वर्गादधिकतरं निर्वृतिस्थानम् अमृतहृदमिवावगाढोऽस्मि | मातलिः - - ( रथं स्थापयित्वा ) अवतरत्वायुष्मान् | राजाः - - ( अवतीर्य ) मातले भवान्कथमिदानीम् | मातलिः - - संयन्त्रितो मया रथः | वयमप्यवतरामः | ( तथा कृत्वा ) इत आयुष्मन् | ( परिक्रम्य ) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः | राजाः - - ननु विस्मयादवलोकयामि | प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया | ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी||१२|| मातलिः - - उत्सर्पिणी खलु महतां प्रार्थना | ( परिक्रम्य | आकाशे ) अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः | किं ब्रवीषि | दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति | राजाः - - ( कर्णं दत्त्वा ) अये प्रतिपाल्यावसरः खलु प्रस्तावः | मातलिः - - ( राजानमवलोक्य ) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि | राजाः - - यथा भवान्मन्यते | ( इति स्थितः ) मातलिः - - आयुष्मन् साधयाम्यहम् | ( इति निष्क्रान्तः ) राजाः - - ( निमित्तं सूचयित्वा ) मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा | पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते||१३|| ( नेपथ्ये ) मा खलु चापलं कुरु | कथं गत एवात्मनः प्रकृतिम् | राजाः - - ( कर्णं दत्त्वा ) अभूमिरियमविनयस्य | को नु खल्वेष निषिध्यते | ( शब्दानुसारेणावलोक्य | सविस्मयम् ) अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः | अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् | प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति||१४|| ( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः ) बालः - - जृम्भस्व सिंह दन्तांस्ते गणयिष्ये | प्रथमा - - अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि | हन्त वर्धते ते संरम्भः | स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि | राजाः - - किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः | नूनमनपत्यता मां वत्सलयति | द्वितीया - - एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न मुञ्चसि | बालः - - ( सस्मितम् ) अहो बलीयः खलु भीतोऽस्मि | ( इत्यधरं दर्शयति ) राजाः - - महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे | स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः||१५|| प्रथमा - - वत्स एनं बालमृगेन्द्रं मुञ्च | अपरं ते क्रीडनकं दास्यामि | बालः - - कुत्र | देह्येतत् | ( इति हस्तं प्रसारयति ) राजाः - - कथं चक्रवर्तिलक्षणमप्यनेन धार्यते | तथा ह्यस्य | प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः | अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम्||१६|| द्वितीया - - सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् | गच्छ त्वम् | मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति | तमस्योपहर | प्रथमा - - तथा | ( इति निष्क्रान्ता ) बालः - - अनेनैव तावत्क्रीडिष्यामि | ( इति तापसीं विलोक्य हसति ) राजाः - - स्पृहयामि खलु दुर्ललितायस्मै | आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् | अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति|| १७|| तापसी - - भवतु | न मामयं गणयति | ( पार्श्वमवलोक्य ) कोऽत्र ऋषिकुमाराणाम् | ( राजानमवलोक्य ) भद्रमुख एहि तावत् | मोचयानेन दुर्मोचहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् | ( - दुर्मोक- ) राजाः - - ( उपगम्य | सस्मितम् ) अयि भो महर्षिपुत्र | एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया | सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः||१८ || तापसी - - भद्रमुख न खल्वयमृषिकुमारः | राजाः - - आकारसदृशं चेष्टितमेवास्य कथयति | स्थानप्रत्ययात्तु वयमेवंतर्किणः | ( यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य | आत्मगतम् ) अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् | कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः||१९ || तापसी - - ( उभौ निर्वर्ण्य ) आश्चर्यमाश्चर्यम् | राजाः - - आर्ये किमिव | तापसी - - अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिताऽस्मि | अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति | राजाः - - ( बालकमुपलालयन् ) न चेन्मुनिकुमारोऽयमथ को स्य व्यपदेशः | तापसी - - पुरुवंशः | राजाः - - ( आत्मगतम् ) कथमेकान्वयो मम | अतः खलु मदनुकारिणमेनमत्रभवती मन्यते | अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् | भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् | नियतैकव्रतियतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम्||२०|| ( प्रकाशम् ) न पुनरात्मगत्या मानुषाणामेष विषयः | तापसी - - यथा भद्रमुखो भणति | अप्सरःसम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता | राजाः - - ( अपवार्य ) हन्त द्वितीयमिदमाशाजननम् | ( प्रकाशम् ) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी | तापसी - - कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति | राजाः - - ( स्वगतम् ) इयं खलु कथा मामेव लक्ष्यीकरोति | यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि | अथ वाऽनार्यः परदारव्यवहारः | ( प्रविष्य मृन्मयूरहस्ता ) तापसी - - सर्वदमन शकुंतलावण्यं प्रेक्षस्व | बालः - - ( सदृष्टिक्षेपम् ) कुत्र वा मम माता | उभे - - नामसादृश्येन वञ्चितो मातृवत्सलः | द्वितीया - - वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि | राजाः - - ( आत्मगतम् ) किं वा शकुन्तलेत्यस्या मातुराख्या | सन्ति पुनर्नामधेयसादृश्यानि | अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते | बालः - - मातः रोचते म एष भद्रमयूरः | ( इति क्रीडनकमादत्ते ) प्रथमा - - ( विलोक्य | सोद्वेगम् ) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते | राजाः - - अलमावेगेन | नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् | ( इत्यादातुमिच्छति ) उभे - - मा खल्वेतदवलम्ब्य कथम् | गृहीतमनेन | ( इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः ) राजाः - - किमर्थं प्रतिषिद्धाः स्मः | प्रथमा - - शृणोतु महाराजः | एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता | एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति | राजाः - - अथ गृह्णाति | प्रथमा - - ततस्तं सर्पो भूत्वा दशति | राजाः - - भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया | उभे - - अनेकशः | राजाः - - ( सहर्षम् | आत्मगतम् ) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि | ( इति बालं परिष्वजते ) द्वितीया - - सुव्रते एहि | इमं वृत्तान्तं नियमव्यापृतायै शकुंतलायै निवेदयावः | ( इति निष्क्रान्ते ) बालः - - मुञ्च माम् | यावन्मातुः सकाशं गमिष्यामि | राजाः - - पुत्रक मया सहैव मातरमभिनन्दिष्यसि | बालः - - मम खलु तातो दुष्यन्तः | न त्वम् | राजाः - - ( सस्मितम् ) एष विवाद एव प्रत्याययति | ( ततः प्रविशत्येकवेणीधरा शकुंतला ) शकुंतला - - विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशाऽऽसीदात्मनो भागधेयेषु | अथ वा यथा सानुमत्याऽऽख्यातं तथा सम्भाव्यत एतत् | राजाः - - ( शकुंतलां विलोक्य ) अये सेयमत्रभवती शकुंतला यैषा वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः | अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति||२१|| शकुंतला - - ( पश्चात्तापविवर्णं राजानं दृष्ट्वा ) न खल्वार्यपुत्र इव | ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति | बालः - - ( मातरमुपेत्य ) मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति | राजाः - - प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि | शकुंतला - - ( आत्मगतम् ) हृदय समाश्वसिहि समाश्वसिहि | परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन | आर्यपुत्रः खल्वेषः | राजाः - - प्रिये | स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि | उपरागान्ते शशिनः समुपगता रोहिणी योगम्||२२|| शकुंतला - - जयतु जयत्वार्यपुत्रः | ( इत्यर्धोक्ते बाष्पकण्ठी विरमति) राजाः - - सुन्दरि | बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया | यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम्||२३|| बालः - - मातः क एषः | शकुंतला - - वत्स ते भागधेयानि पृच्छ | राजाः - - ( शकुंतलायाः पादयोः प्रणिपत्य ) सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् | प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया||२४|| शकुंतला - - उत्तिष्ठत्वार्यपुत्रः | नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः | ( राजोत्तिष्ठति ) शकुंतला - - अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः | राजाः - - उद्धृतविषादशल्यः कथयिष्यामि | मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः | तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम्||२५|| ( इति यथोक्तमनुतिष्ठति ) शकुंतला - - ( नाममुद्रां दृष्ट्वा ) आर्यपुत्र इदं तदङ्गुलीयकम् | राजाः - - अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा | शकुंतला - - विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् | राजाः - - तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् | शकुंतला - - नास्य विश्वसिमि | आर्यपुत्र एवैतद्धारयतु | ( ततः प्रविशति मातलिः ) मातलिः - - दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान्वर्धते | राजाः - - अभूत्संपादितस्वादुफलो मे मनोरथः | मातले न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् | मातलिः - - ( सस्मितम् ) किमीश्वराणां परोक्षम् | एत्वायुष्मान् | भगवान्मारीचस्ते दर्शनं वितरति | राजाः - - शकुन्तले अवलम्ब्यतां पुत्रः | त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि | शकुंतला - - जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् | राजाः - - अप्याचरितव्यमभ्युदयकालेषु | एह्येहि | ( सर्वे परिक्रामन्ति ) ( ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः ) मारीचः - - ( राजानमवलोक्य ) दाक्षायणि | पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता | चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः||२६|| अदितिः - - संभावनीयानुभावाऽस्याकृतिः | मातलिः - - आयुष्मन् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमवलोकयतः | तावुपसर्प | राजाः - - मातले | प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् | यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम्||२७|| मातलिः - - अथ किम् | राजाः - - ( उपगम्य ) उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति | मारीच - - वत्स चिरं जीव | पृथिवीं पालय | अदितिः - - वत्स अप्रतिरथो भव | शकुंतला - - दारकसहिता वां पादवदनं करोमि | मारीचः - - वत्से | आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः | आशीरन्या न ते योग्या पौलोमीसदृशी भव||२८|| अदितिः - - जाते भर्तुर्बहुमता भव | अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु | उपविशत | ( सर्वे प्रजापतिमभित उपविशन्ति ) मारीचः - - ( एकैकं निर्दिंशन् ) दिष्ट्या शकुंतला साध्वी सदपत्यमिदं भवान् | श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम्||२९|| राजाः - - भगवन् | प्रागभिप्रेतसिद्धिः | पश्चाद्दर्शनम् | अतोऽपूर्वः खलु वोऽनुग्रहः | कुतः | उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः | निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु संपदः||३०|| मातलिः - - एवं विधातारः प्रसीदन्ति | राजाः - - भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य | पश्चादङ्गुलीयकदर्शनादूढपूर्वां तद्दुहितरमवगतोऽहम् | तच्चित्रमिव मे प्रतिभाति | यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् | पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः||३१|| मारीचः - - वत्स अलमात्मापराधशङ्कया | संमोहोऽपि त्वय्यनुपपन्नः | श्रूयताम् | राजाः - - अवहितोऽस्मि | मारीचः - - यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुंतलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति | स चायमङ्गुलीयकदर्शनावसानः | राजाः - - ( सोच्छ्वासम् ) एष वचनीयान्मुक्तोऽस्मि | शकुंतला - - ( स्वगतम् ) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः | न पुनः शप्तमात्मानं स्मरामि | अथ वा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः | अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति | मारीचः - - वत्से चरितार्थासि | तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः | पश्य | शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेततमसि प्रभुता तवैव | छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा||३२|| राजाः - - यथाह भगवान् | मारीचः - - वत्स कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः | राजाः - - भगवन् अत्र खलु मे वंशप्रतिष्ठा | ( इति बालं हस्तेन गृह्णाति ) मारीचः - - तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् | पश्य | रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः | इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात्||३३|| राजाः - - भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे | अदितिः - - भगवन् अस्या दुहितृमनोरथसंपत्तेः कण्वोऽपि तावत्च्छ्रुतविस्तारः क्रियताम् | दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति | शकुंतला - - ( आत्मगतम् ) मनोरथः खलु मे भणितो भगवत्या | मारीचः - - तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः | राजाः - - अतः खलु मम नातिक्रुद्धो मुनिः | मारीचः - - तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः | कः कोऽत्र भोः | ( प्रविश्य ) शिष्यः - - भगवन् अयमस्मि | मारीचः - - गालव इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुंतला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति | शिष्यः - - यदाज्ञापयति भगवान् | ( इति निष्क्रान्तः ) मारीचः - - वत्स त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व | राजाः - - यदाज्ञापयति भगवान् | मारीचः - - अपि च | तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व | युगशतपरिवर्तानेवमन्योन्यकृत्यैर्नयतमु- भयलोकानुग्रहश्लाघनीयैः||३४|| राजाः - - भगवन् यथाशक्ति श्रेयसे यतिष्ये | मारीचः - - वत्स किं ते भूयः प्रियमुपकरोमि | राजाः - - अतः परमपि प्रियमस्ति | यदीह भगवान्प्रियं कर्तुमिच्छति तर्हीदमस्तु | ( भरतवाक्यम् ) प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम् | ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः||३५|| ( निष्क्रान्ताः सर्वे )

( इति सप्तमोऽङ्कः | )

                                                                            समाप्तमिदमभिज्ञानशकुंतलं नाम नाटकम् |
"https://sa.wikipedia.org/w/index.php?title=फलकम्:Fonthelp&oldid=178421" इत्यस्माद् प्रतिप्राप्तम्