"छान्दोग्योपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) added Category:उपनिषदः using HotCat
No edit summary
पङ्क्तिः १:
==परिचयः==
दशसु [[उपनिषदः|प्रमुखोपनिषत्सु]] अन्यतमा अस्ति '''छान्दोग्योपनिषत्''' । इयं हयग्रीवरूपीभगवतः मुखात् आविर्भूतानि पवित्रवाक्यानि । सर्वासाम् उपनिषदां मुख्याभिमानिनी लक्ष्मीदेवी[[लक्ष्मीः|लक्ष्मी]]देवी स्वस्य पतिं श्रीहरिम्[[विष्णुः|श्रीहरि]]म् अत्र '''ओमित्यक्षरमुद्गीथमुपासीत''' इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति ।
:हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम् ।
:ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम् । (छा उ भाष्यम् १-१-१)
इयम् उपनिषत् [[सामवेदः|सामवेदस्य]] छान्दोग्यब्राह्मणस्य कश्चन भागः वर्तते । इयं गद्यरूपेण वर्तते इत्यतः अत्र [[छन्दः]] नास्ति । अस्याः उपनिषदः प्रथमद्रष्टा हयग्रीवभगवान् अस्याः प्रधानऋषिः । रमादेवी द्वितीया ऋषिः । अनन्तगुणपरिपूर्णः, शेषशायी रमापतिः अस्याः प्रतिपाद्यदेवता ।
:हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम् ।
:अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ (छा उ भाष्यम् १-१-१)
दशसु प्रमुखोपनिषत्सु छान्दोग्योपनिषदः वैशिष्ट्यं वर्तते । अस्याः उपनिषदः भाष्यं [[शङ्कराचार्यः|श्रीशङ्कराचार्यैः]] श्रीमध्वाचारैश्च[[मध्वाचार्यः|श्रीमध्वाचारै]]श्च लिखितम् अस्ति ।
==विषयव्याप्तिः==
===प्रथमोध्यायः==
पङ्क्तिः ३६:
सप्तमोध्याये भूमोपासनं विवृतम् । अस्मिन् सनत्कुमार-नारदयोः संवादः वर्तते । देवता-तारतम्यपरिमाणम् अत्र विस्तृतरूपेण प्रदत्तमस्ति ।<br />
अष्टमोध्याये दहरविद्या वर्णिता अस्ति । हृदये विद्यमानः दहराकाशः (अल्पावकाशः) न परब्रह्म । दहराकाशे विद्यमानः महाकाशः एव परब्रह्म इति अत्र प्रतिपादितम् ।
ब्रह्मचर्यस्य विषये मनोहारकं विवरणम् अस्य अध्यायस्य ५ खण्डे उपलभ्यते । ब्रह्मचर्यं नाम कायेन वाचा मनसा परमात्मनः प्राप्त्यै अनुष्ठानम् ।<br />
अस्मिन् अध्याये चतुर्मुखब्रह्मणा इन्द्र-विरोचनयोः कृते कृतः उपदेशः विद्यते । तत्त्वज्ञानस्य प्राप्त्यै समीपम् आगतवन्तौ तौ उभौ उद्दिश्य चतुर्मुखब्रह्मणा एकमेव वाक्यम् उपदिष्टम् - '''य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच''' इति । उभौ अपि स्वयोग्यतानुसारम् अवगतवन्तौ । <br />
अष्टमाध्याये लभ्यमानानि उपनिष्द्वाक्यानि तत्त्वविचारस्य दृष्ट्या नितरां महत्त्वं प्राप्नोति । तेषु इदमेकं वाक्यम् -
'''आत्तो वै सशरीरः प्रियाप्रियाभ्याम् । न हवै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ।''' (अध्याय ८ खण्डः १२)
शरीराभिमानसहितः जीवः सुखदुःखयोः आक्रमणेन पीडितः भवति । देहाभिमानयुतेन जनेन सुखदुःखानि अनुभोक्तव्यानि एव । जीवेन सह परमात्मा शरीरे विद्यते चेदपि सः शरीराभिमानरहितः इत्यतः सः सुखदुःखाभ्यां दूरे तिष्ठति ।
 
[[वर्गः:उपनिषदः]]
"https://sa.wikipedia.org/wiki/छान्दोग्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्