"रामकृष्णमिशन्-विवेकानन्दविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

रामकृष्ण-मिशन्-विवेकानन्द-विश्वविद्यालयः अस... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०६:३०, ८ फेब्रवरी २०१२ इत्यस्य संस्करणं

रामकृष्ण-मिशन्-विवेकानन्द-विश्वविद्यालयः असर्वकारीयः रामकृष्ण-मिशन्-संस्थया सञ्चाल्यमानः कश्चन विश्वविद्यालयः। अयं विश्वविद्यालयः विश्वविद्यालय-अनुदान-आयोगस्य (UGC) मान्यतां प्राप्तो वर्तते। सम्प्रति अस्य विश्वविद्यालयस्य चत्वारः परिसराः सन्ति। प्रधानकार्यालयः वेलुरमठे, अन्ये च कोयेम्बटुर-स्थाने, नरेन्द्रपुरे, तथा रांचीनगरे वर्तन्ते। २००५ क्रैस्ताब्दे जूलैमासे अयं विश्वविद्यालयः मानितविश्वविद्यालयत्वेन स्वीकृतिमवाप। अत्र संस्कृतं,गणितं, पदार्थविद्यां च विहाय भारतीयैतिह्य-प्रतिबन्धिनिर्वर्तनशिक्षण-ग्रामोन्नयनादिविषयेषु पाठ्यक्रमाः प्रचलन्ति।