"बसवनबागेवाडी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[बसवनबागेवाडी]]
[[कर्णाटक]]राज्ये [[बिजापुरमण्डलम्|बिजापुरमण्डले]] विद्यमानं महात्मनः बसवेश्वरस्य जन्मस्थानम् एतत् । द्वादशशतके जातः एषः धार्मिकक्रान्तिकारः। वीरशैवमतस्य च प्रवर्तकः। इदानीम् अपि वीरशैवानां पवित्रं तीर्थक्षेत्रम् अस्ति एतत्। तस्य जन्मस्थाने सुन्दरं मन्दिरं निर्मितम् अस्ति। कर्णाटकस्य प्रसिध्दशिवशरणक्षेत्रेषु बसवनबागेवाडि अपि अन्यतमम् । युगपुरुषः, भक्तिभण्डारी, विचारवादी, मानवतावादी, समाजवादी, समाजसुधारकः स्त्रीसमानतावादी कन्नडसाहित्यस्य नूतनदृष्टिदाता, क्रान्तिकारी, महामहिमवान् बसवण्णः बसवनबागेवाडी जातः ।
 
==इतिहासः==
शतमानेभ्यः प्राक् एषः एकः अग्रहारः आसीत् । वेदाध्ययनं प्रचलति स्म । अत्रत्याः बाह्मणाः बह्वः शैवाः आसन् । तेषु साख्यायनगोत्रस्य मादरसः अन्यतमः आसीत् । तस्य पत्नी मादलाम्बिका । एतयोः पुत्रः बसवण्णः । एषः नन्दिप्रसादतः जन्मप्राप्तवान् । [[श्रीशङ्कराचार्यः]] यथा शङ्ककरस्य अवतार इति [[श्रीमध्वाचार्यः]] मारुतेः अवतारः इति, परिभाव्यते तथैव [[बसवण्णः]] नन्दिनः अवतारः इति भाव्यते । एषः द्वितीयः शम्भुः इत्यपि कथ्य़ते ।
मादलाम्बिका बागेवाडिक्षेत्रस्य शिवदेवालये प्रतिमासं प्रदोषकाले श्रेष्ठं नन्दिव्रतं करोति स्म । ततः बसवण्णस्य जन्म अभवत् । बागेवाडि पवित्रशरणक्षेत्रेषु अन्यतमम् । एषः ग्रामः बहुप्राचीनः । एतस्य ग्रामस्य पौराणिकपृष्ठभूमिका अपि अस्ति । इदानीमेषः ग्रामः बिजापुरमण्डले एकं तालूकुकेन्द्रम् अत्र एकशतविंशतिग्रामाः सन्ति । कर्णाटके ’ वाडी ’ इति अन्तिमाक्षरयुक्तग्रामाः बहवः सन्ति । हरळवाडि, नसिरवाडि, शुक्रवाडि, तन्बाकवाडि इत्यादयः । एतेषु वाडिषु बागेवाडेः पवित्रं स्थानम् अस्ति । '''वाडी''' इत्युक्ते पट्टणं, ग्रामः ग्रामस्य भागः लघुग्रामः इत्याद्यर्थाः सन्ति ।
बागेवाडि क्रि.श ६६५ तमे वर्षे अस्तित्वे आसीत् इति ज्ञायते । बसवनबागेवाडि ग्रामे शिवाराधनेन सह [[जैनधर्मः]] अपि प्रचारे आसीदिति ज्ञायते । बसवण्णस्य दैवीशक्तिविषये जनानां अचलविश्र्वासः अस्ति । भक्तानां श्रद्धापूर्णभक्त्या इष्टार्थः सिध्द्यति इति जनाः वदन्ति । एतद्विष्ये गीतं श्रूयते । तस्यार्थः एवम् चेन्नम्मायाः भक्त्या बसवण्णः संतुष्टः । तस्याः मुग्धभक्त्या मृत्तिकायाः बसवमूर्तिः रुपिता । तत्रैव महिममूर्तेः देवालयः सञ्जातः । बसवण्णव्रतकारणतः चेन्नम्मायाः गानकारणतश्र्च दैवानुग्रहः लब्धः । अर्चनया सन्तानं लभ्यते इति प्रथा अत्र अस्ति ।
[[बसवण्णः]] यत्र जातः प्रवृद्धश्र्च तद्गृहं सर्वकारेण राष्ट्रियस्मारकं कृतम् । बसवनबागेवाड्यां विशालेस्थले बसवण्णस्य सुन्दरः देवालयः निर्मितः । कर्णाटकराज्ये गोहत्यारहितपट्टणमित्युक्ते केवलं बसवनबागेवाडिमात्रम् । अत्र अहिंसा नियमपूर्वकमाचर्यते । बसवनबागेवाडिमध्ये दर्शनीयानि स्थानानि इङ्गळेश्र्वरम्, जायवाडगी, मुळवाडः एते ग्रामाः ऎतिहासिकदृष्ट्या, पौराणिकदृष्ट्या च प्रसिद्धाः ।
इङ्गळेश्र्वरग्रामः बसवनबागेवाडितः १० कि.मी दूरे अस्ति । आरम्भदिनेषु बसवनबागेवाडिं इङ्ळेश्र्वरबागेवाडि इति आह्वयन्ति स्म । बसवण्णस्य जननान्तरं बसवनबागेवाडि इति प्रसिद्धं जातम् । इङ्गळेश्र्वरं बागेवाडि च बसवण्णस्य व्यक्तित्वमरुपयत् । बसवण्णः अत्रैव बाल्यं यापितवान् । जायवाडगी - एतदेकं धार्मिकक्षेत्रम् । बसवनबागेवाडितः २५. १० कि.मी दूरे एषः ग्रामः अस्ति । कृषिकाः वृषभान् देवालयमानीय प्रदक्षिणं कारयन्ति । एते एव वृषभाः दृढाः भवन्ति इति तेषां विश्र्वासः ।
: मुळवाड – गौरीशङ्करोत्सवकारणतः एषः ग्रामः प्रसिद्धः । एतस्मिन् उत्सवे बालान् देवस्थानात् क्षिप्त्वा आच्छादकेन गृह्णन्ती । एषा एका विलक्षणसेवा अत्र आचर्यते ।
: कोल्हार - एतं ग्रामं दक्षिणवारणासी इति वदन्ति ।
: आलमट्टि - एतत् राष्ट्रस्तरस्य सुन्दरं प्रवासिकेन्द्रम् ।
: मनगूळि - अत्र चालुक्यकालस्य रामेश्वरदेवालयः अस्ति । बसवनबागेवाडितालूकस्य देवरहिप्परगीग्रामः अपि ऎतिहासिक महत्वं प्राप्तः ।
एवं बसवनबागेवाडितालूकु प्रसिद्धग्रामयुक्तं सत् शिवशरणानां जीवितक्षेत्रम् अस्ति । द्वादशशतके अत्र जन्म प्राप्य एतं ग्रामं बसवण्णः पवित्रीकृतवान् । एषः मानवतावादी आसीत् । तेन ज्वालितः दीपः इदानीं प्रपञ्चमेव प्रकाशयति । बागेवाडिशिवलिगशिवयोगिनां शिष्याः अनेकैः ऎन्द्रजालिककार्यैः (आलौकिककार्यैः) जनमानसे अविस्मरणीयाः सन्ति । एते महात्मानः शतं वर्षाणि जीवितवन्तः । एतेऽपि बसवत्त्वं प्रसार्य बसवनबागेवाडिकीर्तिं वर्धितवन्तः ।
बसवण्णः क्रि.श ११३०-३१ समये बागेवाड्यां जन्म प्राप्तवान् । एतस्य देवराजः इति सहोदरः , नाराम्मा इति सहोदरी च आसीत् । एते अष्टवर्षाणि स्वबाल्यम् अत्रैव यापितवन्तः । बसवण्णः आरम्भदिनेषु बागेवाडिमध्ये आसीत् । ततः इङ्गळेश्र्वरम् आगतवान् । ततः कप्पडिसङ्गमम् आगतवान् तावत् क्रीडन् गायन् नन्दन् प्रवृध्दः ।
एषा साधुसज्जनानां शिवशरणानां पुण्यभूमिः । बहवः कवयः, सज्जनाः स्वकीयकाव्यपुराणादिषु एतं ग्रामम् उल्लिखितवन्तः । भीमकविः , लक्कण्णदन्डेशः इत्यादयः बसवनबागेवाडि स्वग्रन्थेषु चित्रितवन्तः । बसवपुराणे, शिवतत्वचिन्तामणौ बसवबेळगुग्रन्थे च बसवनबागेवाडिविषये सुन्दरं चित्रणम् अस्ति ।''उन्नतदुगैः , विशलाभि वीथीभिः, आकाशचुम्बिगोपुरैः, सुन्दरैः मन्दिरैः बसवनबागेवाडि शोभते स्म'' इति कवयः एतत् क्षेत्रं श्लाघितवन्तः ।
 
==बसवेश्र्वर देवालयः==
बसवनबागेवाडि बसकस्थानकसमीपे बसवेश्र्वरदेवालयः पूर्वाभिमुखं स्थितः अस्ति । एषः देवालयः प्राकारेण आवृतः अस्ति । एषः देवालयः ११-१२ शतके निर्मितः स्यादिति ज्ञायते । एतस्मिन् ग्रामे महादेवस्य, गजपतेः, मारूते: च देवालयाः सन्ति । अत्र विठोबमन्दिरे राघवेन्द्र स्वामिनां वृन्दावनम् अस्ति । बागेवाडिग्रामे कुम्बारोणिमध्ये रामलिङ्गेश्र्वरस्य देवालयः अस्ति । बागेवाड्यां बसवण्णकूपः, सारङ्गकूपः इति प्रसिध्दौ कूपौ स्तः । एतस्मिन् ग्रामे १६ मठाः आसन् इति श्रूयते । विविधमतावलम्बिनां देवालयाः अपि सन्ति । मठादियाः , खाजी अम्बरदर्गा, खाजा अमीन् उद्दीन् दर्गाश्र्च सन्ति । अत्र एतेषां उरुस् नामकाः उत्सवाः प्रचलन्ति ।
 
बसवनबागेवाडिसम्बध्दानि शासनानि उपलब्धानि । एतैः शासनैः बागेवाडयाः प्राचीनतां ज्ञातुं शक्नुमः । शासनेषु बसवण्णस्य पितुः नाम उल्लिखितमस्ति । कानिचन शासनानि देवनागरीलिपिना सन्ति । शासनैः बागेवाड्याः बसवेश्र्वरदेवालयः प्राचीनः इति ज्ञायते । '''बागेवाडि''' इत्युक्ते अस्माकं नेत्रयोः पुरतः बसवण्णस्य व्यक्तित्वं तिष्ठति । '''बसवः''' इत्यस्य त्रिषु अक्षरेषु महती शक्तिः अस्ति । एतया शक्त्या मनुष्यस्य व्यक्तित्वं शुध्दं भवति । बसवण्णः यदा बसवनबागेवाडितः प्रस्थितवान् तदा भूम्या एव सम्भाषितम् इति ऐतिह्यम् अस्ति । प्राचीनग्रन्थाः, शासनानि, बसवण्णस्य जन्मस्थानस्य बागेवाडिग्रामस्य विषये बहून् विषयान् प्रकटयन्ति । बसवण्णस्य पादस्पर्शेन पवित्रितं क्षेत्रं दृष्ट्वा जनाः पापरहिताः भवन्ति । जगद्गुरुः बसवण्णः यत्र जन्म प्राप्तवान् तस्य ग्रामस्य दर्शनं जीवने एकदा वा अवश्यं करणीयम् ।
==बाह्यसम्पर्कतन्तुः==
 
[[bn:বসবানা বাগেবাদি]]
[[es:Basavana Bagevadi]]
[[bpy:বসবানা বাগেবাদি]]
[[it:Basavana Bagevadi]]
[[new:बसभना बागेभदी]]
[[pt:Basavana Bagevadi]]
[[sa:बसवनबागेवाडी]]
[[vi:Basavana Bagevadi]]
 
 
 
 
[[वर्गः:बिजापुरमण्डलम्]]
"https://sa.wikipedia.org/wiki/बसवनबागेवाडी" इत्यस्माद् प्रतिप्राप्तम्