"सिद्धगङ्गा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
आधुनिककाले सिध्दगङ्गायाः नाम विश्र्वाद्यन्तं प्रसृतम् अस्ति । अत्र चलद्देवः इति कथ्यमानः कर्मयोगी शिवकुमारस्वामीजी वसति । शिवकुमारस्वामिनः कारणतः सिध्दगङ्गा सुवर्णाक्षरै लेखितुं योग्या जाता । सिध्दगङ्गां परितः प्रेक्षणीयानि स्थानानि बहूनि सन्ति ।
रामदेवरबेट्ट, सिध्दगङ्गा, सिद्दरबेट्ट, देवरायपट्टस्य शिवयःशिवालयः , गूळूरू, बेळगुम्ब, गुब्बि एडेयूरू ,कुप्पूद्र, इत्यादीनि स्थलानि प्रेक्षणीयानि सन्ति । ऎतिहासिकदृष्ट्याऐतिहासिकदृष्ट्या पौराणिकदृष्ट्या एतानि प्रसिध्दानि । एतादृशैः पवित्रस्थानैः परिवृतमस्ति सिध्दगङगाक्षेत्रम् । एतदेकं पुण्यक्षेत्रम् । एतत् तुमकूरूजिल्हायाम् अस्ति । बेङगलूरूतः ४० कि.मी दूरे अस्ति । एतत् क्षेत्रं प्रति सर्वमतीयाः अपि भक्त्या आगच्छन्ति । प्रायशः सर्वैरपि सिद्दगङगाक्षेत्रं दृष्टम् । एका गाथा कर्णाटके प्रचलति सिध्दगङ्गां गच्छति चेत् गुहे ( एकविधाहारविशेषः) ऋणं न भवति । अर्थात् पुष्कलः भोजनप्रसादः लभ्यते इति । एतदेकं मुक्तिदायकं स्थानम् गोसलसिध्देश्वरः तोण्टदलिङ्गेश्र्वरः इत्यादयः विरक्ताः अत्र शान्तिं प्रतिष्ठापितवन्तः । सहस्राधिकाः छात्राः अत्र पठन्ति । नित्यदासोहकारणतः एतत् क्षेत्रं समाजस्य विशिष्टोपकारकम् अस्ति ।
==इतिहासः==
एकदा ग्रीष्मकाले जलाभावः आसीत् । गिरौ जलम् अभिकेषार्थं न प्राप्तमेव । पानार्थमेव जलं नासीत् अभिषेकार्थं कुतः? तदा एषः तपस्वी तपोनिरतं श्रीतोण्टदलिङगेश्र्वरं दृष्ट्वा नमस्कृतवान् । निवेदितवान् " देव, तृषा जायते । अभिषेकार्थं जलं नास्ति । कुत्रापि जलं नास्ति " इति। एषा प्रार्थना तोण्टदलिङगेश्र्वरेण श्रुता । सः शिवं प्रार्थितवान् । तदा तस्य पुरतः गङ्गा उद्भूता । तदा तपस्वी गङ्गायां स्नात्वा तृषां च परिहृत्य स्थितवान् । तस्मिन्नेव समये सिध्दलिङगेश्वरेण ज्वालिते दीपस्तम्भे तैलं न्यूनं जातम् । सद्यः एव दीपः तैलाभावात् निर्वाप्यते इति स्थितिः आगता । तदा गङ्गाजलं तत्र पूरितम् । पुनश्र्च दीपः प्रज्वलितः ।
पङ्क्तिः ९:
अटवीस्वामिनः मठं निर्मीय अन्नदासोहं, ज्ञानदासोहं च व्यवस्थापितवन्तः । तैः तद्दिने प्रज्वालित दीपः अद्यापि निरन्तरं प्रज्वलति । अटवीस्वामिनः अलौकिकाः आसन् । अनेकान् भक्तान् उध्दृतवन्तः । एतेषां तपसः प्रभावात् श्रीक्षेत्रं प्रति बहवः भक्ताः आगन्तुम् आरब्धवन्तः । दिने दिने एषा संख्या वर्धमाना एव अस्ति ।
[[File:SIT collage.jpg|thumb|तान्त्रिकमहाविद्यालयः,सिद्धगङ्गा]]
 
सिध्दगङ्गायाः इतिहासे उद्यान शिवयोगिनां नाम अपि प्रमुखम् अस्ति । एते स्वामिनः ज्ञानिनः । एते अन्नदासोहं, ज्ञानदासोहं, महोत्सवः इत्यादिकं प्रचालितवन्तः । मठस्य प्रगतौ कारणीभूताः एते । १९०१ तमे वर्षे अत्र यात्रामहोत्सवः आरब्धः । अद्यापि बहुसम्यक् महोत्सवः सिध्दगङ्गायां प्रचलति । श्रीशिवकुमारस्वामिनां काले महोत्सवः वैभवपूर्वकं प्रचलति । महोत्सवे कनीयं सः वयस्काः, ज्येष्ठाः, धनिकाः, दरिद्राः, विभिन्नजातीयाः भेदभावं विना आगच्छन्ति । सिध्दगङ्गदेवेन अनुगृहीताश्र्च भवन्ति । हेरम्बकविः " सिध्दलिङ्गेश्र्वर साङ्गत्ये " सिध्दगङ्गाजलस्य महिमानं वर्णितवान् । सिध्दगङ्गायाः माहात्म्यं कर्णाटकात् बहिरपि प्रसृतम् अस्ति ।
"https://sa.wikipedia.org/wiki/सिद्धगङ्गा" इत्यस्माद् प्रतिप्राप्तम्