"दीपिका पडुकोणे" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
| nationalfilmawards =
}}
जननं १९८६तमस्य जनवरी पञ्चमदिनाङ्कः । पूर्वं भारतीयमूलस्य रूपदर्शिनी भूत्वा अधुना बालिवुड् चलच्चित्रेषु अभिनेत्रीत्वेन दृश्यते ।
''दीपिका पडुकोणे'' जननं जनवरी ५,१९८६
==आरम्भिकजीवनं तथा पृष्ठभूमिका==
एषा पूर्वं भारतस्य रूपदर्शी असीत् । अधुना [[बालिवुड्]] चलच्चित्रक्षेत्रे अभिनेत्री वर्तते ।
१९८६ तमस्य जनवरी पञ्चमदिनाङ्के दीपिका कोपन्हेगन् इत्यत्र अजायत । सा यदा एकादशवर्षीयः शिशुरासीत् तदा तस्याः कुटुम्बजनाः भारतस्य बेङ्गलूरु इति स्थले वासं परिवर्तितवन्तः । मङ्गलूरु प्रदेशस्य मूलायाः दीपिकायाः मातृभाषा कोङ्कणि वर्तते । सा चित्रापुर-सारस्वत-ब्राह्मण-समुदायस्य सदस्या । अस्याः पूर्वजाः भारतस्य कर्णाटक-राज्यस्य उडुपि-जिल्लाप्रदेशस्य कुन्दापुर-तालूक् प्रदेशस्य पडुकोणे-प्रदेशादागतवन्तः । अस्याः पिता प्रकाश्-पडुकोणे अन्ताराष्ट्रिय-ख्यातिमान् ब्याड्मिण्टन् क्रीडकः अधुना निवृत्तोऽस्ति । माता ट्रावेल् एजेण्ट्रूपेण कार्यं करोति । दीपिकायाः अनुजायाः नाम 'अनिशा' १९९१तमे वर्षे जनितवती अस्ति ।
 
==विद्याभ्यासः==
दीपिका बेङ्गलूरुनगरस्य सोफिया प्रौढशालायाः विद्यार्थिनी । बेङ्गलूरुनगरस्य मौण्ट् कार्मेल्-विद्यालये तस्याः पदवीपूर्वशिक्षणम् अपूरयत् । प्रौढशालायाः विद्याभ्यासवेलायां सा ब्याड्मिण्टन् क्रीडायां राज्यस्तरस्य क्रीडिका आसीत् । किन्तु सा आत्मानं ब्याड्मिण्टन्-खेले न्यूनदत्तावधानां कृत्वा स्वीक्रियमाणायाः ऐ सि एस् सीपरीक्षायाः सिद्धताम् अधिकां कृतवती ।
 
==रूपदर्शिता (Modelling)==
दीपिका यदा पदवी-अध्ययने आसीत् तदानीमेव रूपदर्शिता-वृत्तिं चितवती । अस्याः वृत्तेः स्वीकारात् परं भारतस्य विविधाभ्यः प्रख्याताभ्यः संस्थाभ्यः रूपदर्शित्वेन कार्यं निरवहत् । तास्तु संस्थासु प्रमुखाः काश्चन लिरिल्, डाबर् लाल् पाउडर्, क्लोस् अप् इण्डिया रिटेल् इति आभरण-प्रदर्शनाय राजदूता अपि अस्ति । सौन्दर्यवर्धकानां संस्था मेबिल्लैन् दीपिकां तस्याः संस्थायाः अन्ताराष्ट्रिय-'वक्तार'त्वेन नियुक्तवती अस्ति ।
किङ्ग् फिषर् इत्यस्य पञ्चमवार्षिकनव्यताप्रशस्तौ इयं वर्षस्य रूपदर्शिनी प्रशस्तिं प्राप्नोत् । ततः केषाञ्चन दिनानामन्तरे एव सा २००६तमवर्षस्य किङ्ग् फिषर् तरणवेष-दिनदर्शिकायाः रूपदर्शित्वे कार्यं निरुह्य ऐडिया झी फ्याषन्-प्रशस्तौ वर्षस्य महिला-रूपदर्शिनी (विज्ञापिका-विभागः) तथा वर्षस्य नूतनमुखम् इति विजयचिह्नद्वयं सम्पादितवती । दीपिका किङ्ग् फिषर्-ऐर् लैन्स् इत्यस्याः संस्थायाः उत्पन्नानां राजप्रतिनिधित्वेन चिता जाता । पश्चात् लेवि स्ट्राट्स् तथा टिस्टाट् एस् ए इत्याख्यानामपि उत्पन्नानां राजप्रतिनिधित्वं प्राप्तवती ।
 
==नटनक्षेत्रम्==
रूपदर्शिताक्षेत्रे यशःप्राप्तेः पश्चात् दीपिका तस्याः कार्यक्षेत्रं नटनाय व्यस्तारयत् । सा हिमेश् रेशमिया इत्यस्य स्वतन्त्रे विडियो पाप् आल्बम् इत्याख्ये 'आप् का सुरूर् म्यूसिक् विडियो इत्याख्ये चित्रीकरणे 'नाम् है तेरा' इति गानाय प्रप्रथमवारं नटीत्वेन अनटत् ।
२००६तमे वर्षे दीपिका कन्नडभाषायाः 'ऐश्वर्य' नामके चलच्चित्रे प्रथमतया नायिकात्वेन 'उपेन्द्र' इत्येतेन नटेन सह पूर्णप्रमाणेन पादार्पणम् अकरोत् । २००७तमे वर्षे फराखान् इत्यस्य निर्देशने अन्ताराष्ट्रिय-ख्यातियुते 'बालिवुड्' चलनचित्रे ओम् शान्ति ओम् इत्येतस्मिन् प्रथमतया शारुख् खान् इत्येतेन सह अनटत् । दीपिका अस्मिन् चलनचित्रे १९७०तमे वर्षे स्थितायाः नट्याः शान्तिप्रियायाः पात्रे चलच्चित्रस्य प्रथमार्धे दृश्यते । पश्चात् शान्तिप्रिया इव दृश्यमाना सन्ध्या अथवा स्याण्डिरूपेण दृश्यते । अस्मिन् चित्रे दीपिकायाः नटनं विमर्शकैः बहुधा श्लाघनं प्राप्नोत् । अपि तु अस्य चित्रस्य नटनाय सा फिल्म्‌फेर्-श्रेष्ठ-नव-नटी-प्रशस्तिं प्राप्तवती । फिल्म्‌फेर्-श्रेष्ठ-नटी-प्रशस्तै तस्याः नामनिर्देशनम् अपि अनेनैव चित्रेण अभवत् । इण्डिया एफ् एम् इत्यस्य तरण् आरर्शस्य कथनम् इत्थमस्ति-उत्तमाभिनेत्री भवितुम् आवश्यकं व्यक्तित्वं दर्शनं नेत्रे आवश्यकीं प्रतिभां च दीपिका धरति । शारुख्‌खानेन सह अभिनीय तस्मादपि उत्तमा इति खातिसम्पादनस्य विचारः न सामान्यः । सा शीतलपवनस्य तरङ्ग इव आगत्य स्वप्रतिभां निरूपितवती ।
दीपिका ओम् शान्ति ओम् चलनचित्रस्य पश्चात् सिद्धार्थ् आनन्दस्य बच्ना ए हसीनों(२००८) इति चित्रे रणबीर्‌कपूरेण सह अनटत् । अनन्तरं २००९तमवर्षस्य जनवरी १६ दिनाङ्के विमुक्ते वार्नर् ब्रदर्स् रोहन् सिप्पि इत्येताभ्यां निर्मिते चान्दनी चौक् टु चैना इति चित्रे अभिनीतवती । सद्यः सैफ् अलि खान् इत्येतेन सह इम्तियाज् अलि इत्यस्य निर्देशने लव् आज् कल्(२००९) इति चित्रे अनटत् । रिशिकपूर्-नीतुसिङ्ग् इत्येतयोः पुत्रेण सहनटेन रणबीरकपूरेण सह दीपिकायाः दिनयापनं प्रचलत्यधुना ।
 
==स्वीकृताः फिल्म्फेर्-प्रशस्तयः==
* २००८-श्रेष्ठ-नव-नटी-प्रशस्तिः (ओम् शान्ति ओम्) [१८]
* २००८-सोनि हेड् अण्ड् शौल्डर्स् वर्षस्य-नवमुखप्रशस्तिः(ओम् शान्ति ओम्)
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/दीपिका_पडुकोणे" इत्यस्माद् प्रतिप्राप्तम्