"सूर्यः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) रवि इत्येतद् रविः इत्येतत् प्रति चालितम्।
पङ्क्तिः १:
एतत् एकं ग्रहं अस्ति
[[File:The sun1.jpg|thumb|सूर्यः]]
==पश्य==
[[File:SURYA GOD.JPG|left|thumb|'''सूर्यदेवः''']]
*[[नवग्रह|नवग्रह सूची]]
नक्षत्रोयं सूर्यः सौरयूथस्य केन्द्रम् अस्ति । सूर्यस्य व्यासः १३,९२,००० कि.मी, यत् पृथ्व्याः व्यासात् १०९गुणितं वर्तते । समस्तसौरयूतस्य घनेषु ९९.८६ प्रतिशतः सूर्यस्य घनमेव अस्ति ।
 
[[वर्गः:नवग्रहाः]]
==सविता देवता==
निष्क्रमणसंस्कारः वसिष्ठस्मृतिमन्त्रे (३-६) कुमारमीक्षये भानुं जपन् वै सूर्यदेवतम् ॥ इति सूचितः । शिशुजननात् मासचतुष्टयानन्तरं प्रथमवारं गृहात् बहिः नीत्वा शिशोः सूर्यदर्शनम् एव निष्क्रमणम् । सूर्यः ब्रह्माण्डस्य सञ्जालनशक्तिः । अतः तं सूर्यनारायणः इति कथयन्ति । मनुस्मृतौ (१-१०) तायदस्यायनं पूर्वं तेन नारायणः स्मृताः । इति उक्तम् । यजुर्वेदस्य तैत्तरीयोपनिषदः आरण्यके (२-१) असावादित्यो ब्रह्मेति । तन्नाम आदित्यः एव परब्रह्मणः व्यक्तं रूपं इति उक्तम् । वाक् मनः प्राणाः एतेषाः त्रयाणाम् अपि सूर्यः एव धिपतिः इति ऋग्वेदस्य मन्त्रे (१०-१७७-२) अस्ति । ऋग्वेदस्य १-७१-९तमे मन्त्रे सूर्यः एव सरसम्पदः प्रभुः इति उक्तम् । ऋग्वेदस्य सपमे मण्डले सूर्यमेव विश्वकर्म इति अवदन् । सूर्यः एव हृदयस्थः मुख्यप्राणः अन्तरात्मनः चैतन्यम् इति ऋग्वेदस्य ६-९-६तमे मन्त्रे अस्ति । शुक्लयजुर्वेदस्य शतपथ ब्राह्मणस्य १०-५-२-१६तमे वचने सूर्यः प्रत्येकं जीविनि अपि अधिवसति । जीविनि विद्यमानां तस्य शक्तिं यदि सः प्रतिगृह्णाति तत्क्षणे एव जीविनः मरणं सम्भवति इति उक्तम् । वेदानाम् अदिभाष्यकारः यास्कमहर्षिः ’सविता सर्वस्य प्रसविता’ ’ज्योतिर्हर उच्यते’ इति उतवान् । तन्नाम सर्वस्य सृष्टा जगतः ज्योतिः हरः भगवान् सूर्यदेवः एव इति । एतादृशं प्रचण्डशक्तिमूलं सूर्यदेवं भगवतः दृश्यरुपं इति जनन्तः वैदिकाः ऋषयः सूर्यनमस्कारं विधिं बोधितवन्तः ।
ऋग्वेदः ’अग्निमीळे पुरोहितम्”..इति अग्निस्तुत्या एव आरभते । ’देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे’ इति सूर्यदेवस्य स्तुत्या यजुर्वेदस्य आरम्भः । कर्मप्रधनस्य यजुर्वेदस्य सूयः एव महाद्वारम् । सूर्यकिरणेभ्यः जीवद्रव्याणि प्राप्य जगतः समस्तजीविनः जीवन्ति न तु प्रकृत्या कस्यचिदपि जीवनं भवति इति वचनं पूर्णसत्यम् । वेदाङ्गे निरुक्ते (१२-१४) यास्काचार्यः ’सूर्य सतेर्वा सुवतेर्वा स्वीयतेर्वा’ इत्युक्ते .. अन्तरिक्षसञ्चारेण सकलजीविनाम् उत्पादकत्वेन सर्वप्रेरणया अयं सूर्यः इति ख्यातः । यजुर्वेदस्य १८-४० तमे मन्त्रे चद्रस्य स्वयंप्रकाशः नास्ति सः सूर्यभासा प्रकाशते इति उक्त्वा खगोलविज्ञानमपि प्रकटितम् । सामवेदस्य छान्दोग्योपनिषदि ५-४-१वाक्ये ’अग्निस्तस्यादित्य एव समित् रश्मयो धूमो अहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गा’ इत्युक्ते द्युर्लोकः एव अग्निः, आदित्यः तस्य समिदः, रश्मयः एव यज्ञस्य धूमः, दिनम् एव तस्य ज्वाला, चन्द्रः एव अङ्गारः, नक्षत्राणि एव विस्फुलिङ्गाः इति उक्तम् । छान्दोग्योपनिषदः १-१२-५तमे वचने ’सविता अन्नमिहा अहरदन्नपते ’ इत्युक्ते वर्षधारभिः आहारसम्भवस्य कारणिकः सूर्यः एव अन्नपतिः इति कथितम् । सामवेदस्य १८-३१तमे मन्त्रे ’सूर्यो ज्योतिः ज्योतिस्सूर्यः” । ज्योतिः एव सूर्यः, सूर्यः एव ज्योतिर्मयः भगवान् इति उक्तम् ।
 
{{हैन्दवदेवताः}}
 
 
[[वर्गः:सूर्यमण्डलम्|सूर्यः]]
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्