"विशाखदत्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==प्राक्कथनम्==
'''विशाखदत्तः''' संस्कृतकविः नाटककारः च आसीत् । एतस्य पिता महाराजः पृथुनामा, पितामहः वटेश्वरदत्तः च आस्ताम् इति ज्ञायते [[मुद्राराक्षसम्]] नाटकस्य सूत्रधार वचनादस्मात्, यत् '''आज्ञापितोऽस्मि परिषदा यथाद्य त्वया सामन्तवटेश्वरदत्तपौत्रस्य महाराजपदभाक्पृथुसूनोः कवेः विशाखदत्तस्य कृतिः, अभिनवं मुद्राराक्षसम् नाम नाटकं नाटयितव्यमिति'''। अस्य पितुः भास्करदत्त इत्यपि नाम आसीत्, अपि च सः वत्सदेशस्य सामन्तराजः आसीत् । क्रमेण सः महाराजपदम् आरुरोह । स्वयं विशाखद्त्तः राजपुत्र आसीदिति कारणतः राजनीतिं सम्यगधीतवान् । एवम् प्रकृत्या अध्ययनेन च राजनीतिपारङ्गतः सन् विशेषतः [[कौटलीये अर्थशास्त्रे]] निष्णातो बभूव । जन्मना राजापि स्वभावेन कविः विशाखदत्तः स्वाधीतविद्यानुगुणम् निजप्रतिभाम् राजनीतिप्रख्यापनपरासु दृश्यकाव्यकृतिषु वितस्तार । एवं च एतेन विरचितानि त्रीणि नाटकानि श्रूयन्ते । तस्य द्वे नाटके ([[देवीचन्द्रगुप्तम्]] [[मुद्रराक्षसम्]] च) एव अस्माभिः ज्ञाते।
 
 
[[वर्गः:नाटकम्|विशाखदत्तः]]
"https://sa.wikipedia.org/wiki/विशाखदत्तः" इत्यस्माद् प्रतिप्राप्तम्