"सरस्वती देवी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==देवी सरस्वती – विद्याधिदेवता==
'''सरस्वती''' एका देवी अस्ति। सा [[ब्रह्मदेवः|ब्रह्मदेव]]स्य अर्धाङ्गिनी। एषा विद्यायाः अधिदेवता ।
[[ऋग्वेदः|ऋग्वेदे]] उल्लिखिता काचित् नदी एषा । '''सरः(जलम्) अस्त्यस्याः''' इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या '''वाक्''' उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि [[शारदा]], [[वागीश्वरी]], [[ब्राह्मी]], [[महाविद्या]] इत्यादीनि । सृष्टिकर्तुः [[ब्रह्मा|ब्रह्मणः]] पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।<br />
 
एषा देवी सर्वस्य ज्ञानस्य, [[कलाः|कलानां]], [[विज्ञानम्|विज्ञानस्य]] च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं [[हंसः]] मयूरश्च । चित्रेण पिच्छकलापेन [[मयूरः]] विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव [[मोक्षः]] इति वदतीव । <br />
 
परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘[[ज्ञानमार्गः]]’ ‘[[भक्तिमार्गः]]’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः ।<br />
 
[[नवरात्रम्|नवरात्रोत्सवे]] आदौ दिनत्रयं दुर्गापूजा भवति । अनन्तरं दिनत्रयं यावत् लक्ष्मीपूजा भवति । अन्ते दिनत्रयं देव्याः सरस्वत्याः पूजा भवति । [[दुर्गापूजा|दुर्गापूजया]] दुर्गुणान् जित्वा लक्ष्मीपूजया च शमदमक्षमावात्सल्यादीन् अन्तस्सत्त्वगुणान् प्राप्य अन्ते शुद्धेन मनसा सरस्वतीं संपूज्य आत्मज्ञानं प्राप्नोति मनुष्यः । दशमे दिने अहङ्कारस्य प्रतिकृतेः दहनेन सह उत्सवः समाप्तिम् एष्यति । तदैव च विद्यारम्भः च भवति । <br />
 
::सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
::विद्यारम्भं करिष्यामः सिद्धिर्भवतु नस्सदा ॥
 
 
=== पश्य ===
* [[सरस्वती नदी]]
"https://sa.wikipedia.org/wiki/सरस्वती_देवी" इत्यस्माद् प्रतिप्राप्तम्