"वामनः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७:
काश्मीरराजस्य जयापीडस्य कालः क्रि.श.७५५ तः ७८६ पर्यन्तम् आसीत् । एवम् निश्चयेन तदाश्रितस्य वामनस्यापि कालः स एव '''अष्टमशतमानस्य उत्तरार्धम्''' भवितुमर्हति ।
==कृतयः==
 
* [[काशिका]]
* [[काव्यालङ्कारसूत्रम्]]
अस्मिन् अलङ्कारशास्त्रग्रन्थे ५ अधिकरणानि १२भिः अध्यायैः विभक्तानि सन्ति । यथास्य अनुक्रमणिका वर्तते ।
:अध्याये प्रथमे काव्यप्रयोजनपरीक्षणम् ।
:अधिकारिविचारश्च द्वितीये रीतिनिश्चयः ॥
:काव्याङ्गकाव्यभेदानां तृतीये प्रतिपादनम् ।
:तुर्ये पदपदार्थानां दोषतत्वविवेचनम् ।।
:वाक्यवाक्यार्थदोषाणां पञ्चमे तु प्रपञ्चनम् ।
:गुणालङ्कारभेदास्तु षष्ठे शब्दगुणास्तथा ।।
:सप्तमेऽर्थगुणाः शब्दालङ्काराः पुनरष्टमे ।
:उपमा नवमे तस्याः प्रपञ्चो दशमे भवेत् ।।
:काव्यस्यैकादशे संविद्वादशे शब्दशोधनम् ।
:इत्येष द्वादशाध्यायीप्रमेयाणामनुक्रमः ॥
अपि च एष स्वस्य ग्रन्थस्य विचारे स्वयमेव वदति, यथा-
:पावनी वामनस्येयं पदोन्नतिपरिष्कृता ।
:गम्भीरा राजते वृत्तिर्गङ्गेव कविहर्षिणी ॥ इति ।
अस्य ग्रन्थस्य '''गोपेन्द्रतिप्पभूपाल'''नामा '''कामधेनुः''' इत्याख्यां व्याख्याम् आचख्ये । सः स्वव्याख्यानारम्भे वदति यत्-
:पावनपदविन्यासा समग्ररदोहशालिनी भजताम् ।
:घटयति कामितमर्थं काव्यालङ्कारकामधेनुरियम् ॥ इति ।
* [[काशिका]]
 
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/वामनः" इत्यस्माद् प्रतिप्राप्तम्