"गीतगोविन्दम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==परिचयः==
संस्कृतसाहित्यपरम्परायां गीतिकाव्यपरम्परा अस्ति अन्यतमा । [[गीतिकाव्यम्|गीतिकाव्यस्य]] प्रवर्तकः गीतगोविन्दकारः [[जयदेवः]] । गीतगोविन्दं द्वादशसर्गात्मकं खण्डकाव्यम् । अत्र चरितं न वर्ण्यते इत्यतः इदं सर्वथा काव्यकोटौ न आयाति चेदपि वर्णनपरखण्डकाव्यत्वं स्वीकर्तव्यमेव । केचित् आधुनिकाः गीतगोविन्दं गीतनाट्यं मन्यन्ते । यद्यपि इदं द्वादशशताब्द्यां निरमीयत तथापि इदं परिपक्वताम् उपयास्यतः नाट्यस्य उदाहरणस्वरूपतया प्रथमं निदर्शनं मन्तव्यम् । तदीया परम्परा वङ्गेषु उत्कलेषु च सम्प्रति अपि जीवति ।
[[Image:Westindischer Maler um 1550 001.jpg|thumb|250px|गीतगोविन्दताडग्रन्थः १५५०]]
==स्वरूपः==
सरसमधुरकवितायाः पराकाष्ठा अत्र निदर्शिता भवति । यदि भक्तिसरसकवितां च सहृदयः अपेक्षते तर्हि जयदेवसरस्वतीं शृणु इति कथयति जयदेवः –
Line १२ ⟶ १३:
अष्टपदीनां माधुर्यम् आन्तरं कोमलत्वं बाह्यं कान्तत्वम् उभयधर्मी । एवं माधुर्यमेकतह् कोमलत्वम् अपरतह् कान्तत्वं सङ्घटयति । अन्योन्यम् अद्वितीयम् अनपायम् अप्यायनम् अनुबन्धं माधुर्यकोमलत्वमिथुनस्य प्राकाशयति कान्तता । अत्र व्यक्तः पुरुषोत्तमः । कोमला नायिका जीवरूपा, सखीरूपा कान्ता आचार्यस्थानीया । जीवेश्वरसमागमस्य पुरुषाकारभूता राधा । इदमेव गीतगोविन्दस्य रहस्यमिति प्रस्तावनाश्लोके एव जयदेवकविचन्द्रः काव्यार्थसूचनाम् आविष्करोति ।

अत्रत्यः शृङ्गारः लौकिको नास्ति । नापि काव्यसाधारणः पुनः अतिलोकरमणीयः । दिव्यं भक्तिरूपं दधत् मधुरोज्वलरसराट् अत्र परिपोषितः । तादृशम् उदात्तं गभीरं मधुरोज्ज्वलं कान्तकोमलम् अत्युत्तमम् अपूर्वम् अचिन्त्यदिव्याद्भुतं गीतगोविन्दमहाप्रबन्धम् आलङ्कारिकमर्यादाभिः नाट्यकोविदाभिनयैः जयदेवेन लिखितम् । आलङ्कारिकाणां सद्यःपरनिर्वृत्तिः, कुशीलवानां नाट्यकौशलनिकेतनं, सङ्गीतमर्मज्ञानां रागमयकेलिः, वेदान्तविदां विपुलोपदेशः, चित्रकलाचतुराणां विचित्ररागशैलीविलास इति कथने नास्ति संशीतिलेशः ।

[[File:Brooklyn Museum - Krishna Gazes Longingly at Radha Page from the "Lumbagraon Gita Govinda" Series.jpg|thumb|left|210px|राधां प्रेम्णा वीक्षमाणः कृष्णः]]
श्रीमन्नारायणस्य ध्याने अनुरक्तः विलासकलाकुतूहली जयदेवः सुकुमारसुमधुरपदभरितां कवितासरस्वतीम् आराध्य हरिस्मरणं राधाकृष्णप्रणयलीलाः विप्रलम्भशृङ्गारभरिताः कमनीयं कवयति । अस्मिन् राधा जीवात्मा, श्रीकृष्णश्च परमात्मा । जीवेश्वरयोः ऐक्यमेवात्र उपनिषत् । अत्र शृङ्गारः मधुरभक्तिमयः । काव्यमिदम् अभिनयानुकूलम् । स्वयं भार्यया सह स्वसखेन परमादरेण सह श्रीकृष्णाराधनतत्परः जयदेवः स्वयम् उल्लिखति -
:विहितपद्मावतीसुखसमाजे ।
:भणति जयति जयदेवकविराजराजे ॥ इति ।
==काव्यान्तरङ्गम्==
गीतगोविन्दे द्वादशसर्गाः सन्ति । सर्गस्थेषु श्लोकेषु चतुर्विंशतिसङ्ख्यकासु अष्टपदीषु च पदबन्धः मधुरकोमलः सहृदहृदयान् आवर्जयति । सुकुमारबन्धच्छाया अत्र दरीदृश्यते । ध्वनिप्रधानार्थविशेषाननदानुभूतीः गीतगोविन्दात् अनुभवामः । प्रतिपदं कृष्णभक्तिद्योतकम् । प्रतिभावगीति परमरमणीयम् । अत्र जीवेश्वरयोः ऐक्यमेव उपपादितमिति वेदान्तसन्देशात्मकं काव्यमिदमिति पण्डिताः अभिप्रयन्ति । हृदयस्पृशः यमकबन्धाः पञ्चानुप्रासाश्च गीतगोविन्दस्य आपातरमणीयताम् आदधाति । व्यङ्ग्यार्थवैभवेन अन्तरालोचनामृतं सङ्गीतसाहित्योभयसर्वस्वरसकन्दं गीतगोविन्दं जग्रन्थ महाकविः ।

अस्मिन् काव्ये अष्टपादसम्भरिताः चतुर्विंशतिः अष्टपद्यः द्वादशसर्गेषु व्यभज्यन्त । अत्र द्विनवतिश्लोकाः सन्ति । एतन्महाकाव्यं श्रीमद्भागवतवत् द्वादशधा विभक्तम् । अष्टाक्षरीमन्त्रतुल्यम् अष्टभिः पदैः सङ्घटितं गायत्रीमन्त्राक्षरवत् चतुर्विंशतिधा सङ्कलितम् । गेयकाव्यमिदं सङ्गीतनाट्यानुकूलम् । प्रतिगेयं भावशृङ्गारभरितं हृदयशृङ्गाररसिकं बोभूयते ।

सदा यमुनातीरे सिकताभरिते सैकते शीतलमारुते वीजीते मुरलिगानलोलं श्रीकृष्णं हृदये निधाय स्मारं स्मारं जयदेवः उन्मत्त इव कृष्णमन्वेषते । अत एव चञ्चलो विहरति । विश्वात्मकस्वरूपः श्रीकृष्णः राधागोविकास्त्रीजीवात्मभिः कृता रासक्रीडा केवला इन्द्रियरतिर्न भवति आत्मरतिरेव । परमात्मनः सर्वजीवकोटेश्च मध्ये निरन्तरमनुभूयमाना आत्मरतिः । अहङ्कारावृतां राधाम् आचार्यस्थानीया सखी वृन्दावने विहरतः श्रीकृष्णस्य वैभवं कथयन्ती तम् उपेहि इति प्रोत्साहयति ।

पद्मावतीचरणचारणचक्रवर्ती जयदेवः राधामाधवतत्त्वम् उपास्य पद्मावत्यां नृत्यन्त्यां गीतगोविन्दकाव्यं पूरयामास ।
==आधारग्रन्थाः==
* गीतगोविन्दम् - सर्वाङ्गसुन्दरीसंस्कृतटीकोपेतम्, प्रधानसम्पादकः आचार्य हरेकृष्ण शतपथी, राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः
* श्रीजयदेवविरचितं गीतगोविन्दम्, डा एन् एस् आर् अयङ्गारः, पेन्मान् प्रकाशकाः, शक्ति नगर्, देहली
==बाह्यसम्पर्कतन्तुः==
* [http://www.odia.org Oriya version of the Gita Govinda]
* [http://www.ignca.nic.in/gita.htm The Gita Govinda: a Multimedia Presentation]
* word-for-word Sanskrit verses to English, translation in prose thru webpage gIrvANi -[http://www.giirvaani.net gItagovindam]

[[en:Gita Govinda]]

[[वर्गः:संस्कृतगीतिकाव्यम्]]
"https://sa.wikipedia.org/wiki/गीतगोविन्दम्" इत्यस्माद् प्रतिप्राप्तम्