"एच् डी देवे गौडा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
देवेगौड: डिप्लोमा इञ्जिनियर् भूत्वा उद्योगं कुर्वन् अपि कृषिकार्ये स्वस्य आसक्तिं रक्षितवान् आसीत् । एष: स्वस्य कुटुम्बस्य क्षेत्रम् उत्तमं कर्तुं बहु प्रयत्नं क्रतवान् । सर्वकारीयोद्योगतः प्राप्तं लाभं नारीकेलवाटिकायाः निर्माणाय व्ययितवान् । विद्यावान् एष: सर्वकाकारीयकार्यालये कार्यं कुर्वन् आनन्देन भवितुं शक्यते स्म किन्तु एष: क्षेत्रे, नारीकेलवाटिकायां च कार्यं कुर्वन् '''मण्णिन मग''' (मृत्तिकाया: पुत्र:) इति नाम प्राप्तवान् ।
==राजनैतिकक्षेत्रप्रवेशः कार्याणि च==
उद्योगप्राप्तेः अग्रिमे वर्षे तन्नाम १९५४तमे वर्षे मे मासे हासनस्य मुत्तिगे ग्रामस्य प्रमुखस्य पुत्र्या चेन्नम्मया सह विवाह: अभवत् । चेन्नम्मा दैवभक्ता सद्गृहिणी च । १९६२ तमे वर्षे राज्यस्य निर्वाचनम् आसीत् । तदा देवेगौडस्य राजनैतिकक्षेत्रीयगुरु: ए. जि. रामचन्द्रराय: होळेनरसीपुरक्षेत्रस्य अभ्यर्थी आसीत् । वय: अधिकः जात: इत्यतः स: स्वस्य आत्मीयः शिष्य: देवेगौड: अभ्यर्थी भवतु इति चिन्तितवान् । किन्तु काङ्ग्रेस्-वरिष्ठा: इदं न इष्टवन्त:। अत: देवेगौड: पक्षेतर-अभ्यर्थी भूत्वा विजयं प्राप्तवान् । १९६२ तमे वर्षे देवेगौड: प्रथम वारं रज्यसभाया: कृते चितः अभवत् । तदा स्वस्य निर्भीतभाषणैः सवेर्षाम् अवधानम् आकृष्टवान् आसीत् । हारङ्गी-योजना, लघु-नीरावरीयोजना, हासन-मङ्गळूरुरैलमार्ग:, ग्रामीणगृहयोजना इत्यादीषु तस्य योगदानं महत्त्वयुतम् आसीत् । १९६७ तमे वर्षे हेमावतीयोजनायाः कार्यान्वयने तस्य विशेषपरिश्रमः आसीत् । अग्रे १८८३१९८३ तमे वर्षे हेमावतीयोजनां हासनं, मैसूर्, मण्ड्या, तुमकूर् जनपदेषु विस्तारितवान् ।<br />
देवेगौड: स्वस्य राजकीयगुरोः ए. जि. रामचन्द्ररायस्य नाम हेमावतीजलाशयस्य तीराय स्थापितवान् । तथैव हासनजनपदस्य जेष्ठस्वातन्त्र्ययोधस्य प्रसिद्धलेखकस्य गोरूरुरामस्वामी अय्यङ्गारस्य नाम दक्षिणतीराय स्थापयित्वा तयो: नामं शाश्वतं कृतवान् । जलसम्पदः विषये विशेषास्थावान् सः कृष्णानदीजलाशययोजना: समापयितुं 'कृष्णजलभाग्यनिधिं' स्थापितवान् । यदा देवेगौड: १९९२ तमे वर्षे लोकसभासदस्य: आसीत् जलवितरणविवादविषये अध्ययनं कृत्वा केन्द्रसर्वकारस्य नायकान् चकितान् अकारयत् ।
१९९१ तमे वर्षे लोकसभानिर्वाचनम् अभवत् । तदा देवेगौड: हासनलोकसभाक्षेत्रस्य परतया समाजवादीजनतादलस्य अभ्यर्थी सन् स्पर्धायां विजयं प्राप्तवान् । प्रथमवारं लोकसभां प्रविष्टवान् । १९९३ तमे वर्षे जनतादल-समाजवादीजनतादलपक्षयो: विलीनं जातम् । नूतनस्य पक्षस्य अध्यक्षरूपेण एषः चितः जातः ।<br />
"https://sa.wikipedia.org/wiki/एच्_डी_देवे_गौडा" इत्यस्माद् प्रतिप्राप्तम्