"कूचिपुडी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Kuchipudi Mihira Pathuri .jpg|200px|thumb|'''कूचिपुडिनृत्यभङ्गी''']]
आन्ध्रप्रदेशराज्ये कृष्णमण्डले [[कुचिपुडीग्रामः|कुचिपुडी]] इति ग्रामः अपि अस्ति ।
[[File:Kuchipudi Dance Uma Muralikrishna.jpg|right|thumb|300px|बेङ्गलूरुनगरे नृत्यप्रदर्शनम् - उमा मुरलीकृष्णः च ]]
==प्रवेशः==
अयं [[भारतम्|भारतस्य]] शास्त्रीयनृत्यभेदेषु अन्यतमा । '''कूचिपुडी पदम् आङ्ग्लम् - Kuchipudi, తెలుగు : కూచిపూడి '''
Line ८ ⟶ ७:
==प्रदर्शनम्==
कूचिपुडीनृत्यप्रदर्शनं रङ्गमञ्चे कैश्चनकलापैः सह आरभ्यते । प्रत्येकं नृत्यपटुः अपि वेदिकामागत्य गीतनृत्यादिभिः एव स्वपरिचयं श्रावयति । अनेन नृत्यनाटिकायाः कलाकारस्य तस्य पात्रस्य च सन्निवेशानां परिचयः सहृदयाणां भवति । नृत्यार्थं गीतगानेन सह [[कर्णाटकसङ्गीतम्|कर्णाटकशास्त्रीयसङ्गीतस्य]] शैल्या बाद्योपकरणानि नादयन्ति । [[मृदङ्गम्]], [[बाहुलीना]] (वयोलिन्), [[वेणुवाद्यम्|वेणुः]], [[तम्बूरः]] मन्द्रतन्त्री इत्यादीनां वाद्यानां सहयोगः अपि भवति । कलाविदः ''बुरुगु '' इति काष्टनिर्मिताभरणानि धरन्ति ।
[[File:Kumari._Aparna_Krovvidi.JPG|thumb|200px|right|राजमहेन्द्रिमूलस्य राष्ट्रस्तरस्य कूचिपुडीकलावती अपर्णा क्रोव्विडि]]
 
==शैली==
कूचिपुडीनृत्यस्य चलनं वेगगतौ भवति । पृष्टभूमौ कर्णटकसङ्गीतस्य वाद्यानां सहयोगः भवति एव । अस्मिन् नृत्ये [[भरतनाट्यम्|भारतस्नाट्यस्य]] केचन अंशाः अत्र सम्मिलिताः । अस्य प्रदर्शनस्य कूचिपुडीगानेषु [[जतिस्वरः]] [[तिल्लानः]] च भवतः । नृत्यस्य गीतेषु कश्चित् भक्तः भगवति लीनः भवितुम् इच्छति इति भागः भवति । कूचिपुडीभरतनाट्ययोः पादन्यासेषु शैली भिन्ना भवति । कूचिपुडीनृत्यकलायाम् अपूर्वाणि विशिष्टानि नृत्यरूपाणि सन्ति । अत्र विशेषेण ’तरङ्गम्’ इति प्रकारः अस्ति । अत्र नर्तकः/नर्तिका पित्तलस्य स्थालिकायाः धारायां स्थित्वा स्थालिकां भ्रामयन् नृत्यं करोति । एतादृशनृत्यावसरे हस्तयोः तैलदीपौ शिरसि जलकलशः च भवन्ति । उभयरूपस्य नृत्ययोः वस्त्रविन्यासे सूक्ष्मः व्यत्यासः अस्ति । सामान्यतः भरतनृत्यस्य वेशभूषायां दीर्घाणि त्रिपुटानि भवन्ति । शाटिकायाः पुटानि वितृतानि इव दृश्यन्ते । किन्तु कूचिपुडीनृत्यप्राकारस्य विशभूषायां केवलम् एकमेवपुटं दीर्घं च भवति । पौनपुन्येन कूचिपुडीनृत्यप्रकारे विंशतितमं करणम् उपयोजयन्ति । अत्र षट् प्रभेदाः भवन्ति । कूचिपुडी कलाविदः 'चौक' 'कट्टरनडु' 'कुप्पि अडगु' 'ओण्टडवु' 'जरडुवु' 'पक्कनाटु' इत्यादीनाम् उपयोगं कुर्वन्ति ।
 
[[File:An.JPG|thumb|200px|right|ख्याता कूचिपुडीकलावती वि.अञ्जनादेवी ।]]
==चलनं सङ्गीतं च==
कूचिपुडीकलाविदः गीतानाम् अनुगुणम् चित्ताकर्षकेण भवाभिनयेन त्वरितकटाक्षेण मुखविन्यासेन च रसभावान् निरूपयन्ति । तरङ्गे नृत्यकारः जलकलशं शिरसि संस्थाप्य पित्तलस्थालिकायाः धारायां स्थित्वा नृत्यति । पृष्ठभूमेः गानं सर्वजनपरिचितस्य कृष्णलीलातरङ्गिणीग्रन्थतः उद्धृतं भवति । इयं सन्निवेशः श्रीकृष्णस्य जीवनम् अवतारान् च निरूपयति । सगाननृत्येषु कलाकारः भामाकलापम् इति नृत्यनाटिकासु श्रीकृष्णस्य राज्ञ्याः सत्यभामायाः पात्रं निरूपयन्ति । सत्यभामा प्रेमालापस्य विविधश्रेणिषु सञ्चलति । कूचिपुडीनृत्यप्रकारे कृष्णशब्दम् इति किञ्चित् गीतम् उल्लेखनीयम् अस्ति यत्र क्षिरविक्रयणस्य गोपिका विविधरीत्या कृष्णम् आह्वयति । अत्र नृत्याङ्गनाः अत्याकर्षकं नृत्यं निरूपायन्ति ।
Line ५३ ⟶ ५१:
 
== गिन्निस् विश्वाभिलेखं निर्मातरः कलाविदः==
द्विशताधिकाः नृत्यगुरवः २८००सङ्ख्याकाः कूचिपुडीकलाविदः क्रि.श.२०१०तमे वर्षे डिसेम्बरमासस्य २६दिनाङ्के [[हैदराबाद्]] (भाग्यनगरे) जि.एम्.सि.बालयोगी क्रीडाङ्गणे हिन्दोलं तिल्लाना नृत्यप्रदर्शनं कृत्वा विश्वस्य गिन्निस् अभिलेखं निर्मितवन्तः ।कूचिपुडीनृत्यनिदेशकस्य कार्याणि प्रशंसितुम् । समग्रभारतस्य सर्वराज्येभ्यः १५देशेभ्यः च आगताः नृत्यकलाविदः भागमूढवन्तः । अन्ताराष्ट्रियकूचिपुडीमहासम्मेलनस्य अङ्गतया ११निवेषाणां नृत्यकार्यक्रमः सञ्चालितः । कुचिपुडीनृत्यपरिणताः [[वेम्पटि चिन्नसत्यम्]], [[यामिनी कृष्णमूर्तिः]] [[राजा रेड्डिः]] [[राधा रेड्डिः]] शोभा नायिदु च राष्ट्रपतिपुरस्कारं प्राप्तवन्तः ।
[[File:Kuchipudi_Dec_26th_2010.jpg|thumb|200px|right|गिन्निस् विश्वाभिलेखस्य नृत्यप्रदर्शनं कुर्वन्तः कलाविदः ।]]
कुचिपुडीनृत्यपरिणताः [[वेम्पटि चिन्नसत्यम्]], [[यामिनी कृष्णमूर्तिः]] [[राजा रेड्डिः]] [[राधा रेड्डिः]] शोभा नायिदु च राष्ट्रपतिपुरस्कारं प्राप्तवन्तः ।
 
==उल्लेखाः==
Line ६५ ⟶ ६१:
<gallery>
File:Guru Bharani Shenkar.jpg|राष्ट्रस्तरस्य कूचिपुडिगुरुः नृयकलातपस्वी गुरुः पि.वि.भरणि शङ्करः ।
[[File:Kuchipudi Dance Uma Muralikrishna.jpg|right|thumb|300px|बेङ्गलूरुनगरे नृत्यप्रदर्शनम् - उमा मुरलीकृष्णः च ]]च।
[[File:Kumari._Aparna_Krovvidi.JPG|thumb|200px|right|राजमहेन्द्रिमूलस्य राष्ट्रस्तरस्य कूचिपुडीकलावती अपर्णा क्रोव्विडि]]
[[File:An.JPG|thumb|200px|right|ख्याता कूचिपुडीकलावती वि.अञ्जनादेवी ।]]
[[File:Kuchipudi_Dec_26th_2010.jpg|thumb|200px|right|गिन्निस् विश्वाभिलेखस्य नृत्यप्रदर्शनं कुर्वन्तः कलाविदः ।]]
File:Kuchipudi Dec 26th 2010.jpg|कूचिपुडीसमूहनृत्यस्य महिलागणः ।
File:Flickr - dalbera - Deepika Reddy et ses musiciens.jpg|पार्षदसङ्गीतज्ञैः सह दीपिका रेड्डिः ।
File:Kuchipudi.jpg|राधाकृष्णनृत्यम् ।
 
</gallery>
 
"https://sa.wikipedia.org/wiki/कूचिपुडी" इत्यस्माद् प्रतिप्राप्तम्