"१८८४" इत्यस्य संस्करणे भेदः

'''१८८४''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०४:५१, २३ फेब्रवरी २०१२ इत्यस्य संस्करणं

१८८४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे ईलि मेच्निकाफ् नामकः "ब्याक्टीरिया" इत्याख्यानां सूक्ष्मजीविनां अवरोधे शरीरे विद्यमानानां श्वेतरक्तकणानां पात्रं विवृणोत् ।


अस्मिन् वर्षे हैडल्बर्ग इति प्रदेशे जोसेफ् ब्रेट्जार् नामकः वैद्यः स्वीये वैद्यालये नेत्रस्य शस्त्रचिकित्सायां "कोकन्" इत्येतं वेदनानिवारकत्वेन प्रथमवारम् उपयुक्तवान् ।


अस्मिन् वर्षे भारतस्य प्रसिद्धः स्वातन्त्र्ययोद्धा, शिक्षणतज्ञः, न्यायवादी मदनमोहन मालवीयः कोलकताकलाशालातः स्नातकपदवीं प्राप्नोत् ।


अस्मिन् वर्षे भारतस्य महापुरुषेषु अन्यतमः, दार्शनिकः, तत्त्वज्ञानी स्वामी विवेकानन्दः स्नातकपरीक्षाम् (बि ए) उत्तीर्णवान् ।


जन्मानि

अस्मिन् वर्षे कन्नडस्य महान् हास्यनाटककारः, हास्यनाटकसाहितिः टी पी कैलासम् इत्येषः जन्म प्राप्नोत् ।

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य ३ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य तुमकूरुमण्डलस्य "सम्पिगे" इति ग्रामे 'कन्नडस्य कण्वः' इत्येव प्रसिद्धः बि. यम्. श्रीकण्ठय्यः जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे अक्टोबर्-मासस्य ४ दिनाङ्के कन्नडस्य प्रसिद्धः साहितिः हुयिलगोळ नारायणरायः जन्म प्राप्नोत् ।


अस्मिन् वर्षे डिसेम्बर्-मासस्य ३ दिनाङ्के भारतस्य प्रथमः राष्ट्रपतिः, भारतरत्नविभूषितः, स्वातन्त्र्ययोद्धा, आधुनिकन्ययशास्त्रज्ञः च डा बाबु राजेन्द्रप्रसादः बिहारराज्ये सारनमण्डले जन्म प्राप्नोत् ।


निधनानि

जनवरी-मार्च्

अस्मिन् वर्षे जनवरिमासस्य ६ दिनाङ्के आनुवंशीयनियमं निरूपितवान् जीवविज्ञानी ग्रिगोर् जान् मेण्डेल् इहलोकम् अत्यजत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८८४&oldid=182669" इत्यस्माद् प्रतिप्राप्तम्