"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७:
भारते प्रागैतिहासिके काले " नाट्यवेदः" द्वादशसहस्रश्लोकात्मकः बृहद्गात्रः प्रसिद्धिं गतः, उपलब्धश्च आसिदिति ज्ञायते । क्रिस्तात् पूर्वस्मिन् सहस्राब्दे भरतमुनिना पुरातननाट्यवेदात् सारमुद्धृत्य षट्सहस्रैः श्लोकैः नाट्यशास्त्रं निबद्धम् । शास्त्रमिदं न केवलं रङ्गकर्मनिर्देशने प्रवृत्तम्, नृत्य-गीत-वाद्य-साहित्यादीनां कलामूलानां सर्वशास्त्राणामपि महोपकारकं वर्तते । सङीतादिशास्त्रग्रन्थाः एतच्छास्त्रम् अनूद्य एव प्रवृत्ताः इति न सन्देहः ।
==कालः==
णाट्यशास्त्रस्यनाट्यशास्त्रस्य रचनाकालः कः इति खचिततया न विद्मः । किन्तु पाणिनेः [[अष्टाध्यायी]]ग्रन्थे '''पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।४/३/११०''' इति सूत्रे नटसूत्रत्वेन उपनि९बद्धः कोऽपि सूत्रात्मकः प्राचीनः ग्रन्थ आसीदिति ऊहितुं शक्यते । तत्सूत्राणाम् आधारेणैव भरतमुनिना पाणिनेः अर्वाचीने काले "नाट्यशास्त्रम्" व्यरच्यतेति निश्चिनुमः । पाणिनेः कालस्तु क्रि.पू. ७मम् शतमानम् इति विदुषां मतम् । अतः भरतमुनेः कालः क्रि.पू.५मम् शतमानम् इत्यनुमीयते ।
 
[[वर्गः:परिशीलनीयानि| हिन्दी]]
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्