"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः ११:
:न स योगो न तत् कर्म यन्नाट्येऽस्मिन्न दृश्यते ॥ ना.शा.१/११६
एवम् सर्वाः सिक्षाः, सर्वाणि शिल्पानि, लौकिकाः कलाः, विद्याः, सकलविधं च कर्म नाट्ये दृश्यरूपेण प्रदर्शयितुं शक्यते इति भावः । नाट्यम् आबालब्रह्मपर्यन्तम् '''रससरस्सन्निभम्''' लोकान् रञ्जयति इत्यर्थः । एतस्मात् ज्ञायते यत्, भरतमुनिकृतं नाट्यशास्त्रमिदम् सर्वजनपदकलाशास्त्राणां मूलाधारमिति नात्युक्तिः । यतः श्रीमता आनन्दवर्धनेन [[ध्वन्यालोकः]] इति साहित्यशास्त्रस्य यः लक्षणग्रन्थः रचितः, तत्र ’ध्वनि’लक्षणं लक्षयति यथा- "'''अनुरणनं ध्वनिः'''" इति । ’अनुरणनं नाम नाट्यम् इत्यर्थः । आचार्यः [[मम्मटः]] स्वीये काव्यलक्षणग्रन्थे [[काव्यप्रकाशः]] नाम्नि भरतमुनिकृतात् नाट्यशास्त्रादेव कारिकाः समुद्धृत्य ग्रन्थम् आरचितवान् । तथा च [[दण्डी]] निजकृतौ "काव्यादर्शे"ऽपि भरतनाट्यशास्त्रीयान् श्लोकन् उपायुनक् । एवं च यथा '''काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्'''
इति लोकोक्तिः विद्यते तथैव "नाट्यशास्त्रमिदं '''सकलकलाशस्त्रोपकारकम्''' इत्युक्ते नातिभाषितम् भवेत् ।
 
==कालः==
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्