"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः १४:
:न तच्छ्रुतं न तच्छिल्पं न सा विद्या न सा कला ।
:न स योगो न तत् कर्म यन्नाट्येऽस्मिन्न दृश्यते ॥ ना.शा.१/११६
एवम् सर्वाः सिक्षाः, सर्वाणि शिल्पानि, लौकिकाः कलाः, विद्याः, सकलविधं च कर्म नाट्ये दृश्यरूपेण प्रदर्शयितुं शक्यते इति भावः । नाट्यम् आबालब्रह्मपर्यन्तम् '''रससरस्सन्निभम्''' लोकान् रञ्जयति इत्यर्थः । एतस्मात् ज्ञायते यत्, भरतमुनिकृतं नाट्यशास्त्रमिदम् सर्वजनपदकलाशास्त्राणां मूलाधारमिति नात्युक्तिः । यतःभरतादपि पूर्वस्मिन् काले [[कोहलः]] [[दत्तिलः]] नाट्यशास्त्रग्रन्थान् रचयामासुरिति श्रूयते । तत्र द्त्तिलस्य ग्रन्थनाम "द्त्तिलम्" इति । ततः श्रीमता आनन्दवर्धनेन [[ध्वन्यालोकः]] इति साहित्यशास्त्रस्य यः लक्षणग्रन्थः रचितः, तत्र ’ध्वनि’लक्षणं लक्षयति यथा- "'''अनुरणनं ध्वनिः'''" इति । ’अनुरणनं नाम नाट्यम् इत्यर्थः । आचार्यः [[मम्मटः]] स्वीये काव्यलक्षणग्रन्थे [[काव्यप्रकाशः]] नाम्नि भरतमुनिकृतात् नाट्यशास्त्रादेव कारिकाः समुद्धृत्य ग्रन्थम् आरचितवान् । तथा च [[दण्डी]] निजकृतौ "काव्यादर्शे"ऽपि भरतनाट्यशास्त्रीयान् श्लोकन् उपायुनक् । एवं च यथा '''काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्'''
इति लोकोक्तिः विद्यते तथैव नाट्यशास्त्रमिदं '''सकलकलाशास्त्रोपकारकम्''' इत्युक्ते नातिभाषितम् भवेत् ।
 
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्