"शिक्षकदिनम् (भारतम्)" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (2) using AWB
No edit summary
पङ्क्तिः ६:
शिक्षकदिवसस्य आचरणम् एकस्य व्यक्तेः जन्मोत्सवः न , किन्तु सर्वभारतीयशिक्षकाणां जन्मोत्सवः इव आत्मावलोकनार्हः दिवसः। समग्रविद्यार्थिनां शारीररकमानासिकबौद्धिकविकासकार्यप्रोत्साहकः पर्वविशेषः अस्ति ।
'''[[सर्वपल्ली राधाकृष्णन्]]''' (१८८८-१९७५) भारतवर्षस्य विख्यातः तत्त्वशास्त्रज्ञः गौरवान्वितः राजनीतिज्ञः च आसीत् । सः भारतस्य द्वितीयः राष्ट्रपति: आसीत्। सः भारतीयदर्शनानां पाश्‍चात्‍यदर्शनानां च महान्‌ पण्‍डित: आसीत्‌ । सः अनेकानि वर्षाणि यावत् शिक्षकः सन् सः आदर्शशिक्षकः इति प्रसिद्धः आसीत् । अत एव भारतीया: तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति ।
== जननं, बाल्यं, शिक्षणञ्च ==
सर्वपल्ली राधाकृष्णन् महोदयः दक्षिणभारतस्य तमिळनाडुराज्यस्य तिरुत्तणीनामके मण्डले १८८८ तमस्य वर्षस्य सेप्टेम्बर्मासस्य पञ्चमे दिनाङ्के जनिम् अलभत । सर्वपल्ली इति तस्य कुलस्य नाम इति प्रतीयते। राधाकृष्णन् इति पितृभ्यां प्रेम्णा नामकरणं कृतम् आसीत्। तस्य पिता सर्वपल्ली वीरस्वामी, क्षेत्राधिपते: सकाशे दैनिकवेतनाश्रित: कर्मकरो भूत्वा कार्यं कुर्वन् पुत्रस्य सर्वविधश्रेयसे कारणीभूत: अभवत् । यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुम्बभरणार्थं अतिक्लेशम् अनुभवति स्म तदा एव अयं बाल: राधाकृष्ण: पठने उत्सुक: आसीत् । शिष्यवेतनेनैव प्राथमिकं तथा प्रौढशिक्षणं समाप्य मड्रास्(इदानीन्तनं चेन्नै) क्रिश्चियन् कलाशालायां तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीं च सम्पादितवान् । स्नातकोत्तरपदव्यां तेन मण्डित: ”दि एथिक्स् आफ् वेदान्त” प्रबन्ध: तस्य जीवनदिशम् एव पर्यवर्तयत् । विंशतिवर्षीयस्य युवकस्य प्रतिभां, विभिन्नान् सिद्धांतान्, ज्ञानं, वेदान्तविचारान् च समीक्ष्य 'भविष्ये एषः श्रेष्ठस्थानं प्राप्स्यति' इति तेषां कलाशालाया: अध्यापका: परस्परं वदन्ति स्म ।
"https://sa.wikipedia.org/wiki/शिक्षकदिनम्_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्