"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
भारते प्रागैतिहासिके काले " नाट्यवेदः" द्वादशसहस्रश्लोकात्मकः बृहद्गात्रः प्रसिद्धिं गतः, उपलब्धश्च आसिदिति ज्ञायते । क्रिस्तात् पूर्वस्मिन् सहस्राब्दे भरतमुनिना पुरातननाट्यवेदात् सारमुद्धृत्य षट्सहस्रैः श्लोकैः नाट्यशास्त्रं निबद्धम् । शास्त्रमिदं न केवलं रङ्गकर्मनिर्देशने प्रवृत्तम्, नृत्य-गीत-वाद्य-साहित्यादीनां कलामूलानां सर्वशास्त्राणामपि महोपकारकं वर्तते । सङीतादिशास्त्रग्रन्थाः एतच्छास्त्रम् अनूद्य एव प्रवृत्ताः इति न सन्देहः ।
==रसो वै सः==
शृङ्गारादीनां रसानाम् अभिव्यञ्जनपराणां समेषां शास्त्रग्रन्थानाम् आधारभूतं प्रामाणिकं च शास्त्रं भारतमुनिकृतं ’नाट्यशास्त्रम्’ । अत्र आदौ पञ्चसु अध्यायेषु क्रमेण १)नाट्योत्पत्तिः २)मण्टपविधानम् ३)रङ्गदैवतपूजाविधानम् ४)ताण्डवलक्षणम् ५)पूर्वरङ्गविधानम् इति विषयान् सविस्तरं विविच्य भरतः षष्ठेऽध्याये रसान् आमूलाग्रम् निरूपयति । अस्मिन्नध्याये नारदादयः भरतमुनिमुद्दिश्य रसभावसम्बद्धान् पञ्च प्रश्नान् पृच्छन्ति । ततः भरतः तान् प्रश्नान् उत्तरन् रसः, भावः, अभिनयः, धर्मी, वृत्तिः, प्रवृत्तिः, सिद्धिः, स्वरः, आतोद्यम्, गानम्, रङ्गं च व्यवृणोत् । ततः शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुतरसान् च अष्टौ रसान् नाट्योपयुक्तान् न्यरूपयत् । नाट्ये रसनिष्पत्तिहेतून् भावादीनभीधाय ततः वदति यत्-
:'''तत्र रसानेव तावदादौ अभिव्याख्यास्यामः॥''' इति प्रतिज्ञाप्य,
:'''न हि रसादृते कश्चिदर्थः प्रवर्तते ।''' इति वदन् नाट्येषु रसम् ऋते अर्थ एव नास्तीति निर्वचनं करोति। तदनन्तरम् "रससूत्रम्" एवमभिधत्ते ।
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्