"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६:
एवं रससूत्रनिर्माणानन्तरं शास्त्रकारः '''"को द्ष्टान्तः?"''' इति स्वयमेव पृच्छामुद्घाट्य, अग्रे विवृणोति यथा -
:यथा हि गुडादिभिः द्रव्यैः व्यञ्जनैः औषधिभिश्च षाडवादयो रसाः निर्वर्त्यन्ते, तथा नाना भावोपगता अपि स्थायिनः भावाः रसत्वम् आप्नुवन्ति ।
इति । अस्यायमाशयः, अत्र द्ष्टान्ते विभावादीनां विवेचना प्रसिद्धैः गुडादिभिः निरूप्यते । अत्र गुडादयः षट् रसपदार्थाः विभावः, अनुभावः, सञ्चारिभावश्च इति ज्ञेयम् । जलं स्थायिभाव इति कल्पनीयम् । एवं च स्थायिभावेन विभावादीनां सम्मेलनं रसोत्पत्तिकारणम् । रोसोत्पत्यनन्तरंरसोत्पत्यनन्तरं भोक्तॄणामिव प्रेक्षकाणां सामाजिकानां आनन्दानुभूतिः, रसास्वादश्च भवति । अतो भारतोऽभिदधातिभरतोऽभिदधाति -
:'''आस्वादयोग्यः पदार्थसंयोग एव रसः''' इति ।
बुभुक्षितः जनः यथा मधुरादिभी रसैः मिश्रम् अन्नम् आस्वाद्य आनन्दम् अनुभवति, तथा सहृदयः नाट्येषु पात्राणाम् (रामादीनाम्) आङ्गिकैः, आहार्यैः, वाग्व्यापारैश्च सुखे दुःखे विस्मयादिषु च तादात्म्येन आनन्दमनुभवति । सामान्यतः श्र्व्येषु खाव्येषु स्वयम् अप्रवृत्तानां स्थायिभावरहितानाम् अरसिकानामपि हृद्येषु स्थायिभावस्य जागरणं नाट्येन कर्तुं शक्यते । अत्र नटः आख्यायिकापुरुषस्य स्वभावाभिनयेन गम्यः स्थायिभावः, (द्रष्टरि च विद्यमानः) चमत्कारेण रसत्वं प्राप्नोति । नटे (रामादौ) स्थायिभावोऽस्त्येव इति प्रेक्षकः भावयति। एवम्द्वयोः समानतया उत्पन्नः स्थायिभाव एव रसनिष्पत्तिपर्यन्तम् निरन्तरः, अविच्छिन्नधारया स्यन्दमानः रसात्मतया परिणमति । इममेव विषयम् "अभिनवगुप्तः" अभिनवभारत्यां व्याख्ख्यायां व्याचष्टे । यथा -
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्