"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३६:
:न तच्छ्रुतं न तच्छिल्पं न सा विद्या न सा कला ।
:न स योगो न तत् कर्म यन्नाट्येऽस्मिन्न दृश्यते ॥ ना.शा.१/११६
एवम् सर्वाः सिक्षाः, सर्वाणि शिल्पानि, लौकिकाः कलाः, विद्याः, सकलविधं च कर्म नाट्ये दृश्यरूपेण प्रदर्शयितुं शक्यते इति भावः । नाट्यम् आबालब्रह्मपर्यन्तम् '''रससरस्सन्निभम्''' लोकान् रञ्जयति इत्यर्थः । एतस्मात् ज्ञायते यत्, भरतमुनिकृतं नाट्यशास्त्रमिदम् सर्वजनपदकलाशास्त्राणां मूलाधारमिति नात्युक्तिः । भरतादपि पूर्वस्मिन् काले [[कोहलः]] [[दत्तिलः]] नाट्यशास्त्रग्रन्थान् रचयामासतुरिति श्रूयते । तत्र दत्तिलस्य ग्रन्थनाम "दत्तिलम्" इति । ततः श्रीमता आनन्दवर्धनेन [[ध्वन्यालोकः]] इति साहित्यशास्त्रस्य यः लक्षणग्रन्थः रचितः, तत्र ’ध्वनि’लक्षणं लक्षयति यथा- "'''अनुरणनं ध्वनिः'''" इति । ’अनुरणनं नाम नाट्यम् इत्यर्थः । आचार्यः [[मम्मटः]] स्वीये काव्यलक्षणग्रन्थे [[काव्यप्रकाशः]] नाम्नि भरतमुनिकृतात् नाट्यशास्त्रादेव कारिकाः समुद्धृत्य ग्रन्थम् आरचितवान् । तथा च [[दण्डी]] निजकृतौ "काव्यादर्शे"ऽपि भरतनाट्यशास्त्रीयान् श्लोकन् उपायुनक् । भरतकृतनाट्यशास्त्रे षाष्ठतमाध्यायगतां रसनिष्पत्तिप्रक्रियां विशदयितुं प्रयतितव्त्सु व्याख्यानकर्तृषु [[अभिनवगुप्तः]] प्रमुखः । अभिनवगुप्तस्य व्याख्यानग्रन्थस्य नाम '''"अभिनवभारती"''' इति । [[भट्टतौतः]] नाम कश्चन लाक्षणिकः काव्यस्य रसास्वादविषये नाट्यशास्त्रम् आधारीकृत्य [[काव्यकौतुकम्]] नामकं ग्रन्थं रचितवान् । तथा च नाट्यशास्त्राधारितेषु ग्रन्थेषु ३यशतमाने ख्यातः [[नन्दितः]] नामा अभिनयदर्पणम् नाम ग्र्न्थं व्यरचयत् । एवम् सोमनार्यः नाट्यचूडामणिम्, रामचन्द्रगुणाचार्यः नाट्यसर्पणम्, अशोकमल्लः नृत्याध्यायम्, जयसेनः नृत्यरत्नावलिम्, नान्यदेवः भरतभाष्यम्, अल्लराजः रसतत्वसमुच्चयम्, श्रीकण्ठकविः रसकौमुदीम्, अन्ये च अनेके नाट्येषु, नाट्यभेदेषु, देशीसङ्गीतेषु, राग-ताल-भावादिविषयेषु नाना कलाविषयेषु च भरतस्य "नाट्यशास्त्रात्" सामग्रीः सम्पाद्य एव लिलेखुः इत्यत्र नास्ति सन्देहलेशः । इदमपि ज्ञेयम् यत् पूर्वम् नाट्यस्य '''शिल्पम्''' इति नाम आसीत् । अतः [[शिल्पशास्त्रम्]] अथवा '''स्थापत्यशास्त्रम्''' अपि भारतनाट्यशास्त्रम्नुकृत्यभारतनाट्यशास्त्रमनुकृत्य एव समैधत इति भाव्यम् । एवं च यथा '''काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्''' इति लोकोक्तिः विद्यते तथैव नाट्यशास्त्रमिदं '''सकलकलाशास्त्रोपकारकम्''' इत्युक्ते नातिभाषितम् भवेत् ।
 
==कालः==
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्