"जगन्नाथदासः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
'''जगन्नाथदासः''' [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुमण्डलस्य]] मान्वी उपमण्डले बागवट्टीग्रामः शा.श १६४९ (क्रि.श. १७२७ )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्पराया प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः नरसिंहाचार्यः जगन्नाथदासस्य पिता, लक्ष्मीबायी माता । पूर्वाश्रमे अस्य नाम श्रीनिवासाचार्यः इति । दम्पत्योः एकाकी पुत्रः चेदपि गार्हस्थ्याश्रमं नाश्रितवान् इति वदन्ति । [[वरदेन्द्रतीर्थः]] [[गोपालदासः]] च अस्य गुरू अस्ताम् इति श्रूयते । जगन्नाथदासस्य पद्येषु जगन्नाथविठल इति अङ्कितं भवति । [[चन्द्राभागा]] नद्यां प्राप्तफलकैः अयं विषयः दृढीकृतः । दासवर्गे एषः सुप्रसिद्धः, महाविद्वान् च । भगवद्गीता, ब्रह्मसूत्रम्, दशोपनिषत् इत्यादिनां व्याख्यानं लिखितवान् । एतेन लिखिते हरिकथामृतसारः इत्येतस्मिन् कन्नडग्रन्थे मध्वमतस्य तत्त्वं दृश्यते । एतान् विहाय अन्यानि कीर्तनानि, पद्यानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. १८०९) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पुसुल्तानस्य यः दिवानः आसीत् तस्य [[पूर्णय्यः|पूर्णय्यस्य]] आदरभाक् आसीत् । मान्वी मध्ये एव जगन्नाथदास्य स्मारिका बृन्दावनं निर्मितम् अस्ति ।
==कृतयः==
 
एतावति काले तस्य लब्धाः कृतयः २०७ हरिकीर्तनानि, २उगाभोगौ, ३सुळादयः, हरिकथामृतसारः इति मध्वशास्त्रग्रन्थः च। चरणश्लोकः जलज्येष्टनिभाकारं जगदीश पदाश्रयम् । जगतीतलविख्यातं जगन्नाथं गुरुं बजे ॥ अस्य प्रसिद्धकृतौ हरिकथामृतसारे ३२ सन्धयः सन्ति । कन्नडास्य प्रसिद्धे छन्दसि भामिनीषट्पदीवृत्ते लिखितः अस्ति । हरिकथामृतसरस्य रचनाकाले घटिता काचित् घटना एवमस्ति । तस्य कृतिरचनावसरे २८सन्धयः अनायासेन रचिताः अग्रे नेतुं कष्टम् अभवत् । तदा तस्य गुरुः [[गोपालदासः]] सूचितवान् यत् तस्मिन् काव्ये आरम्भे भगवतः गणपतेः स्तोत्रं न योजितं अतः एवम् अभवत् इति । तदनन्तरं २८तमं सन्धिं विघ्नेश्वरसन्धिः इति नामाङ्कितं कृत्वा समर्पितवान् । तदनन्तरं ३२सन्धयः समापिताः ।
== हरिकीर्तनम् ==
<poem>
"https://sa.wikipedia.org/wiki/जगन्नाथदासः" इत्यस्माद् प्रतिप्राप्तम्