"भारविः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
कौशिकगोत्रोत्पत्रस्य नारायणस्वामिनः पुत्रो भारविः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः परतश्च ते नासिकनामकं दक्षिणभारतनग्रमायाताः । एकदा स्वसमसामयिकेन राजकुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषेवे, यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंहविष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।
==परिचयः==
भारवेः जन्मनाम दामोदरः । एतस्य पिता नारायणस्वामी । दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् । एषः गङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चित् कालम् आसीत् इत्यपि ज्ञायते । क्रि श षष्ठे शतके भारविः आसीत् ।
'[[किरातार्जुनीयं]]' भारवेः सुविख्यातं काव्यम् । महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति ।
 
विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः । 'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति ।'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिद्धा । एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन,
भारविः शैव आसीत् । भारविरिति नाम एल्होल् शिलालेखे निम्नलिखितरुपेण प्राप्यते –
वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् ।
:'''येनायोजि न वेश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म ।'''
:'''स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥'''
अयं पुलकेशिनो द्वितीयस्य ६३४ ई. सामयिकः शिलालेखः, अतो भारविस्तत्पूर्वतनः सम्भवति । किञ्च काशिकावृत्तौ भारवे काव्यमुदाहृतं दृश्यते । अपि च स्वहर्षचरिते बाणेन भारविनामास्मरणात् बाणसमयपर्यन्तं भारवेः प्रसिध्दिरजायतेति तर्कयितुं शक्यते ।
अतः भारवेः समयः षष्ठेशवीयशतकं मन्तुं युज्यते । भारवेः किरातार्जुनीयम् शिवार्जुनयुध्दमवलम्ब्य निर्मितं भारवेरेकमेव किरातार्जुनीयाभिधं काव्यं प्राप्यते । अष्टादशसर्गनिबध्देऽत्र महाकाव्ये महाभारताधारकं सुन्दरमुपाख्यानं चित्रितम् । द्यूते पराजितो युधिष्ठिरो भ्रातृभिः पत्न्या च सह द्वैतवने वसति स्म । स दुर्योधनस्य शासनपध्दतिं ज्ञातमेकं वनेचरं गुप्तचररुपेण प्रेषितवान् । सर्वं ज्ञात्वा प्रतिनिवृत्तो वनेचरो दुर्योधनस्य नीतिपूर्णं शासनपध्दतिं युधिष्ठिराय निवेदयामस । भीमद्रौपद्यौ युधिष्टिरं बहूत्तेजयामासतुः परं प्रतिज्ञामुल्लङ्घ्य युधिष्ठरो युध्दार्थं न प्रावर्त्तत । अत्रान्तरे वेदव्यासस्तत्रायातः । स पाशुपतास्त्रमासादयितुमर्जुनं तपस्यार्थमिन्द्रकीलं नाम पर्वतं प्रेषयामास । तपस्यतोऽर्जुनस्य ब्रतभङ्गाय देवबाला आगत्य विफलप्रयासा अभवत् । इन्द्रः स्वयं तदाश्रममागत्य तं प्रोत्साहयामास । अर्जुनस्य तपोबलं परीक्षितुं शिवः किरातवेषमादायागतः । मायावी शुकरोऽर्जुनस्याश्रमपार्श्वेऽदृश्यत । अर्जुनकिरातौ सहैव तत्र शूकरे बाणं प्रचिक्षिपतुः । इदमेव युध्दकारणमजायत । युदध्यमानयोः किरातार्जुनयोर्गाण्डीवी भुजाभ्यामाजध्ने कनकशिलानिभं विषमविलोचनस्य वक्षः । अर्जुनपराक्रमदर्शनतुष्टः शिवोऽर्जुनाय पाशुतास्त्रं ददौ ।
 
==भारवेः काव्यशैली==
भारवेरर्थगौरवं प्रसिध्दम् । अत एव मल्लिनाथोऽपि टीकाप्रारम्भे – नारिकेलफलसम्मितं वचो भारवेरित्याह । बहोरप्यर्थराशेरल्पेन शब्देनाभिधाने भारविरभ्यस्तकौशल इति सर्वेषां विदुषां विचारः । विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः । 'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति ।'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिद्धा । एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन, वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् । । भीमभाषणस्य प्रशंसायां
युधिष्ठिरेण प्रोक्तम् –
:'''स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।'''
:'''रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहतं क्वचित् ॥'''
वस्तुत इयमेवोक्तिर्भारविकवित्वप्रशंसायामप्युपयुज्यते । ऋतूनां जलक्रीडायाश्चन्द्रोदयस्यच वर्णने महती कवित्वप्रतिभा प्रदर्शिता भारविणा । अलङ्काराणां यथावस्रोपन्यासे चित्रकाव्यनिर्माणे च परं साफल्यामासादितमनेन कविवरेण । भारविणा नीतयो निपुणमुपन्यस्ताः –
:'''वरं विरोधोऽपि समं महात्मभिः ।'''
:'''न वञ्चनीयाः प्रभवोऽनुजीविभिः ।'''
:'''हितं मनोहारि च् दुर्लभं वचः ।'''
:'''विश्वसयत्याशु सतां हि योगः ।'''
:'''सुदुर्लभाः सर्वमनोरमा गिरः ।'''
:'''गुरुतां नयन्ति हि गुणा न संहतिः ।'''
:'''गुणाः प्रियत्वेऽधिकृता न संस्तवः।'''
''षाड्गुण्यप्रभवा नीतिर्वंशस्थेन विराजते'' इति क्षेमेन्द्रोक्तिर्वंशस्थोपनिबध्दां भारवेनीतिचर्चामालोक्यैव प्रवृत्ता स्यादिति सम्भाव्यते ।
भारवेः कवितानां समीक्षया ज्ञायते तदस्याभिमानधनताऽऽसीत् । भारविकवितायां तर्कात्मकमोजः प्रबलम् ।
कवित्वनिदर्शनाय कतिचन पद्यान्युद्घ्रियन्ते ।
:'''अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।'''
:'''विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥'''
:'''अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।'''
:'''विमला तव विस्तरे गिरं मतिरादर्श इवाभिलक्ष्यते ॥'''
:'''तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।'''
:'''अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥'''
:'''मृणालिनीनामनुरञ्जितं श्रिया विभिन्नमम्भोजपलाशशोभया ।'''
:'''पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुः खण्डमिवाहिविद्विषः ॥'''
 
==बाह्यसम्पर्कतन्तुः==
[[bn:ভারবি]]
[[nl:Bharavi]]
[[ru:Бхарави]]
[[sv:Bharavi]]
[[te:భారవి]]
 
 
 
 
[[वर्गः:नाटकम्|भारविः]]
"https://sa.wikipedia.org/wiki/भारविः" इत्यस्माद् प्रतिप्राप्तम्