"१९०८" इत्यस्य संस्करणे भेदः

'''१९०८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०६:४६, २९ फेब्रवरी २०१२ इत्यस्य संस्करणं

१९०८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे {सर् सिरिल् बर्ट्]] इत्यस्य नेतृत्वे "आक्स्फर्ड्" मध्ये विश्वे प्रथमवारं "बीने" इत्यनेन निर्मितस्य "बुद्धिमापक"स्य उपयोगेन बुद्धिमापनं कृतम् ।


अम्सिन् वर्षे जर्म्नीदेशीयः रासायनिकचिकित्सायां तज्ञः पाल् एर्लख् नामकः "रोगनिग्रहशक्तेः" अध्ययनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।


अस्मिन् वर्षे क्रीडोत्सवं उडुपचालनक्रीडा प्रविष्टा ।


अस्मिन् वर्षे केनडादेशीयः प्रसिद्धः कृषिविज्ञानी डा. लेस्लि सि. कोल्मन् भारतदेशस्य मैसूरुराज्यस्य (इदानीन्तनं कर्णाटकराज्यम्) कृषिविभागे कीटः तथा शिलीन्ध्रविभागे तज्ञरूपेण नियुक्तः ।


अस्मिन् वर्षे जीवनिरोधकस्य संशोधकः सर् अलेक्साण्डर् प्लेमिङ्ग् वैद्यपदवीं प्राप्नोत् ।


अस्मिन् वर्षे "मनोविज्ञानस्य अध्वर्युः" इत्येव प्रसिद्धस्य सिग्मण्ड् फ़्रुड् इत्यस्य नेतृत्वे प्रथमम् अन्ताराष्ट्रियं मनोविश्लेषणवैद्यानां सम्मेलनं प्राचलत् ।

जन्मानि

अस्मिन् वर्षे भारतस्य स्वातन्त्र्ययोद्धा भारतरत्नविभूषिता अरुणा असफ् अलि पश्चिमबङ्गालराज्ये जन्म प्राप्नोत् ।


अस्मिन् वर्षे कर्णाटकस्य बालसाहित्यकारेषु अत्यन्तं प्रसिद्धः, बहुभाषाज्ञः जी. पी.राजरत्नम् बेङ्गळूरुनगरस्य रामनगरे जन्म प्राप्नोत् ।


अस्मिन् वर्षे भारतदेशस्य कर्णाटकराज्यस्य बेङ्गळूरुनगरे विद्यमानस्य "विधानसौध"स्य निर्मापकः मैसूरुराज्यस्य द्वितीयः मुख्यमन्त्री केङ्गल् हनूमन्तय्यः जन्म प्राप्नोत् ।

जनवरी-मार्च्

अस्मिन् वर्षे फेब्रवरिमासस्य २३ तमे दिनाङ्के प्रसिद्धः कन्नडचित्रसाहितिः चि सदाशिवय्यः जन्म प्राप्नोत् ।

एप्रिल्-जून्

अस्मिन् वर्षे एप्रिल्-मासस्य १ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य तुमकूरुमण्डलस्य सिद्धगङ्गाक्षेत्रस्य कर्मयोगी शिवकुमार स्वामी जन्म प्राप्नोत् ।


अस्मिन् वर्षे मेमासस्य ६ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य हासनमण्डलस्य "अरकलगूडु" इत्यत्र कन्नडभाषायाः महान् साहितिः अ न कृष्णरायः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अस्मिन् वर्षे आगस्ट्-मासस्य १० दिनाङ्के कन्नडचलनचित्रक्षेत्रस्य प्रसिद्धः निदेशकः एम् आर् विठ्ठलः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे नवेम्बर्-मासस्य ८ दिनाङ्के भारतस्य कर्णाटकराज्यस्य हासनमण्डले विश्वविख्यातः भारतीयः आङ्ग्लसाहितिः राजारावः जन्म प्राप्नोत् ।


निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१९०८&oldid=183415" इत्यस्माद् प्रतिप्राप्तम्