"मङ्गलः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Modifying bn:মঙ্গল (গ্রহ)
No edit summary
पङ्क्तिः २९:
| वयु संघटनम् =९५.७२% इंगालाम्लः
२.७% निट्रोजन्
१.६% आर्गान्
०.२% आम्लः

==परिचयः==

एषः सूर्यमण्डलस्य तृतीयः ग्रहः अस्ति। मङ्गलस्य वर्णः रक्तः अस्ति । अतः अस्य अङ्गारकः इति कथयन्ति । अस्य ग्रहस्य व्यासः भवति ४२०० मैल्-परिमितम् । अयं ग्रहः सूर्यात् २२८,०००,००० कि मी (१४२,०००,०००मैल्) परिमिते दूरे विद्यते । अस्य ग्रहस्य वातावरणे स्वस्य भ्रमणाय अयं ग्रहः ३७ निमेषाधिक २४ घण्टाः स्वीकरोति । सूर्यं परितः भ्रमणाय ६८७ दिनानि स्वीकरोति । अस्य ग्रहस्य '''फोबोस्-डैमोस्'''(Phobos-Deimos) -नामकौ द्वौ उपग्रहौ स्तः । विलक्षणरूपयुक्तौ इमौ उपग्रहौ पूर्वं लघुग्रहरूपेण (अस्टेरायिड्स्) स्याताम् इति ऊह्यते । भूग्रहात् मङ्गलग्रहः साक्षात् द्रष्टुं शक्यः । लौहमलेन युक्तात् उपरितनभागात् प्रतिफलितः अस्य प्रकाशः रक्तवर्णीयः भवति । तस्मात् एव अयं ग्रहः '''रक्तग्रहः'''(Red Planet) इति उच्यते । मङ्गलस्य गोचरप्रमाणं (apparent magnitude)- २.९पर्यन्तं भवति । भूमितः दर्शनेन शुक्रः, चन्द्रः, सूर्यश्च मङ्गलस्य अपेक्षया अधिकाः प्रकाशमानाः दृश्यन्ते । किन्तु वर्षे कानिचन दिनानि गुरुग्रहः मङ्गलस्य अपेक्षया अधिकप्रकाशमानः दृश्यते ।

एषः सूर्यमण्डलस्य तृतीयः ग्रहः अस्ति। मङ्गलस्य वर्णः रक्तः अस्ति । अतः अस्य अङ्गारकः इति कथयन्ति |
ऐदम्प्राथम्येन १९६४ तमे वर्षे जातस्य म्यारिनर्-मङ्गलयानतः पूर्वं बहुभिः ऊहितम् आसीत् यत् मङ्गलग्रहे यथेष्टं जलं द्रवरूपेण उपलभ्येत इति । मङ्गलध्रुवाणां समीपे दृष्टाः शिथिल-गाढचिह्नानि आकारे पौनःपुन्येन परिवर्तमानानि आसन् । अपि च, जलनालाः इव दृश्यमानाः गाढपट्टिकाः अपि दृष्टाः । मङ्गलग्रहे जलराशिः स्यात् इत्येतस्याः आशापूर्णायाः प्रतीक्षायाः इदमेव कारणं स्यात् ।

वस्तुताः एताः पट्टिकाः न आसन् एव, भ्रममात्रम् इति आनन्तरीयविश्लेषणैः अवगतम् । तथापि भूग्रहं विहाय मङ्गलग्रहे एव जलस्य (जीवजन्तोश्च) अस्तित्वं सम्भाव्यते । अतः अद्यत्वे अपि तत्र सूक्ष्मजीविनाम् अभिज्ञानाय प्रयत्नः प्रचलति । मङ्गलस्य दैनन्दिनचलनम् ऋतुमानादयः भूमेः विद्यमानानां सादृश्यं भजते । सौरमण्डले विद्यमानस्य अत्युन्नतः पर्वतः '''ओलिम्पस् मान्स्'''(यश्च पर्वतः गौरीशङ्करस्य अपेक्षया त्रिगुणितोन्नतः वर्तते), अतिगभीरा दरी '''म्यारिनेरिस्-खातम्''', ध्रुवप्रदेशे हिमवलयाश्च अस्मिन् ग्रहे दृश्यन्ते । केभ्यश्चित् वर्षेभ्यः पूर्वमपि अस्मिन् ग्रहे जलं द्रवरूपेण स्यात् इति केचन आधाराः कथयन्ति ।

अद्यत्वे मङ्गलं परितः '''मङ्गल-ग्लोबल्-समीक्षकः, मङ्गल-ओडिस्सि, मङ्गल-एक्स्प्रेस्, मङ्गल-गुप्तचर-परिभ्रमकः''' इत्येताः ४ गगननौकाः(spacecraft) परिभ्रमन्तः सन्ति । अपि च मङ्गलस्य बहिरावरणे '''स्पिरिट्-आपर्चुनिटि'''-नामकौ पर्यटकौ अपि कार्यं निर्वहन्तौ स्तः ।
==पश्य==
*[[नवग्रह|नवग्रहसूची]]
"https://sa.wikipedia.org/wiki/मङ्गलः" इत्यस्माद् प्रतिप्राप्तम्