"ऋतुसंहारम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''ऋतुसंहारं''' महाकविना [[कालिदास|कालिदसेन]] विरचितमेकमत्यधिकं प्रसिद्धं काव्यमस्ति। काव्येस्मिन् [[ग्रीष्म]][[वर्षा]][[शरद्]][[हेमन्त]][[शिशिर]][[वसन्त|वसन्तानां]] षण्णाम् ऋतूणां सुमनोहरं विस्तृतं वर्णनमस्ति। अस्मिन् काव्ये प्रकृत्याः सौन्दर्यस्य दर्शनं भवति।
 
अत्र काव्ये लघुकायाः षट् सर्गा यत्र संहत्थ १५३ श्लोकाः वडृतुवर्णने निबध्दाः । प्रकृतेः सर्वावस्थासु परिवर्त्तितानि तानि तानि चित्राण्यत्र् प्रस्तुतानि यानि प्रत्यक्षदृष्टानीव हृदयं रञ्जयन्ति । कालिदासीयमेवेदमपि काव्यम् ।
केचिदत्र मल्लिनाथस्य टीकामनालोक्यास्य कालिदासप्रणीतत्वं न स्वीकुर्वन्ति । केचित्पुनरत्र ग्रीष्मं प्रथमं वर्ण्यमानमपि दृष्ट्वा कमपि वितृष्णत्वमिव प्रकाशयन्ति । उभयमपीदं न युक्तम्, यतो मल्लिनाथः सर्वानेव ग्रन्थान् विवृणुयादेवेति कुतस्त्या नियमः ? किञ्च वर्षादौ वसन्तस्य निपातेन तद्वर्णनं प्राथम्यमर्हतीति पञ्चाङ्गे युज्यते, न पुनः काव्ये । काव्ये हि कविरुचिः प्राधान्यं भजते । अतो नानया पध्दत्याऽस्य ग्रन्थस्य कालिदासकृतित्वं प्रतिषेध्दुं शक्यते । वस्तुतोऽयं ग्रन्थः कस्यचिदन्यस्य कालिदासस्य कोटिजिदपरनाम्नः । बहवो हि बभूवुः कालिदासाः शृङ्गारतिलक –ज्योतिर्विदाभरण-पुष्पबाणविलासादिकर्त्तारः । तदयं ग्रन्थोऽपि तदन्यतमस्यैव कस्यापि कृतिः स्वादिति सम्भवदुक्तिम् । कीथ महाशयोऽप्यर्थमिममुक्तवान् । कविताशैली पुनरस्य ग्रन्थस्य सरसा सरला च प्रतिभाति –
:'''मन्दानिलाकुलितचारुतराग्रशाखः पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।'''
:'''मत्तद्विरेफपरिपीतमधुप्रसेकश्चितं विदारयति कस्य न कोविदारः॥'''
:'''गृहीतताम्बूलविलोपनस्रजः पुष्पासवामोदितवक्त्रपङ्कजाः ।'''
:'''प्रकामकालागुरुधूपवासितं विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥'''
 
 
*[[कालिदासः]]
"https://sa.wikipedia.org/wiki/ऋतुसंहारम्" इत्यस्माद् प्रतिप्राप्तम्