"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः २५:
अनादिकालादेव सृष्टेः रहस्यं तत्त्वज्ञानिनां कृते अनुसन्धानस्य विषयोऽस्ति । सर्वासु दार्शनिकविचारधारासु स्वस्वदृष्टिकोणैरस्य विश्लेषणं कृतम् । यथा सर्वेषु मानवशरीरेषु जातिगतसाम्ये विद्यमानेऽपि आकृतिगतभेदो भवति तथैव बुद्धिवैषम्यात् सृष्टितत्त्वम् एकं सदपि पृथक्बुद्धिविषयत्वात् विविधरूपेषु ज्ञातुं शक्यते ।<br />
दर्शनशास्त्रे प्रमेयतत्त्वानां सम्बन्धे इदमेव तथ्यं घटते । सृष्टि-स्रष्टा-प्रभृतीनि तत्त्वानि विविधदर्शनेषु विविधदृष्टिकोणेन मीमांसितानि । तत्त्वसाक्षात्कारस्य प्रक्रियायां चिन्तको यावत् चिन्तनं करोति तावत् उपलब्धं निष्कर्षं प्रस्तौति । एवञ्चेत् विविधानां चिन्तकानां निष्कर्षेषु पार्थक्यं दृश्यते । अतः दार्शनिकानाम् एकस्मिन् एव विषये मतान्तराणि स्वाभाविकानि वर्तन्ते ।<br />
भारतीयदर्शने एकः सम्प्रदायविशेषः उपर्युक्तमतेन सहमतो नास्ति । तस्य विचारणा विद्यतेयत् सृष्टेर्यत् स्थूलं रूपं दृश्यते तदेव सत्यमस्ति । दृश्यमाणस्वरूपापेक्षया किमपि अन्यत् तत्त्वं सूक्ष्मरूपेण सृष्टिमूले वर्तते इति विश्वसनीयं नास्ति । यतो हि अदृष्टस्य सूक्ष्मतत्त्वस्य सत्तायामपि किं प्रमाणमस्ति इति नैव वक्तुं शक्यते ।
अयं संशयः सन्देहवादो वा यद्यपि महाभारतकालात्पूर्वमपि विद्यमान आसीत् येन वैदिक
सृष्टितत्त्वानां प्रामाण्यम्
दर्शनशास्त्रस्येतिहासे चार्वाकदर्शनस्य आद्यं स्थानमस्ति । अनेन चार्वाकदर्शनस्य प्राचीनताऽपि सिद्ध्यति । अस्य प्राचीनतया इदमपि स्पष्टीभवति यत् यथा यथा मानवसभ्यताया विकासो जातः तथा तथा तस्याः संस्कृतौ आचारविचारयोश्च परिष्कारो बभूव । सभ्यतया विकासेन सह सृष्टिविज्ञानादयो दार्शनिकसिद्धान्ता अपि सूक्ष्मतत्त्वानुसन्धाने प्रवृत्ता भवितारः, किन्तु सभ्यतायाः प्रारम्भे दर्शनशास्त्रस्य स्थूलतत्त्वानि प्रचलितानि
यदि चार्वाकाः स्थूलविचारपर्यन्यतमेवात्मनः चिन्तनस्य श्रेयस्करत्वं मन्यन्ते तर्हि को दोषः? वस्तुतः चार्वाकस्य एषा हठधर्मिता तु तन्मतस्य पुरातनम् अस्तित्वं द्योतयति । तथापि चार्वाकस्य
प्रारम्भे इदं दर्शनं लोकायतनाम्ना प्रसिद्धमासीत् । लोकयतानां स्वीकार्यः कश्चित् सिद्धान्तो
देवगुरुः बृहस्पतिरेव अस्य मतस्य प्रवर्तनं कृतवान् । बृहस्पतिप्रवर्तितेऽस्मिन् दर्शने स्वभाववादो यदृच्छावादो नियतिवादः कालवादो भौतिकवादश्च अवधारणारूपेण विकसिताः । एष्वपि स्वभाववादश्चार्वाकानाम् अतीव सन्निकटमस्ति । यतो हि स्वभाववादे कारणकार्यभावस्य आवश्यकतैव नास्ति । कालवादे भाग्यस्य महत्त्वं स्वीकृतमस्ति । नियतिवादे आकस्मिकताया ग्रहणं विधीयते
चार्वाकसिद्धान्तस्योल्लेखो रामायणमहाभारतयोरपि उपलभ्यते । वाल्मीकीयरामायणे
चार्वाकदर्शनस्य मूलग्रन्थः सूत्रशैल्याम् उपनिबद्ध आसीत् । अस्य रचना आचार्येण बृहस्पतिना विहिता । अस्य तथ्यस्योल्लेखः प्राप्यते, किन्तु सः सूत्रग्रन्थोऽनुलब्धोऽस्ति । डाँ. उमेशमिश्रेण चार्वाकदर्शनस्य
==चार्वाकदर्शनस्य तत्त्वमीमांसा==
चार्वाकमते तत्त्वानां स्थूलं दृष्टिभूतं स्वरूपमेव यथार्थम् अस्ति ।तेषां स्थूलतत्त्वानां स्वरूप-लक्षण- प्रयोजनादिषु विचारः चार्वाकमते वैशद्येन विहितः । चार्वाकस्य दृष्टिकोणे चत्वार एव प्रमेयपदार्थाः सन्ति-पृथ्वी,जलं,वायुः,तेजश्च । एभ्य एव चतुर्भ्यः स्थूलस्य ब्रह्माण्डस्य रचना विहिता । परवर्तिभिश्चार्वाकैः आकाशमनः प्रा- णादीनामपि प्रमेयपदार्थेषु एव परिगणनं कृतम् । अनेन अनुमीयते यत् अतिस्थूलवादिनः चार्वाका अतिप्राकृता आस- न् ।<br />
|