"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:

चार्वाकदर्शनं (Charvaka Darshan) किञ्चन विभिन्नं दर्शनम् अस्ति । चिन्तनगाम्भीर्यदृष्टया पश्यामः चेत् ज्ञायते यत् निम्नस्तरीयं [[दर्शनम्|दर्शनं]] चार्वाकदर्शनम् इति । [[बृहस्पतिः]] एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते । चार्वाकदर्शनस्य मूलग्रन्थः इदानीं न उपलभ्यते । चार्वाकदर्शनं धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति । चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति । किन्तु एतावता न निर्णेतव्यं यत् ते भोगैकतत्पराः दुराचाराः च आसन् इति । अहिंसा, शान्तिप्रियता, युद्धनिषेधः इत्यादयः बहवः अंशाः तैः अपि प्रतिपादिताः |

अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम दैत्यः आसीत् इत्यतः चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव [[मोक्षः]] । मरणात् परं किमपि नास्ति इति ते वदन्ति । परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’<ref>चार्वाकदर्शनम्</ref> इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।

Line २३ ⟶ २२:
::चतुभ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
::..........................(सं.द.सं)

अनादिकालादेव सृष्टेः रहस्यं तत्त्वज्ञानिनां कृते अनुसन्धानस्य विषयोऽस्ति । सर्वासु दार्शनिकविचारधारासु स्वस्वदृष्टिकोणैरस्य विश्लेषणं कृतम् । यथा सर्वेषु मानवशरीरेषु जातिगतसाम्ये विद्यमानेऽपि आकृतिगतभेदो भवति तथैव बुद्धिवैषम्यात् सृष्टितत्त्वम् एकं सदपि पृथक्बुद्धिविषयत्वात् विविधरूपेषु ज्ञातुं शक्यते ।

दर्शनशास्त्रे प्रमेयतत्त्वानां सम्बन्धे इदमेव तथ्यं घटते । सृष्टि-स्रष्टा-प्रभृतीनि तत्त्वानि विविधदर्शनेषु विविधदृष्टिकोणेन मीमांसितानि । तत्त्वसाक्षात्कारस्य प्रक्रियायां चिन्तको यावत् चिन्तनं करोति तावत् उपलब्धं निष्कर्षं प्रस्तौति । एवञ्चेत् विविधानां चिन्तकानां निष्कर्षेषु पार्थक्यं दृश्यते । अतः दार्शनिकानाम् एकस्मिन् एव विषये मतान्तराणि स्वाभाविकानि वर्तन्ते ।

पङ्क्तिः ४१:
==चार्वाकस्य प्रमाणमीमांसा==
चार्वाकदर्शने प्रमेयतत्त्वानां स्थूलं स्वरूपमेव वास्तविकं स्वीकृतम् । अतः स्थूलपदार्थानां ज्ञानाय तत्र प्रत्यक्षमेवोपयुक्तम् अमन्यत । ये विषयाः इन्द्रियप्रत्यक्षस्य न सन्ति,ते काल्पनिका एव सन्तीति न्यायेन प्रत्यक्ष- स्यैव प्रामाण्यं चार्वाकमतेऽभिमतम् । पञ्चज्ञानेन्द्रियेः शब्द-स्पर्श-रूप-रस-गन्धानां पञ्चैव विषयाणां ज्ञानं भवति,अतः पञ्चैव सत्तात्मकपदार्थाः सन्ति । एभ्योऽतिरिक्तं किमपि विषयं कल्पनामात्रमेव प्रतीयते । तस्य च प्रामाणिकता नास्ति ।

सर्वेषु भारतीयदर्शनेषु इन्द्रियातीतानां परोक्षणाञ्च पदार्थानां ज्ञानाय अनुमानस्य प्रामाण्यं स्वीकृ- तंस्वीकृतं, किन्तु चार्वाकमतेऽनुमानस्य प्रामाण्यं नास्ति । यतो हि अनुमानजन्यं ज्ञानं निश्चयात्मकं न भूत्वा केवलं सम्बाव- नात्मकमेवास्तिसम्भावनात्मकमेवास्तिसम्बावनासम्भावना सर्वदा सत्यमेव स्यादिति आवश्यकं नास्ति । चार्वाकमते कार्यकारणभावोऽपि स्वीकृतो नास्ति । यतः प्रत्यक्षतः सुखदुःखयो कारणम् अप्रत्यक्षरूपेण कल्पितं पापपुण्यादिकं नास्ति । इदमावश्यकं नास्ति यत् कश्चित् बुद्धिजीवी परिश्रमी च मनुष्यः केवलं पूर्वकृतपुण्यबलेनैव सुखी वर्तते अथवा कश्चित् बुद्धिहीनोऽलसश्च पूर्वकृ- तपुण्याभावेपूर्वकृतपुण्याभावे अथवा पूर्वकृतपुपैरेवपूर्वकृतपापैरेव दुःखी वर्तते । चार्वाकस्तु कथयति यत् मानवः बुद्धेर्न्यूनाधिक्यात् कार्यप्रवृत्तौ स्व- भावतःस्वभावतः कदाचित् सुखी कदाचिच्च दुःखी भवति ।

पापपुण्ययोः कृते सदसत्कर्मणां व्याप्तिं नैयायिका अपि स्विकुर्वन्ति, किन्तु तेषामेषा व्याप्तिः सि- द्धासिद्धा नास्ति । यतो हि कस्यपि कार्यस्य उत्पतौ किमपि कारणं नैव भवति । स्वभावेनैव कार्यस्य निष्पत्तिर्भवति । अ- न्यथाअन्यथा कण्टकेषु दृश्यमाणायाःदृश्यमानायाः तीक्ष्णतायाः को हेतुरीति तत्त्वान्वेषणे कश्चिद् हेतुरवश्यमुपलभ्यात्हेतुरवश्यमुपलभ्येत । स च हेतुलभते एव न, अतः कार्यकारणभावस्य सिद्धौ अपि हेत्वभावो दृश्यते ।

सृष्टिप्रलययोरपि कार्यकारणभावो नास्ति । चतुर्ण्णां भूतानाम् आनुपातिकसम्मिश्रणादेव जगत् स्वयमेवास्तित्वम् आप्नोति । तस्य चानुपातिकस्थितेर्विलयात् प्रलयो भवति । किन्तु जगतः आविर्भावतिरोभावौ प्रा- णिपदार्थानांप्राणिपदार्थानां संयोगवियोगौ च स्वाभाविकावेव स्तः । कार्यकारणयोः साहचर्यस्य सिद्धेरभावात् अनुमानांअनुमानानां प्रमाणं ना- स्तिनास्ति, कार्यकारणभावोऽप्यसिद्धोऽस्ति ।

चार्वाकदर्शने शब्दस्यापि प्रामाण्यं नास्ति । कश्चित् जनः सर्वथा सत्यमेव वदतीति तस्य सत्यनि- ष्ठायांसत्यनिष्ठायां निर्भरमस्ति । शब्दोऽपि पुनरनुमानतुल्यः । वेदानामपि प्रामाण्यं नास्ति, यतो हि वेदेष्वपि बहूनि निरोधीनि वचनानि प्राप्यन्ते । अनेके निरर्थकाः शब्दाः अपि वेदेषु प्रयुक्ताः सन्ति । एतदतिरिक्तं वेदेषु एतादृशानाम् पदार्थानां वर्णनं प्राप्यते, येषां प्रत्यक्षं सम्भवं नास्ति । एवञ्चेत् परस्परविरोधिनां निरर्थकानां काल्पनिकानां च विषयाणां नि- रूपणम्निरूपणम् येषु विहितं तेषां वेदे कथं प्रामाण्यं स्यात्? वैदिककर्मकाण्डैस्तु इदमेव प्रतीयते यत् कैश्चित् धूतैरेव लोकप्रव- ञ्चनार्थंलोकप्रवञ्चनार्थं स्वार्थसाधनाय वा वेदानां रचना विहिता ।

:त्रयी वेदस्य कर्त्तारो भण्ड-धूर्त्त-निशाचराः ।
:जर्फरी-तुर्फरीत्यादि पण्डितानां वचः स्मृतम् ॥
==चार्वाकदर्शनस्य आचार मीमांसाआचारमीमांसा==
चार्वाकदर्शने मानवजीवने पुरुषार्थद्वयं विद्यते-अर्थः कामश्च । धर्ममोक्षयोः पुरुषार्थरूपता चार्वा- कमतेऽभिमताचार्वाकमतेऽभिमता नास्ति । यतो हि धर्मस्तु पाखण्डमात्रमस्ति । मोक्षश्च कल्पनामात्रकल्पनामात्रं विद्यते । यदा परलोक एव न दृश्य- तेदृश्यते,तदा मोक्षः कथं संभवेत् । पुनर्जन्मसिद्धान्तोऽपि चार्वाकमते कल्पनामात्रमस्ति,अतः मृत्युरेव मोक्षोऽस्तीति तत्र पुरुषार्थसंज्ञायाः किमपि औचित्यं नास्ति । पुरुषार्थस्तु पुरुषस्य जीवनाय भवति स च अर्थः कामो वा । धर्मस्य नाम्ना यः शरीरिकक्लेशोशारीरिकक्लेशो गृह्यते स मूखतामात्रमस्तिमूर्खतामात्रमस्ति । अर्थोपार्जनाय यदि शरीरस्य उपयोगः स्यात्, तदा तु तस्यौचित्यम् अस्ति, यतो हि अर्थं विना कश्चिद् लोकव्यवहारो नैव प्रवर्तेत ।

यथा अर्थस्य महत्ता मानवजीवने स्वीकृता, तथैव शरीरेन्द्रियाणां: कृते ये विषयाः सन्ति तेषां य- थेच्छमुपभोगेयथेच्छमुपभोगे एव शरीरस्य उपयोगिता लक्ष्यते तस्मात् कामोऽपि पुरुषार्थोऽस्ति । कामस्यसेवनं विना शरीरं निरुद्धे- श्यंनिरुद्धेश्यं स्यात्, अर्थस्य सेवनं विना च जीवनं लोकव्यवहारो वा निरर्थकं स्यात् अत एव अर्थकामयोः पुरुषार्थरूपता सुसि- द्धाऽस्तिसुसिद्धाऽस्ति । चार्वाकैः धार्मिकानुष्ठानां संस्काराणाञ्च क्रियाकलापेषु निस्सारतां दर्शयित्वःदर्शयित्वा तेषां निन्दाऽपि विहिता । तैः ये तर्काः प्रस्तुतास्तेषां तर्काणां सहसा किमप्युत्तरं न लभ्यते ।

उदाहरणार्थं वैदिकयज्ञादिषु पशुबलिर्यदि स्वर्गं प्रददाति तदा पशुस्थाने कथं न कस्यचिदपि आ- त्मीयस्यआत्मीयस्य बलिर्दद्यात्? श्राद्धा दिक्रियाणांश्राद्धादिक्रियाणां किं प्रयोजनमस्ति? मृतपूर्वजानां निमित्तं पिण्डदानतर्पणाद्याः क्रियाः कथं मृतानामुपकारं कर्तुं शक्नुवन्ति? किं निर्वाणमुपगतो दीपोऽपि तैलदानात् प्रज्ज्वलितो भवति? अतः पूर्वजानां तृप्तेः कल्पनया क्रियामाणानां श्राद्धादीनां क्रियाणां निष्प्रयोजनत्वं सुस्पष्टमस्ति ।

चार्वाकदर्शने धर्माधर्मयोर्मान्यता नास्ति । न च पापपुण्ययोरेव कल्पनाऽस्त्र क्रियते । चार्वकस्य जीवनपद्धतिः समग्ररूपेण अर्थकामयोरेवाधारिताऽस्ति । धर्मस्य सर्वथा परित्यागं कृत्वा अधर्मस्य चिन्तनं विना अर्थोपार्जनं कामोपभोगश्च उभावेव करणीयौ इति चार्वाकस्य मूलभूतम् उद्देश्यं प्रतीयते । भोगायतनमिदं शरीरम् अन्ततः कष्टापन्नं भवति,अतो जीवितावस्थायां कदापि दुःखानिवृत्तिः सम्भवा नास्ति । फलस्वरूपं शरीरत्यागरूपिणं मरणमेव चार्वाकमते मोक्ष इति कथितः । मृत्योः पश्चादेव जीवस्य शारीरिकदुःखनाम्शारीरकदुःखनाम् अन्तो भवति । भौतिकं सुखमे- वसुखमेव वस्तुतः सुखमस्ति । तदतिरिक्तं पारलौकिकं सुखन्तु कल्पनामात्रमेवास्ति । एवञ्चेद् भौतिक सुखमेवभौतिकसुखमेव चार्वाकमते मानवजीवनस्य उद्देश्यमस्ति । भौतिकसुखस्य सर्वोपरिताया निदर्शनं चार्वाकस्य अधोलिखितायामेव उक्तौ भवति-

:यावज्जीवेत्सुखं जीवेत ऋणं कृत्वां घृतं पिबेत् ।
:भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
एवं चार्वाकदर्शनस्य आचारसंहितां दृष्ट्रवादृष्ट्वा यद्यपि एकान्तिकदुःखनिवृत्तिरूपस्य उद्देश्यस्य पूर्तिस्तु अनेन सम्भवा नास्ति, तथापि दार्शनिकदृष्ट्रयाऽस्यदार्शनिकदृष्ट्याऽस्य प्रमाणप्रमेयमीमांसा नितान्तं गहनाऽस्ति । विशेषतो व्याप्तिखण्डनं पर्याप्तं युक्तियुक्तं बौद्धिकश्रमसाध्यं च वरीवर्ति । वैदिक कर्मकाण्डस्यवैदिककर्मकाण्डस्य खण्डनविशेषयेऽपि या युक्तयः तर्काश्च चार्वाकैः प्रस्तुतास्ते अकाट्रयसिद्धान्तरूपेण अद्यपि मीमांसायोग्याः सन्ति ।

==आधाराः==
"https://sa.wikipedia.org/wiki/चार्वाकदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्