"सूर्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:The sun1.jpg|thumb|सूर्यः]]
सूर्यः/ रविः किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः । सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव ।
<poem>
सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । भूमेः विस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।
::'''नमः [[सूर्यः|सूर्याय]] [[चन्द्रः|चन्द्राय]] [[मङ्गलः|मङ्गलाय]] [[बुधः|बुधाय]] च ।'''
==रविमार्गः==
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
विश्वगोले '''रविमार्गः''' इत्येषः किञ्चन बृहद्-वृत्तम् । भूकेन्द्रसिद्धान्तानुगुणं भूमिः विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वे अपि पदार्थाः भूमिं परितः भ्रमन्ति । रविः अपि भूमिं परितः भ्रमति इव पूर्वदिशि उदेति पश्चिमदिशि अस्तङ्गच्छति च । रवेः अयं सञ्चरणमार्गः एव (वस्तुतः अयं रविं परितः भ्रमन्त्याः भूमेः मार्गः) '''रविमार्गः''' इति कथ्यते । अयं रविमार्गः विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतः भवति । भूमेः अक्षस्य नमनमेव अस्य कारणम् । भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणः '''रविमार्गस्य वक्रता''' इति निर्दिश्यते । इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते ।
</poem>
==पश्य==
[[File:SURYA GOD.JPG|left|thumb|'''सूर्यदेवः''']]
*[[नवग्रह|नवग्रह सूची]]
नक्षत्रोयं सूर्यः सौरयूथस्य केन्द्रम् अस्ति । सूर्यस्य व्यासः १३,९२,००० कि.मी, यत् पृथ्व्याः व्यासात् १०९गुणितं वर्तते । समस्तसौरयूतस्य घनेषु ९९.८६ प्रतिशतः सूर्यस्य घनमेव अस्ति ।
 
==सविता देवता==
[[वर्गः:नवग्रहाः]]
निष्क्रमणसंस्कारः वसिष्ठस्मृतिमन्त्रे (३-६) कुमारमीक्षये भानुं जपन् वै सूर्यदेवतम् ॥ इति सूचितः । शिशुजननात् मासचतुष्टयानन्तरं प्रथमवारं गृहात् बहिः नीत्वा शिशोः सूर्यदर्शनम् एव निष्क्रमणम् । सूर्यः ब्रह्माण्डस्य सञ्जालनशक्तिः । अतः तं सूर्यनारायणः इति कथयन्ति । मनुस्मृतौ (१-१०) तायदस्यायनं पूर्वं तेन नारायणः स्मृताः । इति उक्तम् । यजुर्वेदस्य तैत्तरीयोपनिषदः आरण्यके (२-१) असावादित्यो ब्रह्मेति । तन्नाम आदित्यः एव परब्रह्मणः व्यक्तं रूपं इति उक्तम् । वाक् मनः प्राणाः एतेषाः त्रयाणाम् अपि सूर्यः एव धिपतिः इति ऋग्वेदस्य मन्त्रे (१०-१७७-२) अस्ति । ऋग्वेदस्य १-७१-९तमे मन्त्रे सूर्यः एव सरसम्पदः प्रभुः इति उक्तम् । ऋग्वेदस्य सपमे मण्डले सूर्यमेव विश्वकर्म इति अवदन् । सूर्यः एव हृदयस्थः मुख्यप्राणः अन्तरात्मनः चैतन्यम् इति ऋग्वेदस्य ६-९-६तमे मन्त्रे अस्ति । शुक्लयजुर्वेदस्य शतपथ ब्राह्मणस्य १०-५-२-१६तमे वचने सूर्यः प्रत्येकं जीविनि अपि अधिवसति । जीविनि विद्यमानां तस्य शक्तिं यदि सः प्रतिगृह्णाति तत्क्षणे एव जीविनः मरणं सम्भवति इति उक्तम् । वेदानाम् अदिभाष्यकारः यास्कमहर्षिः ’सविता सर्वस्य प्रसविता’ ’ज्योतिर्हर उच्यते’ इति उतवान् । तन्नाम सर्वस्य सृष्टा जगतः ज्योतिः हरः भगवान् सूर्यदेवः एव इति । एतादृशं प्रचण्डशक्तिमूलं सूर्यदेवं भगवतः दृश्यरुपं इति जनन्तः वैदिकाः ऋषयः सूर्यनमस्कारं विधिं बोधितवन्तः ।
ऋग्वेदः ’अग्निमीळे पुरोहितम्”..इति अग्निस्तुत्या एव आरभते । ’देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे’ इति सूर्यदेवस्य स्तुत्या यजुर्वेदस्य आरम्भः । कर्मप्रधनस्य यजुर्वेदस्य सूयः एव महाद्वारम् । सूर्यकिरणेभ्यः जीवद्रव्याणि प्राप्य जगतः समस्तजीविनः जीवन्ति न तु प्रकृत्या कस्यचिदपि जीवनं भवति इति वचनं पूर्णसत्यम् । वेदाङ्गे निरुक्ते (१२-१४) यास्काचार्यः ’सूर्य सतेर्वा सुवतेर्वा स्वीयतेर्वा’ इत्युक्ते .. अन्तरिक्षसञ्चारेण सकलजीविनाम् उत्पादकत्वेन सर्वप्रेरणया अयं सूर्यः इति ख्यातः । यजुर्वेदस्य १८-४० तमे मन्त्रे चद्रस्य स्वयंप्रकाशः नास्ति सः सूर्यभासा प्रकाशते इति उक्त्वा खगोलविज्ञानमपि प्रकटितम् । सामवेदस्य छान्दोग्योपनिषदि ५-४-१वाक्ये ’अग्निस्तस्यादित्य एव समित् रश्मयो धूमो अहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गा’ इत्युक्ते द्युर्लोकः एव अग्निः, आदित्यः तस्य समिदः, रश्मयः एव यज्ञस्य धूमः, दिनम् एव तस्य ज्वाला, चन्द्रः एव अङ्गारः, नक्षत्राणि एव विस्फुलिङ्गाः इति उक्तम् । छान्दोग्योपनिषदः १-१२-५तमे वचने ’सविता अन्नमिहा अहरदन्नपते ’ इत्युक्ते वर्षधारभिः आहारसम्भवस्य कारणिकः सूर्यः एव अन्नपतिः इति कथितम् । सामवेदस्य १८-३१तमे मन्त्रे ’सूर्यो ज्योतिः ज्योतिस्सूर्यः” । ज्योतिः एव सूर्यः, सूर्यः एव ज्योतिर्मयः भगवान् इति उक्तम् ।
 
{{हैन्दवदेवताः}}
 
 
[[वर्गः:सूर्यमण्डलम्|सूर्यः]]
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्