"सङ्गीतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Melakarta.katapayadi.sankhya.72.devanagari.png|thumb|200px|भारतीयसङ्गितमण्डलम्]]
'''सङ्गीतम्''' इति [[कला]] शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं वेदाः एव । ऋग्वेदादिषु मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रुपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति ।
 
[[चित्रम्:GClef.svg]]
== इतिहासः ==
{{main|सङ्गीतस्य इतिहासः}}
पङ्क्तिः ८:
==परिभाषा==
सङ्गीतस्य आदिमः स्त्रोतः प्राकृर्तिकरवः एव । प्राचीनयुगे मानवः प्रकृत्याः विविधनादान् श्रुण्वन् अवगन्तुं यतते स्म । प्रकृत्याः सर्वविधनादाः सङ्गीतस्य आधाराः भवितुं नार्हन्ति । अतः येन ध्वनिना भावः उत्पादितः भवति तादृशनादान् परिशील्य सङ्गीतस्य अधारं कुर्वन्तः तान् ध्वनीन् लयेन सह योजयितुं प्रयत्नं कृतवन्तः स्युः । प्रकृत्याः यः नादः मनुष्यस्य मनः संस्पृश्य उल्लासं जनयति सः एव मानवस्य सभ्यतयाः विकासेन सह सङ्गीतस्य साधनम् अभवत् । अस्मिन् चिन्तने मतभेदाः सन्ति एव । दार्शनिकाः परा, पश्यन्ती, मध्यमा, वैखरी इति चतृषु नादप्रकारेषु मध्यमा एव सङ्गीतोपयोगी स्वरः इति वदन्ति । नवदशशतकस्य उत्तररार्धॆ भरतेन्दुः हरिश्चन्द्रः इति विद्वान् " मानवस्य मानवीयसंवेदनया सह एव सङ्गीतस्य उत्पत्तिः अभवत् " इति अवदत् । अपि च सः सङ्गीतं गीतस्य वादनस्य नृत्यस्य अभिनयस्य समुच्चयः इति अवदत् ।
[[चित्रम्:GClef.svg|right]]
 
==प्रादुर्भावः==
प्राच्यशास्त्रेषु सङ्गीतस्य उत्पत्तेः विषये कौतुकयुताः कथाः सन्ति । [[देवेन्द्रः|देवेन्द्रस्य]] सभायां वादाकाः नर्तकाः गायकाः च आसन् । [[अप्सराः]] नर्तनं कुर्वन्ति स्म [[किन्नराः]] वाद्यं वादयन्ति स्म । अस्याः कलायाः [[गान्धर्वविद्या]] इति नाम । गान्धर्वकलायां गीतस्य अतीव प्राधान्यं भवति । आदौ गानम् आगतम् । तदनन्तरं वाद्यं, गीतायाः प्राधन्यं तु आसीदेव । अतः एव गितं नृत्यं वाद्यं वा भवतु तस्य सङ्गीतम् इति अभिधानं दत्तम् । भारतीयसर्वासु भाषासु सङ्गीतम् इति पदं गानम् इति अर्थे एव उपयुज्यते । सङ्गीतम् इति पदं सम् उपसर्गपूर्वकं गै धातुना निष्पन्नम् । ऐङ्ग्लोसैक्सन् भाषायाम् अस्य रूपान्तरम् 'सिङ्गन्'(singan) इति अस्ति । अधुनिकाङ्ग्लभाषायां 'सिङ्ग् ' (sing) इति रूपम् अवाप्नोत् । ऐस्लेण्ड् इति देशस्य भाषयां अस्य रूपं सिङ्गज(singja) इति, डैनिश् भाषयां सैञ्ज् इति, डच् भाषायां त्सिङ्गन् (Synge) इति, जर्मन्भाषायां सिङ्गन् (singen), अरब्बी भाषायां गाना इति वदन्ति । सर्वप्रथमः सङ्गीतग्रन्थए [[सङ्गीतरत्नाकरः|सङ्गीतरत्नाकरे]] गायनवदननृत्यानां सङ्गमम् एव सङ्गीतम् इति पदेन व्यवहारः कृतः । वस्तुतः गीतशब्देन सह सम् उपसर्गं योजयित्वा सङ्गीतम् इति पदं निष्पन्नं यस्य अर्थः सम्यक् गीतम् इति । नृत्यवादनैः सह कृतं गानं सङ्गीतं भवति । शास्त्रेषु सङ्गीतं साधना इति अपि उक्तम् । प्रामाणिकरूपेण अवलोकयामः चेत् प्राचीनसभ्यतायाः अवशेषेषु मूर्तिषु, भित्तिचित्रेषु दृश्यते यत् सहस्राधिकवर्षेभ्यः पूर्वम् एव सङ्गीतं परिचितम् आसीत् । देवदेवताः सङ्गीतस्य प्रेरकाः इति न केवलं भारतदेशे किन्तु पाश्चिमात्यदेशेषु अपि एतादृशः विश्वासः अस्ति । यूरोफ् अरब् फारस् इत्यादिषु देशेषु सङ्गितस्य विषये पदानि सन्ति । सङ्गीतार्थं युनानी भाषायां ''मौसिकी'' (musique), ल्याटिन् भाषायां ''मुसिका'' (musica), फ्रांसीसी भाषायां ''मुसीक्''
"https://sa.wikipedia.org/wiki/सङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्