"मिथुनराशिः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding simple:Gemini (astrology)
No edit summary
पङ्क्तिः १:
[[File:Gemini2.jpg|thumb|200px|राइट]]
मिथुनमिथुनराशिः द्वादशद्वादशराशिषु राशिनांअन्यतमः मध्येअस्ति एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंहः राशिः|सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
==नामौचित्यम्==
{{stub}}
मिथुनं नाम युगलम् इत्यर्थः । कस्मिंश्चित् विषये अपि द्विधा चिन्तनम् । द्वयोः भावयोः स्थानकल्पनम् । निर्णयसामर्थ्यस्य न्यूनतायाः कारणात् द्वन्द्वभावस्य अनुभवनम् एतस्य राशिवतां लक्षणम् ।
==अधिपतिः==
मिथुन-कन्याराश्योः [[बुधः]] अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।
==राशिभावः==
मिथुनः '''सहजतृतीय'''भावः इति निर्दिश्यते । तूतीयभावे सहोदराः, सहकारः, लघु-प्रयाणानि, करकुशलकार्याणि, हस्तलिपिः - इत्येते अंशाः भवन्ति । मिथुनराशिवत्सु अपि एते अंशाः दृग्गोचराः भवन्ति ।
==स्म्बद्धानि अक्षराणि==
मिथुनराशौ मृगशिरायाः ३, ४ पादौ, आर्द्रायाः ४ पादाः, पुनर्वसोः १, २, ३ पादः भवन्ति इत्यतः '''का, की, कू, खं, ङ, भ, के, को, हा ... ''' इत्येतानि अक्षराणि मिथुनसम्बद्धानि इति वक्तुं शक्यते ।
==जन्मदिनम्==
येषां जन्मदिनम् मेमासस्य २१ दिनाङ्कतः जून्-मासस्य २१ दिनाङ्कतः पूर्वं भवति तेषां मिथुनराशिः ।
 
 
[[Category:राशयः]]
 
"https://sa.wikipedia.org/wiki/मिथुनराशिः" इत्यस्माद् प्रतिप्राप्तम्